संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्|
चतुर्दशोऽध्यायः

तृतीयस्थानम् - चतुर्दशोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच
वेगाभिघातातिनिरोधकेन क्षीणक्षताच्च तृषितेन वापि
विरुद्धयुक्तान्नविभक्षणेन दोषः प्रदुष्टः प्रकरोति मूर्च्छाम् ॥१॥
पञ्चेन्द्रियाणां संलग्नाः प्रत्येके द्वादशादयः
पञ्चेन्द्रियाणां सहिता नाडिकाः षष्टिसंख्यया ॥२॥
रुन्धन्ति नाडिकाद्वारं तेन चेतो विमूर्च्छति
संज्ञानाशाद्भवेच्छीघ्रं निश्चेताश्च सदा नरः ॥३॥
पतति काष्ठवतूर्णं मोहमूर्च्छा निगद्यते
सा षड्विधा समुद्दिष्टा वातपित्तकफात्तथा ॥४॥
शोणितादभिघातेन मद्येनाथ विषेण वा
एतेषां कोपयेत्पित्तं मरुद्रक्तं समीतितम् ॥५॥
संख्यादौर्बल्यकं तेन मूर्च्छा मोहः प्रकथ्यते
कथयामि समासेन लक्षणानि पृथक्पृथक् ॥६॥
नीलं कृष्णाऋणं पश्येत्तमः प्रविशति क्षणात्
कम्पो मार्दवमेतासां क्षणेन प्रतिबुध्यति ॥७॥
वातेन मूर्च्छा भवति कृशता विकृतास्यता
नेत्रप्लावश्च मृष्टिश्च आध्मानञ्च भवेत्क्षणम् ॥८॥
पीतञ्च नीलहरितं तमः प्रविशते भृशम्
सन्तापश्च पिपासा च रक्ते पीते च लोचने ॥९॥
सस्वेदं शरीरं चापि श्रमः सम्भिन्नवर्चसाम्
पित्ताद्भवति मूर्च्छात्वं जायते च शिरोव्यथा ॥१०॥
धूमाकुलां दिशं पश्येत्तमः पश्यति यः पुरः
नेत्राकुलत्वं मन्दाग्निस्तमोऽङ्गेषु च शीतता ॥११॥
चिरात्प्रबुध्यतेऽत्यर्थं कण्ठश्च घुर्घुरायते
हृल्लासमूर्च्छा भवति कफजा च विलक्षणैः ॥१२॥
सन्निपातादपस्मारो दृश्यते भिषजांवर
स प्राणिनां घातयति रक्तेन सहितो यदि ॥१३॥
रक्तगन्धेन मूर्च्छन्ति तेन मूर्च्छा शिरोव्यथा
कम्पते नष्टचेष्टत्वं जल्पते वमते पुनः ॥१४॥
विभ्रान्तचेता रक्ताक्षः स्वप्नशीलः सुरावशः ॥१५॥
क्षतक्षयाद्भवेच्चान्या कोद्रवान्ननिषेवणात्
जायते मोहमूर्च्छा च तेन निद्राति दुर्मनाः ॥१६॥
पित्तोत्तमाद्भवति वै मनुजस्य मूर्च्छा पित्तप्रभञ्जनभवं भ्रममेव पुंसाम्
वातात्कफात्तमयुता मनुजस्य तन्द्रा निद्रा कफानिलतमा भजते नरस्य ॥१७॥
स्वेदाभिषङ्गविधिमर्दनवातशान्त्यै शीतान्नपानव्यजनानिलपित्तशान्त्यै
कषायपानमवितथैव सदा प्रशस्तं श्लेष्मोद्भवा विनिहिता भ्रममूर्च्छना वा ॥१८॥
पाययेत्त्रिफलाक्वाथं शीतं शर्करया युतम्
दुरालभायाः क्वाथञ्च पाययेच्छर्करान्वितम् ॥१९॥
कणां कोलस्य मज्जाञ्च केसरोशीरचन्दनम्
पिष्ट्वा शीताम्बुनाखण्डपानं हन्ति विमूर्च्छितम् ॥२०॥
रक्तजां मूर्च्छनां दृष्ट्वा विधेयः शीतलोविधिः
क्षयजे दुर्बले क्षीणे मूर्च्छापोषणकारणम् ॥२१॥
नष्टचेष्टत्वमापन्ने नरे सञ्चेतनक्रिया
संपीड्य च नवांगुष्ठं नासिकां च प्रपीडयेत् ॥२२॥
दन्तैर्वा सन्दंशैर्वापि शनैर्गात्रं प्रपीडयेत्
दाहयेद्वा ललाटे तु पृष्ठदेशे च मालके ॥२३॥
एवं न सिध्यते वापि तदा चान्दोलनं हितम् ॥२४॥
मूर्च्छातुरं सकलशीतजलेन सिञ्चेत्संवीजयेच्च शिखिपिच्छकवोजनैस्तु
दोलायनं हि विहितं मनुजस्य मूर्च्छामोहं भ्रमञ्च हरते च मदात्ययं वा ॥२५॥
करञ्जबीजं सह सैन्धवेन रसोनपत्रस्य रसं च यत्र
मार्कं च पथ्यञ्च वचां जलेन पिष्ट्वाञ्जनं हन्ति दिनस्य तन्द्राम् ॥२६॥
घोटकलालामरिचं लवणयुतं नेत्रयोरञ्जनं शस्तम्
विनिहन्ति दिनशतं तन्द्रां निद्रां वा मानुषस्य ॥२७॥
सुगन्धं सुकषायोपयुक्ता रसस्त्रिफला गुडार्द्रकं प्रातः
सप्ताहान्मधुरजलं हन्ति मदमूर्च्छाकरानुन्मादान् ॥२८॥
रक्तकर्षणमिच्छन्ति मोहमूर्च्छाप्रशान्तये
तस्मादवहितः कुर्यात्तासु रक्तावसेचनम् ॥२९॥
शीतसेकावगाहाद्यान् श्रीखण्डं व्यजनानिलान्
शीतानि चान्नपानानि सर्वमूर्च्छासु योजयेत् ॥३०॥
शर्करेक्षुरसद्राक्षा वातमूर्च्छाप्रपानकैः
काश्मर्यमधुकैरेव पित्तमूर्च्छां जयेन्नरः ॥३१॥
यष्ट्याः क्वाथं शृतं सर्पिः शृतं वामलकीरसम्
पिबेद्रसं सितालाजायुक्तं चोष्णं च शीतलम् ॥३२॥
मधुना हन्ति च मूर्च्छामालेपैश्च प्रबोधयेत् ॥३३॥

इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने मूर्च्छाचिकित्सा नाम चतुर्दशोऽध्यायः ॥१४॥

N/A

References : N/A
Last Updated : February 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP