संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्| त्रयस्त्रिंशोऽध्यायः तृतीयस्थानम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः ऊनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोऽविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुःपञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः तृतीयस्थानम् - त्रयस्त्रिंशोऽध्यायः हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते. Tags : ayurvedharit samhitasamhitaआयुर्वेदसंहिताहारीत संहिता त्रयस्त्रिंशोऽध्यायः Translation - भाषांतर आत्रेय उवाचलवणाम्लक्षारकटुकैरुष्णस्वेदातिदोषतःरक्तपित्तं प्रकुप्येत स विसर्पी भिषग्वर ॥१॥स सप्तधा परिज्ञेयः पृथग्दोषैश्च द्वन्द्वजैःकेवलो रक्तजस्त्वन्यः सन्निपातेन सप्तमः ॥२॥तथापरे प्रवक्ष्यन्ते नामानि च पृथक्पृथक्आज्ञेयो ग्रन्थिको घोरः कर्दमश्च तथापरः ॥३॥आज्ञेयो वातपित्तेन ग्रन्थिकः पित्तश्लेष्मणाकर्दमो वातश्लेष्मोत्थो घोरः स्यात्सान्निपातिकः ॥४॥रक्तंलसीकात्वग्मांसं दूष्यं दोषास्त्रयो मलाःविसर्पाणां समुत्पत्तौ विज्ञेयाः सप्तधातवः ॥५॥न्यग्रोधबिल्वखदिरकषायो धावने हितःकाञ्जिकाम्लैः पिच्छिलया सौवीरकरसेन वा ॥६॥मातुलुङ्गरसेनापि धावनं वातसर्पिषुक्षीरेण शीततोयेन धावनं पित्तसर्पिणि ॥७॥श्लेष्मविसर्पिणे वाथ धवार्जुनकदम्बकम्धावनं सर्पिणे शस्तं सुरासौवीरकेण वा ॥८॥धावनञ्च हितं तस्य सन्निपाते विसर्पिणेयवाग्निमन्थैश्च शठीन्यग्रोधैश्च ससर्षपैः ॥९॥क्वाथः स्यात्सन्निपातोत्थविसर्पधावने हितःपञ्चजीरकपित्थांश्च काञ्जिकेन तु पेषयेत्मातुलुङ्गरसेनापि लेपनं वातसर्पिणे ॥१०॥धवा रोध्रतिलाश्चैलविदारीकण्टकं तथालेपः पित्तविसर्पे वा गुञ्जापत्रैस्तु लेपनम् ॥११॥सैन्धवारिष्टतुम्बीकापटोलपत्रकैर्घृतम्पाचितं लेपने शस्तं विसर्पाणां निवारणम् ॥१२॥रक्तजेषु विसर्पेषु कुर्याद्रक्तावसेचनम्पश्चाद्धवकदम्बानां सर्वदा गृहधूमकम् ॥१३॥लेपने हितकृत्प्रोक्तं धावनं काञ्जिकेन तुकुठेरकाश्च सुरसा चक्रमर्दो निशायुगम् ॥१४॥सर्षपाः काञ्जिकेनापि पिष्ट्वा च लेपनं हितम् ॥१५॥इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने विसर्पचिकित्सा नाम त्रयस्त्रिंशोऽध्यायः ॥३३॥ N/A References : N/A Last Updated : February 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP