संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्|
द्वितीयोऽध्यायः

तृतीयस्थानम् - द्वितीयोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच
अनभिज्ञश्चिकित्सायां शास्त्राणां पठनेन किम्
यथा पलालं बीजैस्तु रहितं निष्प्रयोजकम् ॥१॥
वरमाशीविषविषं क्वथितं ताम्रमेव च
पीतमत्यग्निसन्तप्ता भक्षिता वाप्ययोगुडाः ॥२॥
न तु श्रुतवतां वेशं बिभ्रतां शरणागतात्
ग्रहीतुमन्नपानं वा वित्तं वा रोगपीडितात् ॥३॥
तदेव युक्तं भैषज्यं यदारोग्याय जायते
स चैव भिषजां श्रेष्ठो रोगेभ्यो यो विमोक्षयेत् ॥४॥
तस्मात्सर्वप्रयत्नेन रोगवारणहेतुना
युक्ता निदानलक्षैस्तु संहितोपायसंयुता ॥५॥
पठितव्या समासेन संहिताज्ञानहेतवे
ज्ञात्वा रोगप्रतीकारं ततः कुर्यात्प्रतिक्रियाम् ॥६॥
अविज्ञाय रुजं सम्यङ्मोहादारभते क्रियाः
विधानज्ञोऽथ शास्त्रज्ञो न तत्सिद्धिः प्रजायते ॥७॥
निदानं रोगविज्ञानं भेषजानां गुणागुणम्
विज्ञाय कुरुते यस्तु तस्य सिद्धिर्न दूरतः ॥८॥
आदावेव रुजां ज्ञानं साध्यासाध्यं विचक्षणः
याप्यं सर्वरुजाञ्चैव ततः कुर्यात्प्रतिक्रियाम् ॥९॥
देशं कालं वयो वह्निसात्म्यं प्रकृतिभेषजम्
एवं विज्ञाय सद्वैद्यस्ततः कुर्यात्प्रतिक्रियाम् ॥१०॥
नास्ति रोगो विना दोषैर्दोषा वातादयः स्मृताः
ज्वरादयः स्मृता रोगास्तान्सम्यक्परिलक्षयेत् ॥११॥
आप्तानाञ्चोपदेशेन प्रत्यक्षीकरणेन च
आतुरादिदृशा स्पर्शाच्छीतादिप्रश्नतः परम् ॥१२॥
दर्शनस्पर्शनप्रश्नै रोगज्ञानां त्रिधामतम्
मुखाक्षिदर्शनात्स्पर्शाच्छीतादिप्रश्नतः परम् ॥१३॥
कृच्छ्रयाप्यसुखोपायो द्विविधः साध्य उच्यते
असाध्यो द्विविधो ज्ञेयः कृच्छ्रः कृच्छ्रतमोऽपरः ॥१४॥
याप्याः केचित्प्रकृत्यैव याप्याः साध्या उपेक्षया
स्वभावाद्व्याधयः साध्याः केचित्साध्या उपेक्षिताः ॥१५॥
साध्या याप्यत्वमायान्ति याप्याश्चासाध्यतां तथा
घ्नन्ति प्राणांश्च साध्यास्तु नराणामक्रियावताम् ॥१६॥
व्याधेरुपरि यो व्याधिः सोपद्रव उदाहृतः
सोपद्रवा न जीवन्ति जीवन्ति निरुपद्रवाः ॥१७॥
ज्ञात्वाल्पकोऽपि भिषजाः परिचिन्तनीयो
नोपेक्षणीय इति रोगगणो ह्यसाध्यः ।
स्वल्पोऽप्यरिर्गरल वह्निसमानरूप
आप्तोबलं न शमतामुपयाति काले ॥१८॥
शत्रुः स्थानबलं प्राप्य विक्रमं कुरुते बली
तथा धात्वन्तरं प्राप्य विक्रमं कुरुते गदः ॥१९॥
बहुविधपरिकार्येणापि नीतं शमं यत्
