संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्|
तृतीयोऽध्यायः

तृतीयस्थानम् - तृतीयोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच
अथातीसार विज्ञानं भेषजं शृणु पुत्रक
ज्वरजो वातिसारश्व भेषजं चोपदिश्यते ॥१॥
दोषसंशमनं किञ्चित् किञ्चिच्च धातुदूषणम्
स्वस्थवृत्तौ मतं किञ्चिद्द्रव्यं त्रिविधमुच्यते ॥२॥
तच्च दैवपथाश्रयं युक्तिपथाश्रयं सत्त्वावजयञ्च
मन्त्रौषधमणिमङ्गगलबल्युपहारहोमनियमप्रायश्चित्तोपवासस्वस्त्यनप्रणिधाना
दीति दैवपथाश्रयम् । आहारव्यवहारौषधद्रव्याणां योजनेति युक्तिपथाश्रयम् । अहितेभ्योऽर्थेभ्यो मनोनिग्रह इति सत्त्वावजयञ्च ॥३॥
स्निग्धातिशीतगुरुशीतलपिच्छलान्नं दुष्टाशनातिविषमाशनपान भक्ष्यम्
अद्यादजीर्णमथ शोकविषैर्भयैर्वा शोकार्त्तिदुष्टपयसा तु विपर्ययेषु ॥४॥
दौर्बल्यतां विषमभोजनकेन चाप्सु सम्भिद्यते मलमजीर्णं निहन्ति चाग्निः
सञ्जायते हि मनुजस्य तदातिसारो हत्वोदराग्निं मनुजस्य तदातिसारः ॥५॥
सञ्जायते स तु पुनर्बहलो मलेन स्यात्पञ्चधा निगदितो मुनिभिर्विधिज्ञैः
रक्ष्ये समासत उदीर्णरुजस्य नाशः क्वाथादिकैर्भवति पाचनकैश्च पूर्वम् ॥६॥
युगपज्जायते यस्य ज्वरश्चैवातिसारकैः
ज्वरातिसारो घोरोऽसौ कष्टसाध्यो मनीषिणाम् ॥७॥
न पित्तेन विना सोपि जायते शृणु पुत्रक
तस्य नो लङ्घनं प्रोक्तं ज्वरे चैवातिसारके ॥८॥
सुवर्चलमतिविषाहिंगुपथ्याकलिङ्गकैः
शुण्ठी वामातिसारघ्नी शूलघ्नी ग्राहिपाचनी ॥९॥
पथ्यादारुवचामुस्तानागरातिविषायुतैः
आमातिसारनाशाय क्वाथमेभिः पिबेन्नरः ॥१०॥
उत्पलं धान्यकं शुण्ठी पृश्निपर्णी बलायुतम्
बालबिल्वं गवां तक्रेणात्युष्णेन च पेशयेत् ॥११॥
तेन लाजाकृतं मण्डं देयमानीय शीतलम्
ज्वरातिसारशमनं हुताशनबलप्रदम् ॥१२॥
शुण्ठीविषातलधरामृतवत्सकानां तिक्ताह्वयं कनकशीतलकः कषायः
पाने विधेयमधुना प्रतिसाधितस्तु ज्वरातिसारशमनाय सदा प्रदेयः ॥१३॥
पाठेन्द्रभूनिम्बघनामृतानां सपर्प्पटः क्वाथ इह प्रशस्तः
आमातिसारञ्च जयेद्रुतं वा ज्वरेण युक्तं सहजञ्च तीव्रम् ॥१४॥
शुण्ठी बालकमुस्ता बिल्वं पाठा विषा च धान्यानि
पाचनमरुचौ छर्द्दिज्वरातिसारं विनाशयति ॥१५॥
वत्सकश्च सुरदारुरोहिणी धान्यबिल्वमगधात्रिकण्टकम्
निम्बबीजगजपिप्पलीवृकीक्वाथ एवमतिसारस्यौषधम् ॥१६॥
पञ्चमूलीबलाबिल्वगुडूचीमुस्तनागरैः
पाठाभूनिम्बह्रीबेरकुटजत्वक्फलैर्भृतः ॥१७॥
इति सर्वानतीसारान्वमिश्वासज्वरार्दितान्
सशूलोपद्रवांश्चासौ हन्याच्चासुरदारुणम् ॥१८॥
पञ्च मूल्यतिसामान्या योज्या पित्ते कनीयसी
महती पञ्चमूली तु वातश्लेष्मज्वरे हिता ॥१९॥
उत्पलं दाडिमत्वक्च केशरं तथा मधु पद्मकम्
धात्री पिष्टा तण्डुलतोयैः पाचनं ज्वरातिसारघ्नम् ॥२०॥
उशीरं धान्यकं मुस्तं सबिल्वं बालकं बला
तथा च धातकी पुष्पं कषायस्य प्रशस्यते ॥२१॥
ज्वरातिसारशमनं सहशोणितपैत्तिकम्
निहन्ति शोफं सकलं रुचिप्रदविपाचनम् ॥२२॥
विगतामातिसारं चिरोत्थितं रक्तसहितमतिवृद्धम्
मधुना सहितः शमयत्यरलुः पुटपाकनिर्यासितः ॥२३॥
जम्बूवटोदुम्बरप्लक्षको हि नागश्च प्रपौण्डरिकं शमी च
गुन्द्रः सचूतोऽम्बुदजीविकाया आसां हि पुञ्जञ्च सदा विदध्यात् ॥२४॥
प्रस्थद्वयेनप्रपिबेद्धि तावद्यावद्विशेषांशमिदं प्रजायते
पुनः कटाहे विपचेच्च सम्यग्दार्वीप्रलेपः स्वरसश्च यावत् ॥२५॥
उत्तार्य नूनं भिषगुत्तमेन क्षौद्रेण मिश्रं हरतेऽतिसारम् ॥२६॥
हारीतेन तथा प्रोक्ता काकमाची सुपूजिता
आलोक्यानेकशास्त्राणि आत्रेयेणापि पूजिता ॥२७॥
जम्बूत्वचं वत्सकवल्कलं च निष्क्वाथ्य नूनं सलिले समीरणम्
चतुर्विभागेष्वपि शेषितेषु उत्तार्य वस्त्रेष्वथगालयेच्च ॥२८॥
पुनः कटाहे विपचेच्च सम्यग्दार्वीप्रलेपः स्वरसस्तु यावत्
उत्तार्य शीते मधुना विमिश्रं लीढं हरेदप्यतिसारमुग्रम् ॥२९॥
कुक्षो दरे वक्षसि नाभिदेशे प्रायुप्रदेशे सततं निरुद्धे
वातस्य रोधश्च शकृद्विभङ्गो भवन्ति सर्वेष्वतिसारकेषु ॥३०॥
सफेनिलं पिच्छलमेव रूक्षमल्पं सकृदामसशब्दशूलम्
कृष्णं भवेद्गात्रविचेष्टनञ्च वातातिसारे प्रवदन्ति तज्ज्ञाः ॥३१॥
तस्यादौ लङ्घनं चैकमल्पे वा नैव लङ्घनम्
तस्माद्देयं कषायं तु पानभोजनमेव च ॥३२॥
उदीच्यधान्यस्य जलेन कल्कं पाने हितं पाचयतेऽतिसारम्
तृष्णापहं दाहविनाशनञ्च सशूलहिक्कासुविनाशनं स्यात् ॥३३॥
बालकद्वयमोचहरीतकीपर्पटेन सहितं जलेन च
क्वाथपानमिदमेवातिसारे नाशमाशु कुरुते च विट्छान्तिम् ॥३४॥
शालिपर्णी पृश्निपर्णी बृहती कण्टकारिका
बालाश्वदंष्ट्रा बिल्वानि पाठा नागरधान्यकम् ॥३५॥
एतदाहारसंयोगे हितं सर्वातिसारिणाम्
तिन्दुकत्वचमाहृत्य काश्मरीपत्रवेष्टितम् ॥३६॥
मृदा विलिप्य विधिवद्दहेन्मृद्वग्निना भिषक्
रसं गृहीत्वा मधुसंयुतं पानं सर्वातिसारघ्नञ्च ॥३७॥
तुलामथार्द्रागिरिमल्लिकायाः सङ्कुट्य कर्षञ्च समादधीत
तस्मिन्सपूते पलसंसितञ्च देयञ्च पिष्ट्वा सह शाल्मलेन ॥३८॥
पाठा समङ्गातिविषा समुस्ता बिल्वञ्च पुष्पाणि च धातकीनाम्
प्रक्षिप्य भूयो विपचेच्च तावद्दार्वीप्रलेपः स्वरसस्तु यावत् ॥३९॥
पीतस्त्वसौ कालविदा जलेन मण्डेन वाजापयसाऽथवापि
निहन्ति सर्वमतिसारमुग्रं कृष्णं सितं लोहितपीतकञ्च ॥४०॥
दोषं ग्रहण्यां विविधं च रक्तपित्तं तथार्शांसि सशोणितानि
असृग्दरं चैवमसाध्यरूपं निहन्त्यवश्यं कुटजाष्टकोऽयम् ॥४१॥
घर्मेण चोष्णान्नविभोजनेन घर्मेण तप्तोदकसेवनेन
शोकेन तापेन रुषा कटुत्वे क्षारेण पित्तासृक्सारकः स्यात् ॥४२॥
तेनारुणं पीतमथातिनीलं दुर्गन्धशोषज्वरपाण्डुयुक्तम्
भ्रमार्त्तिमूर्च्छा च तृषाङ्गदाहः पित्तातिसारस्य च लक्षणानि ॥४३॥
शालिपर्णीपृश्निपर्णीबलाबिल्वैस्तु साधितः
दाडिमाम्लो हितः पेयः पित्तातीसारशान्तये ॥४४॥
कुशकाशेक्षुमूलानां शालीनलभवैर्जलैः
मूलानां क्वाथमाहृत्य शस्तं पित्तातिसारिणाम् ॥४५॥
धान्यपञ्चकमूलानां क्वाथः पित्तातिसारिणाम् ॥४६॥
शाल्मलीमूलत्वग्गुडदुग्धपेषितं च
पानं पित्तातिशमनं सरक्तदाहशोषहरम् ॥४७॥
दुःस्वप्नादिश्रमाद्वै सहजजडतया शीतसंसेवनेन स्निग्धाहारातिभोज्यात्सतिलपलगुडैश्वेक्षुखण्डैर्गुरूणाम् ।
शीतातिस्नानलौल्यात्पयसि दधियुताहारसंसेवनाच्च जातः श्लेष्मातिसारो
जठरहुतभुजहन्तिपुंसामपाकः ॥४८॥
तेन श्लेष्मा शुष्कभेदारुचिः स्यात्सान्द्रं विस्रं जाड्यता रोमहर्षः
मन्दाग्नित्वं मन्दवेगो विशिष्टः सालस्योऽपि विद्धि सारः कफोत्थः ॥४९॥
तस्यादौ लङ्घनं प्रोक्तं ज्ञात्वा देहबलाबलम्
पाचनं च विधातव्यं त्र्यूषणाद्यं भिषग्वर ॥५०॥
त्र्यूषणमभया हिंगु चातिविषा रुचकं वचायुक्तम्
मधुसहितं लेहनं नृणां गङ्गामपि वाहिनीं रुन्ध्यात् ॥५१॥
कालिङ्गपाठातिविषा बला च सोदीच्यमुस्तामरिचानि शुण्ठी
गुडेन क्षौद्रेण प्रशस्तकल्को रक्तातिसारे कफजे शमाय ॥५२॥
वत्सकातिविषबिल्वमुस्तकं वालकेन सहितं जले न तु
क्वाथपानमतिशूलरक्तपूयनाशं ज्वरयुतेऽतिसारके ॥५३॥
यस्तु रक्तं च शुद्धं विरेचने शोषदाहमतिरिञ्चेत्
रक्तातिसार इति ज्ञेयो वैद्यैर्महामतिभिः ॥५४॥
धान्यनागरमुस्ता च वालकं बालबिल्वकम्
बला नागबला चेति क्वाथो रक्तातिसारिणाम् ॥५५॥
दाडिमं च कपित्थं च पथ्याजंब्वाम्रपल्लवान्
पिष्ट्वा देया मस्तुयुक्ता रक्तातीसारवारणाः ॥५६॥
गुडेन पक्वं दातव्यं बिल्वं रक्तातिसारिणे
मनुजे पथ्या वा मधुयुक्ता वा दध्ना रक्तातिसारघ्ना ॥५७॥
वत्सकातिविषानागराभया पिषितं च मस्तुसंयुतम्
लेहस्तु शस्तो मधुनापि मानुजे रक्तवाहमतिवारयत्यपि ॥५८॥
कुटजत्वक्च पाठा च विश्वं बिल्वं च धातकी
मधुना सहितं चूर्णं देयं रक्तातिसारघ्नम् ॥५९॥
वराहवासासदृशं तिलाभं मांसधावनाभासम्
पक्वजम्बूफलसदृशं सन्निपातः प्रवहताम् ॥६०॥
तुलामथार्द्रागिरिमल्लिकायाः सङ्कुट्य पक्त्वा रसयाददीत
तस्मिन्सुपूते पलसम्मिते च देयं च पिष्ट्वा सह शाल्मलेन ॥६१॥
पाठा समङ्गातिविषासमुस्ता बिल्वं च पुष्पाणि च धातकीनाम्
प्रक्षिप्य भूयो विपचेच्च तावद्दार्वीप्रलेपः सरसस्तु यावत् ॥६२॥
पीतस्ततः कालविदा जलेन मण्डेन च क्षौद्रयुतेन वापि
निहन्ति सर्वमतिसारमुग्रं कृष्णं सितं लोहितपीतकं च ॥६३॥
दोषं ग्रहण्यां विविधं च रक्तं पित्तस्य चार्शांसि सशोणितानि
असृग्दरं चैवमसाध्यरूपं निहन्त्यवश्यं कुटजाष्टकोऽयम् ॥६४॥
पथ्यापञ्चमूलक्वाथश्चतुर्भागावशेषतः
तत्र क्वाथे पुनश्चूर्णमिमानि वौषधानि तु ॥६५॥
शृङ्गवेरं तथा लाक्षा पिप्पली कटु रोहिणी
दाडिमफलत्वक्चूर्णं दार्वी सवत्सकं विषम् ॥६६॥
आटरूषकचूर्णानि संक्षिप्यात्र निघट्टयेत्
आजं दुग्धं तदर्द्धेन घृतं चाष्टांशकं क्षिपेत् ॥६७॥
दार्व्या विलेपितं ज्ञात्वा गुडस्य षोडशानि तु
पलानि मिश्रितं तत्र देयमप्रातराशने ॥६८॥
त्रिदोषसन्निपातोत्थ अतिसारश्च दारुणः
शूलमूर्च्छाभ्रमानाहकामलानां विपाचनः ॥६९॥
क्षतक्षीणक्षयाणां तु हितोऽयममृतो वटः ॥७०॥
एकबिल्वागुरुरोध्रचूर्णं मध्वादियोजितम्
रक्तातिसारशमनं बालानां क्षीणधातुकम् ॥७१॥
यदा गुह्यं निरस्येत्तु तदा कुर्यात्क्रियामिमाम्
सहचर्या बलानां च रसो ग्राह्यो घृतं पुनः ॥७२॥
पक्वघृतेन लेपः स्यात्तस्य चेदं प्रशस्यते
अरणीपल्लवक्वाथो वाप्यं लोष्टं सचन्दनम् ॥७३॥
प्रतप्तमथवाग्निनिभं तथा नरस्य निर्वाप्य काञ्जिकमथ विदधीत तद्वत्
सौख्यं च सम्यग्गुदसेचनकं प्रशस्तं संवेश्य मध्यतो गुदं दृढबन्धनं स्यात् ॥७४॥
लशुनकुणपगन्धं पूयगन्धं घनं वा पललजलसमानं पक्वजम्बू निभं वा
घृतमधुपयसाभं तैलशैवालनीलं सघनदधिसवर्णं वर्जयित्वातिसारम् ॥७५॥
भ्रममदनमकार्शं शूलमूर्च्छाविदाहं श्वसनमतिविवर्णं छर्द्दिमूर्च्छातृडार्त्तम्
विकलमतिशयेन सौख्यशोफज्वरार्त्तिः स परिहरतु दूरं सद्विधाता न दृष्टः ॥७६॥
शोफं शूलं ज्वरं तृष्णां श्वासं कासमरोचकम्
छर्दिमूर्च्छां च हिक्कां च दृष्ट्वातीसारिणं त्यजेत् ॥७७॥
दृष्ट्वा शोफं तथाध्मानं हिक्कां छर्दिमरोचकम्
तथा च पाण्डुरोगार्त्तमतिसारयुतं त्यजेत् ॥७८॥
यदल्पमल्पं क्रमशो निषेवितं मलं भगाधारगतं च नित्यम्
हित्वान्तराग्निं कुरुते नरस्य विकारमाहुर्ग्रहणीति संज्ञाम् ॥७९॥
निर्वृत्ते चातिसारे शमयति दहनं भूयसा दोषितोऽपि
भुक्त्वा नाश्यमलांशं बहुदिनमनिशं सञ्चयित्वा निसर्त्ति ।
वारं वारं विगृह्य सहजमसरलं पक्वमानं घनं वा
दुर्व्याधिर्घोररूपो मनुज रुजकरः स्यात्तथा ग्रहणीति ॥८०॥
लक्षयेच्चातिसारे च विज्ञेयं ग्रहणीगदम्
वातिकं पैत्तिकं चैव श्लेष्मिकं सान्निपातिकम् ॥८१॥
नैव चैकेन दोषेण जायते ग्रहणीगदः
तेन संक्षीयते देहमन्तर्दाहो विपाकता ॥८२॥
तिक्तः कषायः कटुकाम्लविदाहिरूक्षः शीताल्पभोजनपरैः श्रम मैथुनैश्च
भाराध्वहस्तिरथवाहनधावनेन संक्रुद्धवायुहननेऽनल वेगमेनम् ॥८३॥
तस्मात्तदग्रमनिलेन च छिद्यमानं रक्तेन युक्तमनिले परिपाकमेति
सञ्जायतेऽपि मनुजस्य तथा तृतीयं गुल्मेति नाम स च पञ्चविधो बभूव ॥८४॥
प्लीहा यकृज्जठरकण्डुमलस्य बन्धोऽष्ठीला क्रिमिर्जठररोगभवोऽथ षष्ठः
एते भवन्ति ग्रहणीपरिवर्त्तमाना घोरास्तथा दुःखदाश्च मनुजस्य चित्ते ॥८५॥
कण्ठस्य शोषस्तिमिरं तथा पार्श्वशूलं नाभौ तथातिकृशतातिविषूचिका च
कर्णे स्वनोऽतिवमनं क्लमशूलमोहः श्वासेन गुल्ममिति लक्षणमेव विद्धि ॥८६॥
यस्यैतानि च लिङ्गानि गुल्मिनं तं विदुर्बुधाः
ग्रहणी नाम साध्यो यस्तस्य वक्ष्यामि लक्षणम् ॥८७॥
चित्रं सशब्दं सृजतेऽत्र वर्चः शोफोऽनिलो वर्चमतीव रूक्षम्
श्वासार्त्तियुक्तं तनुशैथिलं च स्रावो ग्रहण्यानिलकोपतः स्यात् ॥८८॥
विदाहि शीर्णं सरुजं तृषार्त्तं दुर्गन्धपीतारुणनीलकालम्
संसृज्यते यस्य मलो विमिश्रः पित्तोद्भवा सा ग्रहणीति संज्ञा ॥८९॥
हृल्लासश्छर्दिः श्वसनं शोफः कासो जडत्वं च सशीतता च
वैरस्यमास्ये गुरुगात्रता स्यादरोचकं शङ्खशकृद्ग्रहस्तु ॥९०॥
त्रिभिः समेतं गदितं च चिह्नमेतस्य कोपो मधुरास्यता वा
दाहोऽथ मूर्च्छा श्वसनं जडत्वं स सन्निपातग्रहणीगदः स्यात् ॥९१॥
दारुनागरनिशा सवासका कुण्डली मगधजा शठी घनम्
रास्ना सभार्ङ्गी सरलाह्वपुष्करं पाचनं भवति वातिकग्रहे ॥९२॥
नलवेणुकुशानां च काशेक्षूणां च मूलकम्
क्वाथपानं हितं वास्य पाचनं पैत्तिके ग्रहे ॥९३॥
व्याघ्रीग्रन्थिकचव्यसुरसा शुण्ठी दाडिमम्
रजनी घनचित्रकमेवं हिक्कामथकफग्रहणीं हन्ति ॥९४॥
शुण्ठी कणा द्विरजनी च घनं तथा च योज्यः पुनः प्रतिविषं त्रिफला विडङ्ग
सिन्धूत्थवह्नित्रिकटुं त्रिसुगन्धियुक्तं चूर्णं पुनर्गुडयुतं घृतमिश्रितं च ॥९५॥
कृत्वा बिडालपदमात्रकमोदकाश्च भक्षेद्यथा जलमपि ग्रहणीगदे च
अर्शोभगन्दरमरोचकगुल्ममेहाञ्छूलाश्मरीकृमिजरोगहरं च पाण्डु ॥९६॥
श्रेष्ठं रसायनमिदं बलिनाशनं स्याद्वृष्यं बलं विदधतेऽतिकृशत्वदोषम्
वर्णेन्द्रियसकलदीप्तिकरं रुजोघ्नं कुष्ठभ्रमापहरणं कुरुतेसदैव ॥९७॥
हरीतकीपञ्चशतानि धीमान् द्रोणेन गोमूत्रशतेन पाच्यम्
मृद्वग्निना यावदशेषमेव मूत्रं विजीर्णे विधिवद्विधिज्ञः ॥९८॥
निर्वाप्य चूर्णे प्रतिशोष्य शीतं छायाविशुष्कान् प्रविदार्य चाष्टीः
चूर्णं च शुण्ठीमगधाविषाश्च सुगन्धिमूर्वाचविक्रान्विताश्च ॥९९॥
निष्क्वाथ्य कल्कः कुटजस्य तावद्दर्व्योपलेपी भवतीति यावत्
तस्यार्द्धभागेन गुडं विमथ्यात्क्षीरं तदर्द्धेन गवाजकं वा ॥१००॥
निर्वापितं तं घृतभाजते च संस्थापितं प्राङ्मुदितेन तेन
सिन्धूत्थवह्नित्रिकटुं त्रिसुगन्धियुक्तं चूर्णं पुनर्गुडयुतं घृतमिश्रितं च ॥१०१॥
चूर्णेन तेन सकलग्रहणीयपाण्डुशोषाश्मरीं कृमिजगुल्ममथातिसारान्
प्लीहायकृच्छ्वासिषु मानवेषु विषूचिका पीनसमस्तकार्त्तिम् ॥१०२॥
विनाशनः सद्यस्तथा ज्वराणामध्वश्रमक्षीणबलोदराणाम्
एकाहिकादिज्वरनाशनःस्याल्लेहोऽभयाद्योऽमृतवन्नराणाम् ॥१०३॥
इत्यभयाद्योऽवलेहः
द्राक्षाक्षीरेण पक्त्वा यावद्घनं दर्व्युपलेपि च
दृष्ट्वा पश्चात्तैः समालोड्य चेमान्यौषधानि मतिमान् ॥१०४॥
पर्पटातिविषा मूर्वा पटोलं घनवालकम्
तथाभयानां चूर्णं तु समशर्करयायुतम् ॥१०५॥
तेन क्षीरेण संयोज्य विदार्याः कन्दमेव च
घृतेन नवनीतेन पिण्डं कृत्वाऽथ भक्षयेत् ॥१०६॥
सपित्तग्रहणीपाण्डुकामलार्त्तितृषापहम्
भ्रम मूर्च्छां तथा हिक्कां तमकोन्मादमश्मरीम् ॥१०७॥
मेहपित्तासृजं कुष्ठं नाशयत्याशु निश्चितम् ॥१०८॥

इति द्राक्षादिक्षीरम्
इति आत्रेयभाषिते हारीतोत्तरे तृतीयस्थाने अतीसारचिकित्सानाम तृतीयोऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : February 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP