तृतीयस्थानम् - पञ्चमोऽध्यायः
हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.
आत्रेय उवाच
क्रिमयो द्विविधाः प्रोक्ता बाह्याभ्यन्तरसम्भवाः
बाह्यायूकाः प्रसिद्धाः स्युराभ्यन्तराश्च किञ्चकाः ॥१॥
सप्त विधो भवेद्बाह्यः षड्विधोऽन्तःसमुद्भवः
तेषां वक्ष्यामि सम्भूतिं बाह्यानाभ्यन्तरे नृणाम् ॥२॥
रौक्ष्यादतिमलात्स्वेदाच्चिन्तया शोचनादपि
कफाधातुसमुद्भूतास्तीक्ष्णा यूका भवन्ति हि ॥३॥
यूकाः कृष्णाः पराः श्वेतास्तृतीया चर्मणि स्थिता
सूक्ष्मातिविकटा रूक्षा चर्मभा चर्म यूकिका ॥४॥
चतुर्थी बिन्दुकी नाम वर्त्तुला मूत्रसम्भवा
मत्कुणा स्याच्च पञ्चमी बाह्योपद्रवकारिणी ॥५॥
यूका मस्तकसंस्थाने श्वेता शिरोनिवासिनी
चर्मयूका नेत्रचर्मे सूक्ष्मे रोमणि यष्टिका ॥६॥
रूक्षान्नयवान्नगोधूमपिष्टैर्गुडेन वा क्षीरविपर्ययेण
दिवाशयानेन सपिच्छलेन घर्मेण तापोदकसेवनेन ॥७॥
सञ्जायते तेन मलाशयेषु क्रिमिव्रजं कोष्ठविकारकारि ॥८॥
षड्विधास्ते समुद्दिष्टास्तेषां वक्ष्यामि लक्षणम्
कफकोष्ठं मलाधारं कोष्ठे सर्पन्ति सर्पवत् ॥९॥
पृथुमुण्डा भवन्त्येके केचित्किञ्चुकसन्निभाः
धान्याङ्कुरनिभाः केचित्केचित्सूक्ष्मास्तथाणवः ॥१०॥
सूचीमुखाः परिज्ञेयाश्चान्त्राणि सीदयन्ति ते
वक्ष्यामि लक्षणं तेषां चिकित्साञ्च शृणष्व मे ॥११॥
ज्वरो हृद्रोगशूलं वा वमिहृत्क्लेदनं भ्रमः
रुचिबन्धो विवर्णत्वमतीसारः सफेनिलः ॥१२॥
गर्जनं जठरे चैव मन्दाग्नित्वं च जायते
पिपासा पीतता नेत्रे किञ्चुकैः पीडितस्य च ॥१३॥
सूचीवतुद्यतेऽन्त्राणि रक्तं चेवातिसार्यते
यकृद्वा भक्ष्यन्त्यन्ये रक्तं वा वमते भृशम् ॥१४॥
क्लेदो मुखेऽरुचिर्जाड्यं मन्दाग्नित्वं च वेपथुः
क्षुत्तृष्णा च ज्वरो ज्ञेयाः सूचीमुखक्रिमीरुजः ॥१५॥
ये च धान्याङ्कुरास्तेषां वक्ष्याम्यथ च लक्षणम्
मलाशयस्थाः क्रिमयो मलं जग्धन्ति ते भृशम् ॥१६॥
तैस्तु सम्पीड्यते देहे कृशत्वविद्रधिभेदपरुषताः
तेन गात्रे रुजत्वञ्च हृत्क्लेदो यवक्रिमयो मताः ॥१७॥
हारीतः संशयापन्नः पादौ संगृह्य पृच्छति
कथं देहे मनुष्यस्य मलसृत्ररसाशये ॥१८॥
सम्भवन्ति कथं चादौ वर्द्धयन्ति कथं पुनः
कथं च शीर्णेऽन्नरसे नानाहारविभक्षणे ॥१९॥
जायन्ते केन क्रिमयः सूक्ष्मा वाप्यधोगामिनः
नानामपक्वभक्ष्यान्नं दहते वा हुताशनः ॥२०॥
कथं ते क्रिमयश्चान्ते न दह्यन्तेंऽन्तराग्निना
एवं पृष्टो महाचार्यः प्रोवाच मुनिपुङ्गवः ॥२१॥
आत्रेय उवाच
शृणु पुत्र महाबाहो क्रिमिसम्भवकारणम्
विरुद्धान्नरसैः पुत्र रक्तं चैवास्य कुप्यति ॥२२॥
कफेनैकदिनं याति शुक्रेण कारणं व्रजेत्
पञ्चभूतात्मके काये ते तु जाताः सचेतनाः ॥२३॥
कोष्ठाग्निना न दह्यन्तेन जीर्यन्ते रसानिति
विषे जातो यथा कीटो न विषेण मृतिं व्रजेत् ॥२४॥
तथा हुताशनोद्भूतं न हुताशेन जीर्यते ॥२५॥
भेषजं सम्प्रवक्ष्यामि येन तेऽपि तरन्ति वै
पतन्ति वा शमं यान्ति भेषजानि शृणुष्व मे ॥२६॥
वचाजमोदा क्रिमिजित्पलाशबीजं शठी रामठकं त्रिविश्याः
उष्णोदके तत्परिपिष्य पेयं पतन्ति शीघ्रं शतधार्त्तमलम् ॥२७॥
शटीयवानीपिचुमन्दपुत्रान् विडङ्गकृष्णाति विषारसानाम्
सम्पिष्य मूत्रेण त्रिवृत्प्रयुक्तं विनाशनं सर्वकृमीरुजानाम् ॥२८॥
मरिचं पिप्पलिमूलं विडङ्गशिग्रुजवानिकात्रिवृतः
गोमूत्रेण तु पेष्यं पानं शीघ्रं क्रिमीन् हन्ति ॥२९॥
मुस्ताविशालात्रिफलासुपर्णिशिग्रूसुराह्वं सलिलेन कल्कः
पानं सकृष्णाक्रिमिशत्रुचूर्णं विनाशनं सर्वकृमीरुजां च ॥३०॥
सुरसा च सुरदारु मागधी विडङ्गकम्पिल्लविडङ्गदन्तिनी
त्रिवृत्ताडकरसोनकं क्रिमिहृद्रोगहृत्सलिलेन सेवितम् ॥३१॥
मातुलुङ्गस्य मूलानि रसोनः क्रिमिजित्त्रिवृत्
अजमोदानिम्बपत्रं गोमूत्रेण तु पेषयेत् ॥३२॥
पानमेतत्प्रशंसन्ति क्रिमिदोषनिवारणम्
ज्वरप्रोक्तानि पथ्यानि क्रिमिदोषे प्रदापयेत् ॥३३॥
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने क्रिमिचिकित्सा नाम पञ्चमोऽध्यायः ॥५॥
N/A
References : N/A
Last Updated : February 24, 2021
TOP