तृतीयस्थानम् - सप्तपञ्चाशत्तमोऽध्यायः
हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.
आत्रेय उवाच छिन्नं भिन्नं तथा भग्नं घृष्टं पिष्टं तथैव च आस्फालितं सम्प्रहारः सङ्घातः कथ्यते बुधैः ॥१॥
शस्त्रभिन्नं नरं दृष्ट्वा कर्त्तव्या च प्रतिक्रिया ॥२॥
अस्थिस्थं विद्यते मांसमस्थि संच्छिद्यते यदि शाखाप्रशाखयोर्वापि छिन्नं तच्च निगद्यते ॥३॥
असन्धौ परिसंच्छिन्नं तदसाध्यं विनिर्दिशेत् खङ्गार्द्धचन्द्रपरशुच्छिन्नं तु कथितं सदा ॥४॥
तस्यादौ चारणालेप धावनं परिकीर्त्तितम् पिचुना तिलतैलेन शीघ्रं संस्वेदनान्वितम् ॥५॥
यावद्वै स्रवती रक्तं तावत्तैलेन चाभ्यजेत् रक्ते वै विकृतिं प्राप्ते तैलेनाभ्यञ्जनं मतम् ॥६॥
शोफाद्याश्च प्रजायन्ते बहुलोपद्रवा व्रणे सन्धौ छिन्नं नरं दृष्ट्वा सेचयेत्तप्तवारिणा ॥७॥
सञ्चितस्य व्रणस्यापि प्रशस्तं पिचुतैलकम् पूये वापि विनिर्याति निम्बारग्वधपत्रकम् ॥८॥
गुडेन पथ्यां पिष्ट्वा च लेपनं पूयशोधनम् दिनत्रये विशुद्धेऽपि तत्रैवलेपनं हितम् ॥९॥
धवार्जुनकदम्बस्य वृक्षोदुम्बरयोस्त्वचम् जलेन पिष्ट्वा लेपश्च तेन संरोहते व्रणः ॥१०॥
शक्तिशूलैश्च बाणैश्च भल्लारखड्गतोमरैः क्षुरिकामुखधाराभिर्भिन्नं तत्कथ्यते भिषक् ॥११॥
साध्यममर्मजं प्रोक्तं मर्मस्थं तन्न सिध्यति अपामार्गरसेनापि तथा कूष्माण्डकस्य च ॥१२॥
धावनं काञ्जिकेनापि प्रशस्तं कथ्यते बुधैः तिलतैलेन चाभ्यङ्गो हितः स्यात्स्वस्थभिन्नके लेपनश्च प्रयोक्तव्यं पूर्वोक्तञ्च हितावहम् ॥१३॥
उरसि शिरसि शङ्खे कक्षयोः पादयोर्वा त्रिकजठरमुखाग्रे नेत्रयोः कर्णयोर्वा भवति हि यदि शल्यं कष्टसाध्यञ्च शस्त्रैर्भवति यदि न गूढं भेषजैस्तैर्विधिज्ञ ॥१४॥ शाखाप्रशाखयोर्यच्च मर्मस्थं तन्न सिध्यति यन्त्रशस्त्रप्रतीकारैः शल्यं प्राज्ञः समुद्धरेत् ॥१५॥
द्वादशैव तु यन्त्राणि शस्त्राणि द्वादशैव तु चत्वारि च प्रबन्धानां शल्योद्धारे विनिर्दिशेत् ॥१६॥
गोधामुखं वज्रमुखं च नाम संदंशचक्राकृतिकङ्कपादम् अयानकं शृङ्गककुण्डलञ्च श्रीवत्ससौवत्सिकपञ्चवक्त्रम् ॥१७॥
द्वादशैतानि यन्त्राणि कथितानि भिषग्वरैः अथ शस्त्राणि प्रोक्तानि नामानि च पृथक्पृथक् ॥१८॥
अर्द्धचन्द्रं व्रीहिमुखं कङ्कपत्र कुठारिका करवीरकपत्रञ्च शलाकाकारपत्रकम् ॥१९॥
बडिशं गृध्रपादञ्च शूली च घनमुद्गरम् शस्त्राण्येतानि प्रोक्तानि शल्योद्घारे पृथक्पृथक् ॥२०॥
अतिगुप्तं च शल्यञ्च संदंशेन समुद्धरेत् भिन्नेन तत्प्रतीकारः कर्त्तव्यश्च सुधीमता ॥२१॥
गम्भीरशल्यं ज्ञात्वा च प्रतीकारञ्च कारयेत् पाटनं कुशपत्रेण चोद्धरेत्कुंकुमेन च ॥२२॥
भिन्नवत्प्रतीकारश्च कर्त्तव्यश्च सुधीमता ॥२३॥
यत्र शोफो भवेत्तीव्रस्तत्र शल्यं विनश्यति सशल्यं सघनं चैव रुजावन्तं निरूप्य च ॥२४॥
तत्र योग्यं च यन्त्रं च यन्त्रशस्त्रञ्च योग्यकम् तत्तत्र योजनीयञ्च ऊहापोहविशारदैः ॥२५॥
या वेदना शल्यनिपातजाता तीव्रा शरीरे प्रतनोति जन्तोः घृतेन संशान्तिमुपैति तिक्ता कोष्णेन यष्टीमधुनान्वितेन ॥२६॥
सर्जार्जुनोदुम्बरमर्कटीनां रोध्रं समङ्गासुरसासमेतम् जलेन पिष्ट्वा प्रतिलेपनाय शल्योद्धृतौ सौख्यमिदं करोति ॥२७॥
शेषा क्रिया च पूर्वोक्ता छिन्ने भिन्ने हिता तु या कर्त्तव्यो वालुकास्वेदो घटीस्वेदश्च तत्र च ॥२८॥
भग्नास्थिञ्च नरं दृष्ट्वा तस्य वक्ष्यामि भेषजम् मणिबन्धे कूर्परे च जानौ भग्ने कटौ तथा ॥२९॥
पृष्ठवंशे विभग्ने च साध्यान्येतानि सत्तम ग्रीवादेशे चेन्द्रबस्तौ रोहिण्यां कूर्परादधः ॥३०॥
स्कन्धकूर्परमध्ये च तथा च त्रिकमध्यतः उरसि चैव क्रोडे च विभग्नं तदसाध्यकम् ॥३१॥
विभग्नं च नरं दृष्ट्वा वेणुखण्डेन बन्धयेत् मृक्षयेन्नवनीते नैरण्डपत्रैश्च वेष्टयेत् ॥३२॥
उष्णाम्बसा सेचयेच्च वस्त्रेण मृदु बन्धयेत् ॥३३॥
धवार्जुनकदम्बानां वल्कलं काञ्जिकेन तु पिष्ट्वा हितः प्रलेपश्च तेन सौख्यं प्रजायते ॥३४॥
स्वेदयेत्तानि चोष्णेन आवासं कारयेत्पुनः एवं क्रियासमापत्तौ ततो बन्धं विमोचयेत् ॥३५॥
एकाहान्तरितेनापि पूर्ववत्तत्प्रबन्धयेत् यावद्ग्रन्थिं न बध्नाति तावन्न स्नापयेन्नरम् ॥३६॥
घृष्टञ्चैव नरं दृष्ट्वा धावनं काञ्जिकेन च मूत्रेण शीततोयेन धावनञ्च हितं मतम् ॥३७॥
यावद्वै स्रवति रक्तं तावत्तैलेन सेचयेत् अल्पानि चौषधान्यत्र कारयेद्विविधानि च ॥३८॥
विपाके रक्तस्रावञ्च स्वेदनञ्च विधीयते भग्नवत्प्रतीकारञ्च कारयेद्विधिपूर्वकम् ॥३९॥
आस्फालिते प्रतीकारे ज्ञातव्यश्च भिषग्वर ऊहापोहैश्च कर्त्तव्यस्तेन सम्पद्यते सुखम् ॥४०॥
शिरोऽभिघातजो दोषः शिरोरोगः प्रकीर्त्तितः उरसा चाभिघातेन यकृद्गुल्मश्च जायते ॥४१॥
इत्येवञ्च प्रतीकारं कुर्याद्रक्तावसेचनम् स्वेदनञ्च प्रयोक्तव्यं भिषजा कर्मसिद्धये ॥४२॥
न च तैलञ्च भोक्तव्यं नात्युष्णकटुकं तथा मत्स्यानि न च मांसानि घनानि च गुरूणि च ॥४३॥
श्वेतशालिसमुद्भूतं यूषं चैवाढकीषु च शशलावकवार्त्ताककक्कोलं तण्डुलीयकम् ॥४४॥
शतपुष्पाद्यमन्यच्च न च हिंगुसमन्वितम् लवणं नातिभोक्तव्यं यदीच्छेदात्मनः सुखम् ॥४५॥
व्यायामञ्च व्यवायञ्च दिवानिद्रां तथा क्रमम् वर्जयेत्सुखसम्पत्तिर्नरश्च प्रतिपद्यते ॥४६॥
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने भग्नचिकित्सा नाम सप्तपञ्चाशत्तमोऽध्यायः ॥५७॥
N/A
References : N/A
Last Updated : February 24, 2021
TOP