तृतीयस्थानम् - एकादशोऽध्यायः
हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.
आत्रेय उवाच
अथातो वक्ष्यते पुत्र अर्शस्य च चिकित्सितम्
षट्प्रकारेण ये प्रोक्तास्तेषां च शृणु लक्षणम् ॥१॥
जाता दोषैस्त्रिभिरपि वातपित्तकफादिकैः
सन्निपाते चतुर्थः स्यात्पञ्चमो रक्तसम्भवः ॥२॥
षष्ठकः सहजो ज्ञेयश्चार्शसां षड्विधो भवः
एवं च षट्प्रकारेण जायन्ते गुदजा रुजः ॥३॥
अनशनलघुरूक्षाहारसंसेवनेन कटुलवणविदाहिसेवया वातरोधात्
भवति सततवीप्सा विष्टरेणैव हीना कुपितमरुतवेगादर्शसां भूतिरासीत् ॥४॥
अनशनोपविष्टस्य मलमूत्रावधारणे
शीतसंसेवनेनापि गुदजः सम्प्रकुप्यति ॥५॥
लवणकटुकषाया तिक्तसंसेवनेन अमितलघुतरभोज्याच्छीतलेनातिरोधात्
कुपितमलिननामापानमार्गेष्वपाने सृजति रुधिरवातोपानमार्गे मरुत्सु ॥६॥
कट्वम्ललवणोष्णानि विदाहीनि गुरूणि च
सेवनानिलतोयेन श्रमाद्व्यायामपीडया
यानव्यवायदोषाद्वा दुर्नामा पित्तसम्भवः ॥७॥
अव्यायामात्तस्य शीलादजस्रं शीताद्वान्याद्वातसंसेवनाच्च
लौल्यात्यम्लात्तैलसम्पिच्छलेन दुर्नामा सञ्जायते श्लेष्मरोगात् ॥८॥
शीतत्वतोदं परुषं विनिद्रा गुल्मोदराष्ठीलविषूचिकावा
शोफावुभौ कृष्णनखस्य नेत्रे लिङ्गानि वातप्रभवार्शसानाम् ॥९॥
दाहभ्रमौ ज्वरपिपासिशरीरतो वा मूर्च्छारुचिर्नयनदन्तमुखानि यस्य
पीतच्छविर्भवति वा विटभेदनं च पित्तेन जातगुदजस्य च लक्षणानि ॥१०॥
निद्रा च जाड्यधनमन्दरुजा च शोफा शूलातिगुल्मगुदभंगुरकास्तथा स्युः
विड्बन्धतोदमरुचिर्गतिमन्दता च श्लेष्मोद्भवा गुदरुजः खलु भेषजज्ञ ॥११॥
शूलानाहारुचिः कासो हृल्लासो रुचिनोदता
स्कन्धयोर्जाड्यता सर्वाश्चार्शसि सम्भवन्ति हि ॥१२॥
गुदजलक्षणं वक्ष्ये गदे कण्डूरसृक्स्रवः
परुषा विषमा दीर्घा वातेन गुदजा मताः ॥१३॥
सदाहाश्च विचित्राश्च पीता नीलावभासिकाः
लोहितं स्रवते सोष्णं पित्तेन गुदजा मताः ॥१४॥
सदाहा कठिना ये तु तत्र पाको विबन्धता
शीतकण्डूसमस्थूलाः कफेन गुदजा मताः ॥१५॥
सदाहाः सरुजः श्यावाः कण्डूः शोषश्च जायते
स्रवते सततं रक्तं ते कण्ड्वासृग्भवार्शसाः ॥१६॥
धान्याङ्कुरसमाकाराः क्रिमयः सम्भवन्ति च
वातवर्च समा लिङ्गा गुदजाः सम्भवन्ति हि ॥१७॥
वक्रास्तीक्ष्णाः स्फुटितवदना दीर्घबिम्बीफलाभाः केचित्सिद्धार्थककणनिभाः कालखर्जूरकाभाः ।
कर्कन्ध्वाभाः कलम्बकसमाः केचिदम्भोजबीजा वायोश्चासौ मनुज विहितः सम्भवश्चार्शसां च ॥१८॥
गुदे नासाकर्णरन्ध्रे मुखे वा तथावर्त्तनेत्रान्तरयोनिमध्ये
नराणां सकाशे भवन्ति रोगा न साध्याः सुखेन क्रिया यत्नतः स्यात् ॥१९॥
त्रिवलीगुदमध्ये तु बाह्यतोऽभ्यन्तरेषु च
अर्शसां तु विजानीयात्त्रीणि स्थानानि चैव हि ॥२०॥
बाह्यतः सुखसाध्यः स्यान्मध्ये कष्टेन सिध्यति
असाध्योऽन्तर्बलीजातो गुदजो भिषजां वर ॥२१॥
प्रलेपवर्त्तिभिः स्वेदैर्बाह्याः सिध्यति चोत्तमाः
यन्त्रशस्त्रेण मध्यास्तु अन्तर्जाश्चान्तरौषधैः ॥२२॥
तस्मात्पुत्र प्रयत्नेन क्रिया कार्या विजानता
येनातुरस्य रक्षा स्याद्येन रोगो निवर्त्तते ॥२३॥
करचरणमुखे वा नाभिमेढ्रे गुदे वा भवति हि यदि पुंसां शोफशोषो ज्वरश्च
श्वसनतमकच्छर्दिर्मोहहृत्पार्श्वशूलं कृशमरुचिविबन्धश्चातिसारोपसर्गाः ॥२४॥
इत्येवं द्वादशार्शसां सम्भवन्ति ह्युपद्रवाः
उपद्रवैर्विना साध्या न साध्या बहूपद्रवाः ॥२५॥
शूलारोचकतृष्णार्त्तश्चातिरक्तप्रवाहवान्
शूलशोफातिसारार्त्तो ध्रुवं न जीवतेऽर्शसः ॥२६॥
अतोर्शसां प्रवक्ष्यामि क्रियां चैव भिषग्वर वटकाक्षारशस्त्राणि येन सम्पद्यते सुखम् ॥२७॥
अर्शसां च क्रियाः प्रोक्ताश्चार्शघ्ना बलवर्द्धनाः
पित्तशोणितशमना न च वातप्रकोपनाः ॥२८॥
तस्यादौ पचनं श्रेष्ठं ततो भेषजमाहरेत्
पथ्यामृता च धनिका पाने क्वाथो गुडान्वितः ॥२९॥
दन्ती विडङ्गमगधा धान्या भल्लातकगुडं तिलकुष्ठयुक्तम्
संसिच्य पयसातिकल्को निहन्ति पाने गुदजांश्च रोगान् ॥३०॥
नागरपिप्पलीबिल्वविडङ्गं दन्ती च शठ्यभया त्रिवृता च
कल्कमिदं सगुडं प्रतिपाने वार्शसि नाशनकारि नराणाम् ॥३१॥
पत्रककेसरशुण्ठीसमैलातुम्बुरुधान्यविडङ्गतिलानाम्
क्वाथो हरीतकीसर्पिर्गुडेन पीतो निहन्ति गुदे गदजानि ॥३२॥
पिप्पलिकामभयां गुडयुक्तां प्रातर्भवे नरो भक्षति चैताम्
तस्य गुदकीलकमाशु हन्ति सकामलपाण्डुजरोगवर्गान् ॥३३॥
सुस्विन्नवार्ताकफलस्य तोयं दध्ना सिताह्वा सलिलामृतेन
पाने विधेयं गुदकीलकानां क्रिमीन्निहन्यात्क्रिमिजांश्च रोगान् ॥३४॥
भल्लातकाः कृष्णतिलाश्च पथ्या चूर्णं गुडेनापि नरस्य सेव्यम्
हन्याच्च पाने गुदकीलमेहशूलार्शकासान् विनिहन्ति तस्य ॥३५॥
सूरणकन्दकमर्कदलैस्तु वेष्टितमेव हि कर्दमलिप्तम्
तप्तमनलवर्णकसमानं तत्पयःसैन्धवतैलविमिश्रम् ॥३६॥
भक्षति चार्शविनाशहेतोर्वातविकारहितोऽपि नरस्य ॥३७॥
चित्रकपुष्करमूलशठीनां तेषु समांशास्तिला विनियोज्याः
सूरणकन्दकखण्डसमेतं तेषु समोऽग्निकफलानि दध्यात् ॥३८॥
सैन्धवं तस्य चतुर्गुणकञ्च भावितमर्कदलेन समस्तम्
तञ्च घृतस्य घटे विनिधाय अरण्यगोमयवह्निविपक्वम् ॥३९॥
क्षीरमिदं लवणघृतपक्वं तक्रयुतं प्रतिपानमतोऽपि
नाशयति गुदकीलककीलान्हन्ति विषूचिभगन्दरानपि ॥४०॥
कामलपाण्डवानाहविबन्धान्गुल्ममरोचकनाशनकारी
मूत्रगदगलकण्डुक्रिमीणां नाशनभद्रकसैन्धवो नाम ॥४१॥
त्रिकटुकमगधानां मूलचित्रं त्रिगन्धं समतुलितममीषां तुल्यभल्लातकानि
समलमिह समन्तादेकतः सम्प्रचूर्ण्यं द्विगुणतुलितमात्रं योजनीयोगुडस्तु ॥४२॥
सकलमपि विकुट्य स्निग्धभाण्डे निधाय प्रतिदिनमपि सेव्यं चाक्षमात्रं
सुधीरैः ।
गुदजजठररोगं शूलगुल्मान्क्रिमींस्तु जनयति वडवाग्निं हन्ति पाण्डुं क्षयं वा ॥४३॥
नागरं त्रिफलां चैव पलांस्त्रींश्च प्रयोजयेत्
चतुष्पलानि मरिचानां पिप्पलीनां पलद्वयम् ॥४४॥
पलमेकं तु चव्यस्य योज्यं तत्र भिषग्वरैः
तालीसार्द्धं पलं देयं पलार्द्धं पद्मकस्य च ॥४५॥
जीरकस्य समं मात्रा समेन तुलितो गुडः
सुपक्वा सुघना श्यामा पिप्पलीनां शतत्रयम् ॥४६॥
उलूखले क्षोदयित्वा स्निग्धभाण्डेन धारयेत् ॥४७॥
अक्षप्रमाणा गुटिका नराणां प्रातः प्रदेया सकलामयघ्नी
निहन्ति चार्शांसि च पाण्डुरोगं हलीमकं कामलकं भ्रमं वा ॥४८॥
गुल्मातिसारं च सरक्तपित्तं क्षयं क्षतं चाक्षयमस्य यक्ष्मा
जीर्णज्वरारोचकपीनसानां हितो भवेत्प्राणदमोदकोऽयम् ॥४९॥
जाजीपिप्पलिमूलकोलमगधापथ्याग्निकं नागराः सूक्ष्मैला च पलद्वयेऽपि
क्रमशः कृत्वा पलैः सैन्धवम् ।
भल्लातक्यफलानि पञ्चशतकं तेन समस्तेन गु द्वैगुण्येपि पुराणसूरणस्ततः सर्वस्य तुल्यो गुडः ॥५०॥
क्षोदित्वा वटकाक्षमात्रमुपरि जातो विशेषो गुणः कुर्वत्यर्शनिवारणं क्षयमपि पुष्टं तथा सुप्रभम् ।
मन्दाग्निर्वडवासमो भ्रमहरो हृद्रोगपाण्ड्वामयं शूलानाहभगन्दरो भयहरो दुष्टार्त्तिनिर्वासनः ॥५१॥
कृतोऽप्यर्थे विकारोऽपि ऋषिणा योगयुक्तिना
काङ्कायनेन मतिमान् तेन सौख्यमभीप्सति ॥५२॥
लवणोत्तमं वह्निकलिङ्गवचा चिरबिल्वमहत्पिचुमन्दयुतम्
पिब सप्तदिनं समस्तु लुलितं यहदि मर्दितुमिच्छसि पायुरुजाम् ॥५३॥
विश्वोपकुल्यामरिचानि केसरं पत्रं लवङ्गैलकवृद्धिमाह्वयाः
चूर्ण हितञ्च शर्करयुक्तमेतद्गुदामयानामुदरार्त्तिशान्तये ॥५४॥
सनागरं पुष्करवृद्धदारुकं गुडो नवो मोदकमम्बुदारुकम्
अर्शेषु दुर्नामकरोगदारकं करोति वृद्धं सहसैव दारकम् ॥५५॥
त्रिकटुकमभयानां पुष्करं चित्रकाणां कृमिरिपुतिलचूर्णं कारयेत्संगुडेन
उषसि वटकमेकं भक्षयेद्यो मनुष्यो विनिहितगुदरोगश्चाग्निवृद्धिं करोति ॥५६॥
मरिचं नागरचित्रं सूरणभागोत्तरेण संकुट्य
सर्वसमो गुडयुक्तो मोदको बिल्वप्रमाणं सेवेत्
विनिहितपित्तविकारं क्षयति मनुजानां करोति तनुपुष्टिम् ॥५७॥
त्रिसमगतसूरणकन्दो लोहितवर्णेन यो भवेन्मतिमान्
षट्खण्डीकृतवानपि संशुष्कान्षोडशान्भागान् ॥५८॥
त्स्यार्द्धेन तुलितश्चित्रकशुण्ट्यौ च तत्र संयोज्या
मरिचस्य चैकभागो गुडेन बद्धस्तु मोदको मनुजैः ॥५९॥
भक्षित एव हि गुणवान्निहन्ति सकलान्गुदामयान्
त्वरितमग्नेर्दीपनमुक्तं गुल्मानां जठररुजाम् ॥६०॥
त्रिफलमगधजानां मूलतालीसपत्रं क्रिमिरिपुमगधानां पुष्करं चेत्समांशः
मरिचदहनभागश्चैकभागेन शुण्ठी सकलतुलिततुल्यः सूरणस्यैकभागः ॥६१॥
मदनचपलयुक्तं वृद्धदारैलभृङ्गं कृतमिह परिचूर्णं द्विगुणो शीर्णखण्डः
कृतवटकमुखस्तु प्राश्नुते यो मनुष्यो हरति जठररोगं तस्य चाशु प्रकर्षम् ॥६२॥
गुदजरुधिरपित्तं कासमन्दाग्निशूलान् क्षयतमकहलीमान् कामलांश्च क्रिमींश्च
विदधति बलपुष्टिं दापयेच्चाशु मार्गे प्रबलयति हुताशं योगराजः प्रसिद्धः ॥६३॥
योगराजेन युञ्जीत स्मरणेनाप्यगस्त्यतः
अस्य योगस्य योगेन भीमोऽपि बहुभक्षकः ॥६४॥
चव्यं पाठा त्रिकटु मगधा मूलकस्तुम्बुरूणां बिल्वाजाजीरजनिसुरसा
पथ्यया सैन्धवं च ।
पिष्ट्वा चैतत्समगविघृतं पाचयेत्सुप्रयुक्तं पानाभ्यङ्गे हरति गुदजान्वातरोगाश्मरीं च ॥६५॥
श्यामा कुष्ठं मधुकमदनं पुष्पकं चित्रकञ्च बिल्वं दारु प्रतिविषशताह्वाकलिङ्गाशठीनाम् ।
पिष्ट्वा तैलं द्विगुणपयसा पाचितं चानुवासे चाभ्यङ्गे वा हितमपि गुदव्याधिनिर्णाशहेतोः ॥६६॥
वातव्याधिश्रवणरुधिरे कर्णशूलेऽश्मरीणां जङ्घापृष्ठे कटिशिरःशिरावेक्षणे
वाततोदे ।
विष्ठाबन्धग्रहनिग्रहनिःसारके मूढगर्भे श्रेष्ठं तैलं सकलनिचयव्याधिसंधारणेन ॥६७॥
मुस्ता विश्वविडङ्गचव्यकशठी पथ्या च तेजोवती दन्तीन्द्रात्रिवृता समांशकपली मात्रा च प्रत्येकशः ।
तस्माच्चाष्टपलान् पुरुष्करमपि षड्वृद्धदारोपलान् युञ्ज्यात्षोडशसूरणाख्यसलिल द्रोणेऽखिलं फल्कितम् ॥६८॥
भूतं भूयः पचेद्गुडत्रिगुणितं युञ्ज्याद्भवेद्वादिनमुद्धृत्य पुनरेव चित्रकत्रिवृत्तेजोवती सूरणम् ।
एलापत्रकनागकेशरलवङ्गानां समं चूर्णितमेषां षोडशभागयोग्यविहितं सर्वञ्च तं चैकतः ॥६९॥
स्थाप्यं स्निग्धघटे प्रभातसमये भक्षेदक्षमात्रं वटं जीर्णे क्षीरमपि प्रभूतमतिमान् पाने तथा भोजने ।
अर्शोगुल्मभगन्दरान् ग्रहणीपाण्डुरोगं च कामलां शूलञ्चाथ विबन्धकासक्षतजराजयक्ष्मान्निहन्ति ॥७०॥
भल्लातकानां द्विसहस्रकाणां द्रोणे जले पाच्यपदावशेषम्
क्वाथे तु तस्मिन् विपचेद्गुडस्य तुलाप्रमाणं पुनरेव तत्र ॥७१॥
भल्लातकानां शतपञ्चकानि तत्रैव संयोज्य पलत्रिकं वा ।
व्योषं जवानीघनसैन्धवानामेलालवङ्गं दलनागकेशरम् ।
प्रत्येककर्षं तुलितं नियोज्यम् ॥७२॥
संकुट्य तैले घृतभाजने वा स्थाप्यं प्रभाते वटकप्रमाणम्
भक्षेद्गुडं स तु निहन्ति रोगान्भगन्दरार्शःक्रिमियक्ष्मपाण्डून् ॥७३॥
गुल्माश्मरी मेहहलीमकं वा सरक्तपित्तं ग्रहणीं निहन्ति
करोति पुष्टिं बलमातनोतिवर्णप्रकर्षं सुखमादधाति ॥७४॥
दशमूलकगुडूचिसठीक्षुरकं सहचित्रकभार्ङ्गीफलासहितम्
भल्लातकपञ्चशतं प्रदिशेद्विपचेज्जलद्रोणमितेन च तत् ॥७५॥
गुडजीर्णशतं प्रददेत्क्वथितमवतार्य सुशीतलमेलसमम्
दलकेसरभृङ्गलवङ्गयुतं कृतचूर्णमिदं सकलैकमिति ॥७६॥
घृतभावितमेकदिनं विदधीद्धृतभाजनके दिनसप्तमिदम्
स्निग्धघटे विदधीत मनुष्यो दत्तमिदं गुदजामयसङ्घे ॥७७॥
मोदकमेकमुषस्सु ग्रसेद्विनिहन्ति गुदामयमेहरुजः
हन्ति कासहलीमककामलकं हितमेव हुताशनदीप्तिकरम् ॥७८॥
यस्तु शीतजले क्षिप्तो जलेनैव विलीयते
लोहितो लोहितां याति चैकपाको गुडस्य च ॥७९॥
ग्रन्थिकं चित्रकं मुस्तं चविकं त्रिफलामृता
सहदेवी गजकर्णापामार्गश्च कुठेरकम् ॥८०॥
प्रत्येकं चतुष्पालिकं कल्के द्रोणाम्भसा सुधीः
द्वे सहस्रे समे पिष्टं भल्लातक्याः फलाति तु ॥८१॥
पादावशेषे कल्के च लोहचूर्णं तुलार्द्धकम्
क्षिपेत्कुडद्वयं सर्पिः सर्वं चैकत्र घट्टयेत् ॥८२॥
फलत्रिकं तथा व्योषं चित्रकं लवणाष्टकम्
विडङ्गानि समांशानि सर्वाणि पलमात्रया ॥८३
चतुष्पलं वृद्धदारोर्मूर्वाख्या तु चतुष्पला
संशुष्कसूरणं कन्दं चूर्णं चाष्टपलोन्मितम् ॥८४॥
संक्षिप्य स्वादयेच्चूर्णमवतार्य सुशीतले
स्थापितं मधु संयोज्यं कुडवद्वयमात्रया ॥८५॥
देयं गुदामये चादौ कल्कमप्रातराशने
अर्शांसि ग्रहणीरोगं कामलाराजयक्ष्मणः ॥८६॥
गुल्मक्रिमीनश्मरीं च मन्दाग्निमेहशोणितम्
नाशयत्याशु यक्ष्माणं करोति बलमाकृतेः ॥८७॥
आशु वृद्धिं प्रकुरुते वलीपलितनाशनम्
रसायनस्य योगेन नरो नागबलो भवेत् ॥८८॥
रक्तार्शसामुपचारं वक्ष्यामि वृणु पुत्रक
प्रातस्तिलान्भक्षयेच्च नवनीतविमिश्रितान् ॥८९॥
सितानागरकयुक्तं नवनीतं सशर्करम्
केशरं मातुलुङ्गस्य विडङ्गशर्करायुतम् ॥९०॥
भक्षेत्कूष्माण्डकालेहं नवनीतेन शर्कराम्
एतेन रक्तगुदजाञ्छमयन्ति विचक्षणाः ॥९१॥
समङ्गाशाल्मलीपुष्पं चन्दनं ककुभत्वचम्
नीलोत्पलमजाक्षीरं पिष्ट्वा पानमसृग्गदान् ॥९२॥
कुटजमूलसकेसरमुत्पलं खदिरधातुकिमूलशृतं पयः
पिबति म्रक्षणयोगमसृग्भवं गुदजनाशनकारिविकारणम् ॥९३॥
कुक्कुटस्य पुरीषञ्च तथा पारावतस्य च
ग्रहधूमं च सिद्धार्थं धत्तूरकदलानि च
काञ्जिकेन च संपिष्य वर्त्तिं सञ्चारयेद्गुदे ॥९४॥
सूरणं कन्दकवर्त्तिर्विधेया मल्लीरसेन घृतेन च लिप्त्वा
रोगगुदे गुदकीलकमाशु नाशयते गुदजांश्च क्रिमींश्च ॥९५॥
हरिद्रा मार्कवं कुष्ठं गृहधूमं सुवर्चलम्
सिद्धार्थकरसश्चैव काञ्जिकेन च पिष्यते ॥९६॥
मधुना सह वर्त्तिः स्याद्गुदे सञ्चारिता यदि
अर्शसां नाशनं चैव करोति सहसा नृणाम् ॥९७॥
देवदालीपलसम्मितञ्च हुतभुग्य्योषै रसानां गणान्षड्ग्रन्थापिचुमन्दवारिककणाभार्ङ्गीशिलातैलकम् ।
पिष्ट्वा श्लक्ष्णसमस्तकाञ्जिकयुतं दत्वा शिलालेपनं दुर्नामानि हन्ति तथैव गुदजान्सर्वातिसारामयान् ॥९८॥
युन्त्रं शस्त्राग्निकार्यञ्च कथितं तत्तु शल्यके
यथा यन्त्रेण छिद्यन्ते दाहस्तत्र विधेयकः ॥९९॥
चर्मकीलं तथा छित्त्वा दग्धं क्षारेण धीमता
पक्वजम्बूसमो वर्णो क्षारदग्धे प्रशस्यते ॥१००॥
दग्धं वा सूरणक्षारं कदलीजीवमुद्गकैः
पलाशकोकिलाक्षारमपामार्गघृतान्वितम् ॥१०१॥
क्षारदाहे प्रशस्येत नवनीतघृतेन वा
कुष्ठं पथ्या तथा निम्बपत्राणि च मनःशिला ॥१०२॥
तस्मान्मधुघृतमिश्रं निर्धूमाङ्गारके क्षिपेत्
धूपयेद्गुदजान्तेन यथा सम्पद्यते सुखम् ॥१०३॥
मनःशिलानागरकं सगुग्गुलं ससार्षपम्
देवदारु सपौष्करं विशल्यासर्जिकारसम् ॥१०४॥
घृतेन धूपयेद्गुदजं गुदामयं भगन्दरम्
निहन्ति दुष्टपीनसं व्रणं सपूयगन्धिकम् ॥१०५॥
निर्गुण्डीदलपत्रहरितालं तथा सार्षपचूर्णकं देवाह्वं घृतशर्करामधुयुतं धूपं
गुदजादिके ।
दुर्नामे सरुजे व्रणे च विषमे दुष्टे विसर्पेषु च पामापीनसकासनाशनकरो धूपो ग्रहोच्छेदनः ॥१०६॥
एवं क्रियाविधिः प्रोक्तश्चातः पथ्यानि मे शृणु
शालिषष्टिकमुद्गाश्चकुलत्थाढक्यवास्तुकम् ॥१०७॥
चिल्ली च शतपुष्पा च कूष्माण्डकपटोलकम्
कारवेल्लं च तुण्डीरं सूरणो राजिकार्जकम् ॥१०॥८
गुडस्तक्रं घृतं चैतत्प्रशस्यन्तेऽर्शसां सदा
सूकरः शल्लकी गोधा मूषको वा सरीसृपः ॥१०९॥
लावतित्तिरवार्त्ताकमांसानि कथितानि च ॥११०॥
वल्लूरमत्स्यदधि पिच्छलतैलबिल्ववार्त्ताकभोजनमतिप्रतिवर्जनीयम्
निप्राकृति निशि दिवा शयनञ्च शीतं शीतान्तमेव परिवर्जितमादरेण ॥१११॥
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने अर्शश्चिकित्सा नामैकादशोऽध्यायः ॥११॥
N/A
References : N/A
Last Updated : February 24, 2021
TOP