संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्|
षष्ठोऽध्यायः

तृतीयस्थानम् - षष्ठोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच
अग्निश्चतुर्विधः प्रोक्तः समो विषमतीक्ष्णकः
मन्दस्तदापरः प्रोक्तः शृणु चिह्नानि साम्प्रतम् ॥१॥
वातपित्तकफसाम्यात्समः सञ्जायतेऽनलः
तैरेवं विषमं प्राप्ते विषमो जायतेऽनलः ॥२॥
तीक्ष्णपित्ताधिकत्वेन जायते जठराग्निकः
वातश्लेष्माधिकत्वेन जायते मन्दसंज्ञकः ॥३॥
यद्भुक्तं प्रकृतिस्थं तु पाचयत्यन्नसञ्चम्
स समो नाम निर्दोषः सर्वधातुविवर्द्धनः ॥४॥
किञ्चित्पाचयते भक्ष्यं कदाचिदविपक्वकः
वतेन वा न विषमं करोत्यपि विषूचिकाम् ॥५॥
प्रकृत्या चाधिकं स्नाति तृप्तिं न लभतेऽपि च
सदाहपीतता नेत्रे तीक्ष्णो वै क्षयकृद्बले ॥६॥
यद्भोक्तुन्नैव शक्नोति यत्तु श्लेष्मबलाधिकात्
सोऽपि मन्दानलो नाम गुल्मोदरपरो मतः ॥७॥
समेन समता देहे देहधातुबलेन्द्रियैः
हृष्टः सम्पूर्णगात्रस्तु सचेष्टो वर्त्तते नरः ॥८॥
विषमे वानिलाद्याश्च ग्रहणी चातिसारकाः
प्लीहा गुल्मो विषूची च शूलोदावर्त्तसंज्ञकः ॥९॥
आनाहो मन्दचेष्टत्वं जायते विषमाग्निना
वातकफावुभौ क्षीणौ तीव्रो भवति पित्तकः ॥१०॥
भोजने लभते प्रीतिं भुक्त्वा चैव च जीर्यते
तेन भस्मकसंज्ञस्तु जायते जठरानलः ॥११॥
पाण्डुः पित्तातिसारस्तु राजयक्ष्मा हलीमकः
भ्रमः क्लमोऽतिवैकल्यं यकृद्वापि प्रमेहकाः ॥१२॥
शूलमूर्च्छा रक्तपित्तं पित्ताम्लं मूत्रकृच्छ्रकम्
तेन संक्षीयते गात्रं जायतेऽन्नस्य लौल्यता ॥१३॥
भक्षिताः काष्ठपाषाणाः जीर्यन्ते तस्य देहिनः
इति प्रोक्तं निदानं च नरस्याग्निप्रकोपनम् ॥१४॥
बहुधापि न वोक्तं तु ग्रन्थविस्तारशङ्कया ॥१५॥
अतो वक्ष्ये समासेन भेषजानि पृथक्पृथक्
पाचनं शमनं चैव दीपनञ्च तथोपरि ॥१६॥
रास्ना शठी प्रतिविषा सुरसा च शुण्ठी सिन्धूत्थहिङ्गु मगधा च सुवर्चलं च
चूर्णं कृतं सगुडमोदकभक्ष्यमाणं वातात्मकन्तु विषमाग्निं समीकरोति ॥१७॥
शूलानजीर्णविषमाग्निविषूचिकासु वातादयः सकलगुल्मविनाशनं स्यात्
भुक्तोपरि क्वथितमेव पिबेत्सुखोष्णं श्रेष्ठं तथोपरि समस्तरसानुभोज्यम् ॥१८॥
द्राक्षाभया तिक्तकरोहिणी च विदारिका चन्दनवासकं च
मुस्ता पटोलं च किरातकानां कृष्णा बला च विकचाविषाणा ॥१९॥
पलालवङ्गालसपद्मकं च योज्या च भृङ्गी धनिका समांशा
चूर्णं सखर्जूरसितासमेतं घृतेन तद्वार्द्धबलप्रमाणम् ॥२०॥
भक्षेत्प्रभाते पयसा मनुष्यो निष्क्वाथ्य पानं सघृतं विधेयम्
करोति तीव्राग्निसमं प्रकृष्टं कृशस्य पुष्टिं तनुतेऽपि नूनम् ॥२१॥
क्लमभ्रमशोषविनाशनं स्यात्तृष्णातिलौल्यशमनं करोति
सरक्तपित्तं क्षयपाण्डुरोगं हलीमकं कामलमाशु नश्येत् ॥२२॥
तण्डुलारक्तशालीनां भागद्वयेन धीमताम्
भृष्ट्वा तिलांश्च संकुट्य तदर्द्धेन विमिश्रितान् ॥२३॥
भृष्ट्वा तत्सममुद्गांश्च चैकोकृत्य तु साधयेत्
सिद्धां च कृशरां सम्यग्घृतेन सह भोजयेत् ॥२४॥
एकाहान्तरितो यस्तु तीव्राग्निस्तस्य नश्यति ॥२५॥
हरीतकी हरिहरतुल्यषड्गुणा चतुर्गुणा चतुर्विशालपिप्पली
हुताशनं हिंगुसैन्धवसंयुतं रसायनं कुरुनृपवह्निदीपनम् ॥२६॥
दीप्यकाग्निर्हरीतकी विडङ्गो भागवृद्धि विनियोज्य चूर्णितम्
अत्यम्ल वेतञ्च तथा च कोलं दाडिमं तथा च तिन्तिडीकम् ॥२७॥
समानि चेमानि च कर्षमात्रं कर्षाद्विभागेष्वितरे बलानि
जाजी वराङ्गं च सुवर्चलं च कणाशतैकं मरिचं तदर्द्धे ॥२८॥
पलानि चत्वार्यपि शर्करायाः समं विचूर्ण्याथोदरान् प्रमार्ष्टिं
भक्षेद्यदेदं रुचिकृद्विबन्धं स प्लीहशूलं जयते सकासम् ॥२९॥
श्वासं विनश्येद्धृदयामयघ्नं जिह्वाकण्ठामयशोधनं भवेत्
ग्राहग्रहण्यार्शविकारमन्दानलस्य सन्दीपनमेव चूर्णम् ॥३०॥
यवानिकाखण्डविकाभिधानमरोचकानां शमनं प्रशस्तम् ॥३१॥
यवागूः पञ्चकोलस्य कुलत्थाढक्यपूषकम्
मुद्गयूषेण वा सम्यग्भक्तानां भोजनं हितम् ॥३२॥
सहिंगु त्र्यूषणाढ्यं च व्यञ्जनं सम्प्रशस्यते
अगस्तिघृतवच्छ्रेष्ठं भोजनारोचकेष्वपि ॥३३॥
कारवेल्लं पटोलञ्च पलाण्डुः सूरणं शठी
लवणं धान्यकं श्रेष्ठं प्रलेहश्च कटुत्रिकम् ॥३४॥
शठी सर्षपवास्तुकं शतपुष्पा काञ्चनमाचिका
तुण्डीरकस्य मूलानां शाकं श्रेष्ठं प्रशस्यते ॥३५॥
गोधूमपोलिकाः श्रेष्टा भृष्टाङ्गारैररोचके
जाङ्गलानि च मांसानि भोजयेद्भिषगुत्तमः ॥३६॥

इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने मन्दाग्निचिकित्सा नाम षष्ठोऽध्यायः ॥६॥

N/A

References : N/A
Last Updated : February 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP