तृतीयस्थानम् - चतुस्त्रिंशोऽध्यायः
हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.
आत्रेय उवाच
चतुर्विधो भवेद्दोषो वातरक्तसमुद्भवः
गन्धदोषेण जायन्ते नामान्येषां पृथक् पृथक् ॥१॥
क्षुद्रतश्चान्तको घोरः अथवान्यमसूरिका
वसन्तः सर्षपाकारा पिटका यस्य दृश्यते ॥२॥
सोऽपि क्षुद्रतरः प्रोक्तः पित्तरक्तप्रदोषतः
अग्निदग्धवत्स दाह्यः पिटिका यस्य दृश्यते ॥३॥
सोऽप्यतीव विसर्पी स्यादसुखी च निरन्तरम् ॥४॥
सघनाः पीडका यस्य पाकयति समः कफः
दाहोऽरतिर्विवर्णत्वं तस्य सद्यः प्रजायते ॥५॥
वर्त्तुलमसूरिकावत् पिटका यस्य दृश्यते
शाम्यति शीघ्रं पाकेन सा विज्ञेया मसूरिका
तस्य वक्ष्यामि भैषज्यं यथाविधि महामते ॥६॥
गुप्ताकारं सुरक्षेच्च रक्षायोगविधानतः
न स्त्रीणां नाधमानाञ्च संसर्गं वा प्रसङ्गकम् ॥७॥
सुशीतं शीतलं स्थानं कारयेत्सुप्रयत्नतः
क्षुद्रकस्योपसर्गस्य लेपनं चात्र कारयेत् ॥८॥
कुष्ठं सोशीरन्यग्रोधस्तथोदुम्बरिकत्वचः
प्रलेपनं प्रशस्तं स्यात्क्षुद्रोपसर्गवारणम् ॥९॥
क्षीरञ्च मधुशर्करायुक्तं पानं सुखावहम्
जम्ब्वाम्रपल्लवानाञ्च विष्ठं दधिमधुयुतम् ॥१०॥
पाययेत् क्षुद्रकस्यास्य अतिसाराग्निनाशनम्
गोक्षुरश्चातिविषा च कर्कटाद्यं सपर्पटम् ॥११॥
कल्कमेतत्प्रयोक्तव्यं मधु शर्करासंयुतम्
हरीतकीमातुलुङ्गस्वरसं शर्करायुतम् ॥१२॥
क्षुद्रकस्योपसर्गस्य वमिशोषनिवारणम्
अग्निकोऽप्युपसर्गं च योज्यं चैतत्प्रलेपनम् ॥१३॥
रक्तचन्दनमञ्जिष्ठा निम्बपत्राणि चार्जुनम्
क्षीरेण नवनीतेन हितं स्याल्लेपनं तथा ॥१४॥
घोरं चोपद्रवं दृष्ट्वा न स्वेदं न च मर्दनम्
प्रलेपनं न कुर्वन्ति यथायोगेन पण्डिताः ॥१५॥
अरण्यगोमयक्षारतैलेन चालनं हितम्
न तैलेनापि चाभ्यङ्गं लेपेनैव च कारयेत् ॥१६॥
चन्दनं मधुकं रोध्रं न्यग्रोधोत्पलसारिवा
मधुना संयुतः कल्कः पानेन चोपसर्गहृत् ॥१७॥
उपसर्गे ज्वरस्तीव्रो रक्तमूत्रं प्रजायते
तस्य वक्ष्याम्युपचारं येन सम्पद्यते सुखम् ॥१८॥
पटोलं पर्पटं शुण्ठी मुस्ता च खदिरं समम्
कल्को मधुयुतः पाने हितः स्याज्ज्वरनाशनः ॥१९॥
चन्दनोशीरमञ्जिष्ठा पुष्करं दन्तधावनम्
क्वायपानं मधुयुतमुपसर्गज्वरापहम् ॥२०॥
वमने चातिसारे च दाडिमं कुटजस्तथा
मधुदध्नान्वित पानमतिसारनिवारणम् ॥२१॥
शेषाश्च क्षुद्रिकाः प्रोक्ताः क्रिया चात्र विधेयका
एका क्रिया मसूरिके कर्त्तव्या सुविधानतः ॥२२॥
वातलानि च सर्वाणि तथा रूक्षाणि कोविदः
स्त्रीसङ्गं रूक्षशोकञ्च दूरतः परिवर्जयेत् ॥२३॥
ज्वरे प्रोक्तानि पथ्यानि तानि चात्र प्रदापयेत्
एवं त्रिसप्तरात्रेण सुखं सम्पद्यते नरः ॥२४॥
ततोऽभिषेकः कर्त्तव्यः कृत्वा मङ्गलवाचनम्
नूतनानि च सूक्ष्माणि वस्त्राणि च सितानि च ॥२५॥
परिधाप्य होमकार्यमिष्टभोज्यं विधेयकम् ॥२६॥
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने उपसर्गचिकित्सानाम चतुस्त्रिंशोऽध्यायः ॥३४॥
N/A
References : N/A
Last Updated : February 24, 2021
TOP