तृतीयस्थानम् - षोडशोऽध्यायः
हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.
आत्रेय उवाच
हालाहलाहलसमं भजते वियोगात्सेव्यानां शिष्यानुजानां कथितं मुनीन्द्र
तृष्णा वमिः श्वसनमोहनदाहतृष्णा सञ्जायतेऽतिशरणं विकलेन्द्रियत्वम् ॥१॥
ये नित्यं सेवनाद्दुष्टा मद्यस्य मनुजा भृशम्
विषमाहारसदृशी सुरा मोहनकारिणी ॥२॥
यथा विषं प्राणहरं वियोगाद्योगेन तं चाप्यमृतं वदन्ति
तथा सुरा योगयुता हिता स्यादयोगतश्चारभतेऽतिकष्टम् ॥३॥
क्षुधातुरे तृषाक्रान्ते सुरा वा भोजनं विना
न च क्षीणैर्विना भक्ता विनाहारातिपानकम् ॥४॥
अत्यशनेऽप्यजीर्णेऽपि सुरा पीता रुजाकरी ॥५॥
यस्य प्रलपनं चापि वाचा वातमदात्ययः
दाहमूर्च्छातिसारश्च ज्वरः पित्तमदात्यये ॥६॥
छर्द्यरोचकहृलासतन्द्रास्तैमित्यगौरवम्
शीतता च प्रतिश्यायः कफजे च मदात्यये ॥७॥
त्रिषुदोषेषुसमतालिङ्गैर्येषामुपक्रमः
स त्रिदोषसमुद्भूतो मदात्ययो भिषग्वर ॥८॥
वमनं च प्रशस्तं च निद्रासंसेवनं पुनः
स्नानं हितं पयःपानं भोजने सगुडं दधि ॥९॥
मस्तुखण्डं सखर्जूरं मृद्वीका सारिवाम्लिका
आमला च परूषं च लेहो हन्ति मदात्ययम् ॥१०॥
द्राक्षामलकखर्जूरपरूषकरसेन वा
कल्कयेत्पयसा तत्तु पानं सर्वमदातयये ॥११॥
पथ्याक्वाथेन संयुक्तं पयःपानं मदात्ये ॥१२॥
पूगीफलमदे कम्पो मोहो मूर्च्छा क्लमस्तमः
प्रस्वेदो विधुरत्वं च लालास्रावश्च जायते ॥१३॥
भ्रमक्लमपरीतत्वं विज्ञेयं पूगमूर्च्छिते
मानवो लक्षणैरेभिर्ज्ञेयः पूगविमूर्च्छितः ॥१४॥
तस्य शीतं जलं पीतं बस्ति वास्तुहितं भवेत्
शर्कराभक्षणे देया मुस्ता वा शर्करान्विता ॥१५॥
कोद्रवाणां भवेन्मूर्च्छा देयं क्षीरं सुशीतलम्
धत्तूरकमदे देयं शर्करासहितं दधि ॥१६॥
हलिनी करवीरं च मोहिनी मदयन्तिका
अन्येषामपि कन्दानां वमनं चाशु कारयेत् ॥१७॥
पाययेच्छर्करायुक्तं क्षीरं दा दधि शर्कराम् ॥१८॥
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने मदात्ययचिकित्सा नाम षोडशोऽध्यायः ॥१६॥
N/A
References : N/A
Last Updated : February 24, 2021
TOP