कृशमपि हि न धार्यं रोगमूलं विधिज्ञ ।
कथमपि बहुपथ्यैर्व्यावृतो वा बलिष्ठो
न शमयति हि रोगं बाल्यमात्रेण सम्यक् ॥२०॥
यथा स्वल्पं विषं तीव्रं यथा स्वल्पो भुजङ्गमः
यथा स्वल्पतरश्चाग्निस्तथा सूक्ष्मोऽपि रुग्रिपुः ॥२१॥
यावत्स्थानं समाश्रित्य विकारं कुरुते गदः
तावत्तस्य प्रतीकारः स्थानत्यागाद्बलीयसः ॥२२
कर्मजा व्याधयः केचिद्दोषजाः सन्ति चापरे
सहजाः कथिताश्चान्ये व्याधयस्त्रिविधा मताः ॥२३॥
बहुभिरुपचारैस्तु ये न यान्ति शमं ततः
ते कर्मजाः समुद्दिष्टा व्याधयो दारुणाः पुनः ॥२४॥
दोषजा वातपित्ताद्याः सहजाः क्षुत्तृषादयः ॥२५॥
तस्माद्वक्ष्यामि चादौ ज्वरमतुलगदं वाजिनां कुञ्जराणां मानुष्याणां पशूनां
मृगमहिषखरोष्ट्रादिवानस्पतीनाम् ।
वल्लीनामोषधीनां क्षितिधरफणिनां पत्रिणां मूषिकाणामेष प्राणापहारी ज्वर इति गदितो दुर्निवारो हि लोके ॥२६॥
असाध्योऽयं ज्वरो व्याधिर्गोमहिष्यश्वकुञ्जरे
किञ्चित्कृच्छ्रतमो नॄणामन्येषां जीवघातकः ॥२७॥
यथा मृगाणां मृगयुर्बलिष्ठस्तथा गदानां प्रबलो ज्वरोऽयम्
नान्योऽपि शक्तो मनुजं विहाय सोढुं भुवि प्राणभृतः सुराद्याः ॥२८॥
कर्मणा लभते यस्माद्देवत्वं मानुषो दिवि
ततश्चैवच्युतः स्वर्गान्मानुष्यमपि वर्त्तते ॥२९॥
तस्मात्स देवभावात्तु सहते मानुषो ज्वरम्
शेषाः सर्वे विपद्यन्ते पशुवर्गा ज्वरार्दिताः ॥३०॥
रोगाणां रोगराजोऽयं यथा मृगपतिर्मृगे
दाहात्मसु यथा वह्निस्तथा रोगो ज्वरोऽधिकः
रुद्रक्रोधाग्निसम्भूतः सर्वभूतप्रतापनः ॥३१॥
पातकः स तु नागानामभितापस्तु वाजिनाम्
गवामीश्वरसंज्ञस्तु मानवानां ज्वरो मतः ॥३२॥
दारिद्रो महिषीणान्तु मृगरोगो मृगेषु च
अजावीनां प्रलापाख्यः करभेष्वलसो भवेत् ॥३३॥
शुनोऽलर्कः समाख्यातो मत्स्येष्विन्द्रमतो मतः
पक्षिणामभिघातस्तु व्यालेष्वैक्षितसंज्ञितः ॥३४॥
जलस्य नीलिका प्रायो भूमिषूषरनामतः
वृक्षस्य कोटराक्षस्तु ज्वरः सर्वत्र दृश्यते ॥३५॥
त्रिपाद्भस्मप्रहरणस्त्रिशिराः सुमहोदरः
वैयाघ्रचर्मवसनः कपिलोज्ज्वलविग्रहः ॥३६॥
पिङ्गेक्षणो ह्यस्वजङ्घो विमत्स्यो बलवानयम्
पुरुषो लोकनाशाय चासौ ज्वर इतिस्मृतः ॥३७॥
दग्धेन्धनो यथा वह्निर्धातून्हत्वा यथा विषम्
कृतकृत्यो व्रजेच्छान्तिं देहं हत्वा तथा ज्वरः ॥३८॥
तस्मात्तस्य समुत्पत्तिं वक्ष्यामि शृणु पुत्रक
चतुर्विधो महाघोरो जातो येन तु चाष्टधा ॥३९॥
दक्षादूर्ध्वरप्रशमनः कुपितो हि महेश्वरः
श्वासं मुमोच दयिताविधुरश्च तीव्रं तेन ज्वरोऽष्टविधसम्भवतोऽष्टधा स्यात् ॥४०॥
वातादिपित्तकफशोणित सन्निधानात्स्वेच्छान्नपाननिरतादृतुवैपरीत्यात्
दोषा मलाशयगता जठराग्निबाह्याः सम्प्रेरयन्ति रुधिरा श्रितवह्निपातम् ॥४१॥
तेषां ततो हि दधते ज्वरनाम सिद्धंव्यायामक्रोधभुक्त्यादिजननाच्छीतसम्भवत्वात् ॥४२॥
विरुद्धान्न विशेषेण पाननिर्झरवारिणा
कूपोदकेन सन्तुष्टस्तिग्मतीव्रांशुरश्मिभिः ॥४३॥
गन्धवातेन दोषाणामभिघाताभिशापतः
ज्वरोनाम महाघोरो जायते मनुजे भृशम् ॥४४॥
श्रमो जडत्वं नयनप्लवः स्याद्रोमोद्गमो घुर्घुरकञ्च जृम्भा
वैवर्णता द्वेषसशोषतास्ये ज्वरस्य च व्यक्तकलक्षणानि ॥४५॥
समीरणे च वै जृम्भा कफाद्दैन्यं निषीदति
पित्तान्नयनसन्तापः सर्वं वै सान्निपातिके
तस्माद्वक्ष्ये प्रतीकारं येन सम्पद्यते सुखम् ॥४६॥
वचा यवानी धनिका सविश्वा पिबेत्कषायं निशि सोष्णमेवम्
स वातिके वातरुजे ज्वराणां सम्पाचके स्यान्मनुजे सुखाय ॥४७॥
निशा सनिम्बा मृतवल्लिका च धान्यं च विश्वा सगुडः कषायः
निशासु च क्षीरसकोलमिश्रं पानं सपित्तज्वरपाचनाय ॥४८॥
वचा यवानी त्रिफला सविश्वा क्वाथो निशायां कफजे ज्वरे वा
सपाचनं स्यान्मनुजस्य दोषे शूले प्रतिश्यायकपीनसेषु ॥४९॥
शठीवचानागरकाफलानां वत्सादनीधन्वयवासकानाम्
क्वाथोहितः सर्वभवे ज्वरे च सम्पाचनं स्यान्मनुजत्रिदोषे ॥५०॥
रात्रौ सुखोष्णतोयेन प्रचुरेण च धीमताम्
अङ्गसम्मर्दनं पथ्यं निद्राव्यायामवर्जितम् ॥५१॥
वैपथुर्विषमवेगशोषणं कण्ठतालुवदने विरस्यता
रूक्षता वपुषि बन्धकुक्षयोर्जृम्भणं शिरसि रुग्विनिद्रता ॥५२॥
कृष्णताकररुहां प्रलापको गात्रभङ्गबलवान् बिभत्स्यति
भीतवत्स्वपिति जाग्रतो नरो लक्षणैर्भवति वातकृज्ज्वरः ॥५३॥
नागरं सुरतरुश्च धान्यकं कुण्डली बृहतिका युगन्निशम्
सप्तमे निशि प्रशस्यते ज्वरे चाष्टमांशगतको हि अष्टवान् ॥५४॥
वीर्याधिकं भवति भेषजमन्नहीनं हन्यात्तदामयमसंशयमाशु चैव तद्बालवृद्धयुवती मृदुभिश्च पीतं ग्लानिं परां नयति चाशु बलक्षयञ्च ॥५५॥
इन्द्रियाणां लघुत्वञ्च नेत्रास्यस्य प्रसादता
सोद्गारमुष्णता कोष्ठे जीर्णभेषजलक्षणम् ॥५६॥
क्लमहृल्लाससदनं शिरोरुग्भ्रंशमेव च
उत्क्लेदो जायते यस्य विद्यादुत्क्राममौषधम् ॥५७॥
दाहाङ्गसदनं मूर्च्छा शिरोरुक्क्लमदीनता
भ्रमो रतिविशेषेण सविशेषौषधाकृतिः ॥५८॥
तस्मादौषधशेषे तु न दोषशमनं क्वचित्
कोपन्त्यनेकधा दोषा न देयं पाचनं विना ॥५९॥
शीघ्रं विपाकमुपयाति बलं न हन्यादन्नावृतं न च मुहुर्वदनान्निरेति
प्राग्भुक्तसेवितमहौषधमेतदेव दद्याच्च वृद्धशिशुभीरुवराङ्गनाभ्यः ॥६०॥
बिल्वाग्निमन्थशुकनासकपाटलीनां कुम्भारिकाप्रयुतकं क्वथितं कषायम्
दन्तान्विशोधयति वारयते समीरं नाशं करोति मरुतज्वरमाशु पुंसाम् ॥६१॥
किरातमुस्तमृतवल्लिक्रणासवित्र्यो गोकण्टको बृहतियुग्ममुदीच्यतिक्ताः ।
स्याच्छालिपर्णिकलशीक्वथितः समन्तात्क्वाथः समीरण भवं ज्वरमाशु हन्ति ॥६२॥
गुडूची शतपुष्पा च प्लक्षी रास्ना पुनर्नवा
त्रायमाणकक्वाथश्च गुडैर्वातज्वरापहः ॥६३॥
मूर्च्छा दाहो भ्रममदतृषावेगतीक्ष्णोऽतिसारस्तन्द्रालस्यं प्रलयन वमीपाकतापश्च वक्त्रे । स्वेदः श्वासो भवति कटुकं विह्वलत्वं क्षुधा वा एतैर्लिङ्गैर्भवति मनुजे पैत्तिको वै ज्वरस्तु ॥६४॥
रोध्रोत्पलामृतलताकमलं सिताड्यं तत्सारिवासहितमेव हि पाचनेषु ।
निष्क्वाथ्य क्वाथमति चाशु निहन्ति पित्तं पित्तज्वरप्रशमनं प्रकरोति पुंसाम् ॥६५॥
क्वथितं तण्डुलपयसा शक्राह्वं कटुरोहिणीसहितम्
क्वाथं यष्टीमधुना विनाशनं पित्तज्ज्वराणान्तु ॥६६॥
दुरालभावासकपर्पटानां प्रियंगुनिम्बकटुरोहिणीनाम्
किराततिक्तं क्वथितं कषायं सशर्कराढ्यं कथितञ्च पाचनम् ॥६७॥
सदाहपित्तज्वरंमाशु हन्ति तृष्णाभ्रमं शोषविकारयुक्तम् ॥६८॥
एकोऽपि वै पर्पटको वरिष्ठः पित्तज्वराणां शमनाय योग्यः
तस्मात्पुनर्नागरवालकाढ्यः सिंहो यथा कङ्कटकप्रवृत्तः ॥६९॥
नागरोशीरमुस्ता च चन्दनं कटुरोहिणी
धान्यकानां तु क्वाथश्च पित्तज्वरविनाशनः ॥७०॥
अमृतं पर्पटो धात्री क्वाथः पित्तज्वरं हरेत् ॥७१॥
द्राक्षापर्पटकतिक्तापथ्यारग्वधमुस्तकैः
क्वाथस्तृषाभ्रमदाहयुक्तपित्तज्वरापहः ॥७२॥
विदारिकारोध्रदधित्थकानां स्यान्मातुलुङ्गस्य च दाडिमानाम्
यथानुलाभेन च तालुलेपो निहन्ति दाहं तृषामूर्च्छनञ्च ॥७३॥
उत्तानस्य प्रसुप्तस्य कांस्ये वा ताम्रभाजने
नाभौ निधाय धारां नु शीतान्दाहं निवारयेत् ॥७४॥
रम्यारामाकुचभरनतालिङ्गनं चेष्टसङ्गाद्द्राक्षापानं निगदितमथो शीतलं सेवनं
स्यात् । शुभ्राम्भोजञ्च मलयजलासिक्तसंशीतवासो मुक्ताहारो विशदतुहिनं कौमुदीयामुखाय ॥७५॥
एभिर्हन्ति द्रुततरनिभं मानुषाणां तु पित्तं दाहं शोषं क्लममपि तथा तृड्भ्रमं
मूर्च्छनाञ्च । एतैर्योगैर्भवति नितरां पित्तदाहस्य शान्तिर्योग्या चैवं भवति सततन्तत्क्रियाश्रीमताञ्च ॥७६॥
यदि जिह्वागलतालुशोषश्चेन्मनुजस्य च
केसरं मातुलुङ्गस्य मधुसैन्धवसंयुतम्
पेष्यमाणं तालुलेपे सद्यः पित्तज्वरापहम् ॥७७॥
स्तैमित्यं मधुरास्यता च जडता तन्द्रा भृशञ्च तथा गात्राणां गुरुतारुचिर्विस्मता रोमोद्गमः शीतता
प्रस्वेदाः श्रुतिरोधनञ्च कुरुते नेत्रे च पाण्डुच्छवी विष्टब्ध मलवृत्तिकासवमनं श्लेष्मज्वरे ते विदुः ॥७८॥
पिप्पलादिककल्कं तु कफजे पाचनं हितम् ॥७९॥
तद्वद्व्याघ्री च सिंही च रोध्रं कुष्ठपटोलकम्
ज्वरे कफात्मजे चैतत्पाचनं स्यात्तदुत्तमम् ॥८०॥
वासा गुडूची त्रिफला पटोली शठी च तिक्ता मधुनीकषायम्
श्लेष्मप्रभूतेषु रुजेषु सम्यग् ज्वरं निहन्यात्कफजञ्च शीघ्रम् ॥८१॥
आमलक्यभया कृष्णा षड्ग्रन्था त्रित्रिकन्तथा
मलभेदी कफान्तको ज्वरनाशनदीपनः ॥८२॥
पिप्पली शृङ्गवेरञ्च षड्ग्रन्था वत्सकं फलम्
क्वाथो मधुप्रगाढः स्याच्छ्लेष्मज्वरविनाशनः ॥८३॥
क्षोद्रेण पिप्पलीचूर्णं लिह्येच्छ्लेष्मज्वरापहम्
प्लीहानाहविषं हन्ति कासश्वासाममर्दनम् ॥८४॥
तृष्णा मूर्च्छा वमिरथ कटुता चानने रूक्षता स्यादन्तर्दाहो वपुषि नयने
रक्तता कण्ठशोषः ।
निद्रानाशः श्वसनशिरसो रुक्प्रभेदोऽङ्गभङ्गोरोमोद्घर्षस्तमकमिति चेद्वातपित्तज्वरः स्यात् ॥८५॥
संसृष्टदोषैर्विहितञ्च सम्यग्विपाचनं पित्तमरुज्ज्वरे च
फलत्रिकं शाल्मलिसम्प्रयुक्तं रास्नाकिरातस्य पिबेत्कषायम् ॥८६॥
द्विपञ्चमूली सह नागरेण गुडूचिभूनिम्बघनैः समेता
कल्कः प्रशस्तः सगुडो मरुत्सु स पित्तवातज्वरनाशहेतुः ॥८७॥
किराततिक्तामलकीशठीनां द्राक्षोषणानागरकामृतानाम्
क्वाथः सुशीतो गुडसंयुतः स्यात्स पित्तवातज्वरनाशहेतुः ॥८८॥
अमृतमुस्तकवासापर्पटविश्वाजलेन क्वाथः
पानं पित्तमरुत्सु ज्वरं निहन्याच्च भद्रमुञ्जः ॥८९॥
निद्रागौरवकात्ससन्धिशिररुक्चार्त्तिस्तथा पर्वणां भेदो मध्यमवेगमत्र नयने
वातान्विते श्लेष्मणि ।
सन्तापः श्वसनं रुचिः श्रुतिपथे कण्ठे च शुष्कावृतिस्तन्द्रामोहमरोचकभ्रममथ श्लेष्मज्वरे पित्तले ॥९०॥
नागरं भद्रमुस्ता वा गुडूच्यामलकाह्वयम्
पाठामृणालोदीच्याश्च क्वाथः पित्तज्वरे कफे ॥९१॥
पाचनो दीपनीयः स्याद्रक्तशोषनिवारणः ॥९२॥
द्राक्षामृतावासकरिष्टकाश्च भूनिम्बतिक्तेन्द्रयवाः पटोलम्
मुस्तासभार्गा क्वथितः कषायः पित्तकफस्य ज्वरनाशनाय ॥९३॥
गुडूचिका निम्बदलानि शुण्ठी मुस्तञ्च कुस्तुम्बुरुचन्दनानि
क्वाथं विदध्यात्कफपित्तवातज्वरं निहन्याच्च गुडूचिकाद्यः ॥९४॥
एष सर्वज्वरान्हन्ति हृल्लासाद्यानरोचकान्
प्रतिश्यायपिपासाघ्नः शोषदाहनिवारणः ॥९५॥
गुडूचीनिम्बचक्रवासकञ्च शठी किरातं मगधाष्टहल्यौ
दार्वीपटोलं क्वथितं कषायं पिबेन्नरः पित्तकफे ज्वरे च ॥९६॥
पटोली चन्दनं तिक्ता मूर्वा पाठामृतागणः
पित्तश्लेष्मज्वरच्छर्दिदाहकण्डूनिवारणः ॥९७॥
पटोलवासापिचुमन्दकस्य मूलानि यष्टीमधुकं घना च
कषायमेतत्प्रतिसाधितन्तु ज्वरे कफे पित्तभवे प्रशस्तः ॥९८॥
सन्दीपनो पित्तकफात्मके च तथैव पित्तासृजसम्भवे च
ज्वरे मलानां प्रतिभेदनः स्यात्पटोलधान्याश्रितकः प्रशस्तः ॥९९॥
शीतं वेपथुपर्वभङ्गवमथुर्गात्रे जडत्वं रुजां मन्दोष्मारुचिबन्धनं परुषता
कासस्तमः शूलवान् ।
तन्द्रा कूजनमात्मलौल्यमथवास्तैमित्यजृम्भारुचिः प्रस्वेदोमलमूत्ररोधसहितः
स्याच्छ्लेष्मवातज्वरः ॥१००॥
आरग्वधस्तिक्तकरोहिणी च हरीतकी पिप्पलिमूलमुस्ता
निष्क्वाथ्य कल्कः कफवातयुक्ते ज्वरे सशूले हितपाचनोऽयम् ॥१०१॥
क्षुद्रा गुडूची सह नागरेण वासाजलं पर्पटकञ्च पथ्याः
मुस्ता च दुःस्पर्शयुतः कषायः पानो हितो वातकफज्वरस्य ॥१०२॥
पर्पटनागाख्यवचातन्तुककट्फलैलाभयाविश्वभूतिके
क्वाथो हिंगुमधुयुतः कफवाते सहिक्कारोगे सगलग्रहे च ॥१०३॥
द्विपञ्चमूलकः क्वाथः कणाचूर्णेन भावितः
देयो वातकफे शूले ज्वरे श्वासे च पीनसे ॥१०४॥
तन्द्रालस्यं मुखमधुरता ष्ठीवनं कण्ठशोषो निद्रानाशः श्वसनविकलो मूर्च्छना शोचना च ।
जिह्वाजाड्यं परुषमथ वा पृष्ठशीर्षे व्यथा स्यादन्तर्दाहो भवति यदि वा
विद्धि दोषं त्रिदोषम् ॥१०५॥
दृष्ट्वा त्रिदोषजं घोरं ज्वरं प्राणापहारकम्
तस्मादादौ कफस्यास्य शोषणं परिकीर्त्तितम् ॥१०६॥
न कुर्यात्पित्तशमनं यदीच्छेदात्मनो यशः
कफवातैर्बलवतः सद्यो हन्ति रुजातुरम् ॥१०७॥
लङ्घनं दमनं वापि ष्ठीवनं स्यात्त्रिदोषजे
त्रिरात्रं पञ्चरात्रं वा सप्तरात्रमथापि वा ॥१०८॥
लङ्घनञ्च समुद्दिष्टं ज्ञात्वा दोषबलाबलम्
कफं विशोषितं ज्ञात्वा ततो वातनिवारणम् ॥१०९॥
पित्तसंशमनं कार्यं ज्ञात्वा पित्तस्य कोपनम्
शोषणीयौ वातकफौ न तु पित्तं विनाशयेत् ॥११०॥
तृष्णा च शूलशोषः श्वसनमथ निशाजागरो वासरैस्तु
तन्द्रा मोहश्च शोषो भवति च वदने घ्राणजिह्वाधराणाम्
पाकं निष्ठीवते यः कृशतनुश्च भवेन्मण्डलानाञ्च देहे
सम्भूतिः श्यावनेत्राधरवदनमदस्वेद आध्मानशोषः ॥१११॥
क्षुन्नाशो वा भ्रमणमपि तथा शिरसो लोडनं वा
शिरोऽर्त्तिः स्रोतोरोधो वमिर्वा गलकघुरघुराशूलकैर्वा वृतस्तु ।
एतैर्लिङ्गैः प्रयुक्तः प्रभवति च नृणां सन्निपातेतिसंज्ञा
रोगाणामाशुकारी ज्वर अतिदुःखदो वाजिनां वा द्विपानाम् ॥११२॥
सन्निपातज्वरे पूर्वं कुर्याद्वातकफापहम्
पश्चाच्छ्लेष्मणि संक्षीणे निरामे पित्तमारुतौ ॥११३॥
सन्निपातज्वरे यत्नं कृत्वा तन्द्रां जयेत्पराम्
उपद्रवः कष्टतमो ज्वराणाञ्च विशेषतः ॥११४॥
पथ्ये कारयते यस्तु रोगिणां कफपूरितम्
स एवास्य शत्रुः स्यान्न पथ्यं न च भेषजम् ॥११५॥
शठी द्विपञ्चमूलकं दुरालभा च कोटजम्
पटोलं पौष्करं वाथ युक्ता भार्गवी पिप्पली ॥११६॥
निहन्ति सान्निपातिकज्वराग्निमाद्यन्दशाङ्गः ॥११७॥
भूनिम्ब दारुदशमूलमहौषधाब्दतिक्तेन्द्रबीज धनिकभद्रकण्टकणाकषायः
तन्द्राप्रलापभ्रमतृषारुचिदाहमोहश्वासाग्निमान्द्ययुक्तमथज्वरमाशु हन्ति ॥११८॥
शण्ठीघनागजकणासुरदारुधान्यातिक्ताकलिङ्गदशमूलसमोऽपि कल्कः
श्रेष्ठस्त्रिदोषजनितज्वरनाशनाय श्वासभ्रमारुचिविबन्धहृदामयघ्नः ॥११९॥
मुस्तोशीरनिशाविशालमधुकं पाठा बला रोहिणी
नीली धन्वयवास कटृवरशठी शुण्ठी समङ्गा विवृत् ।
यष्टीपिप्पलिमूलपर्पटफला पिप्पल्यकं दारु च
श्यामाहेमगुडूचिकासमपयः क्वाथो ज्वरान्तः स्मृतः ॥१२०॥
द्वे बृहत्यौ शठी शृङ्गी किरातं कटुरोहिणी
पटोलं पौष्करं भार्ङ्गी वत्सकञ्च दुरालभा ॥१२१॥
एतद्बृहत्यादिकपाचनं स्यात्कासादिकोपद्रवनाशनञ्च
शीघ्रं निहन्ति ज्वरसन्निपातं शूलार्त्तितन्द्राशमने प्रशस्तम् ॥१२२॥
शठी किरातं कटुका विशाला गुडूचिभृङ्गी बृहतीद्वयञ्च
महौषधं पौष्करधन्वयासरास्नासुराह्वा गजपिप्पली च ॥१२३॥
पीतन्तु निष्क्वाथ्य हितं नराणां शठ्यादिचातुर्दशकं प्रशस्तम्
जघान तन्द्राश्वसनं शिरोऽर्त्तिजाड्यं सशूलं ज्वरमाशु हन्ति ॥१२४॥
भूनिम्बसुरदारुनागरघनातिक्ताकलिङ्गानि च
तद्वद्धस्तिकणा द्विपञ्चकगणैर्युक्तः कषायो हितः ।
पीतः सर्वरुजां विनाशनकरः स्यात्सन्निपातज्वरं
हन्ति श्वासविशोषवक्षसिरुजं तन्द्रां जघान द्रुतम् ॥१२५॥
रास्ना गुडूचिघनपर्पटकं पटोली भूनिम्बवत्सकशठीयुतनागराणाम्
तिक्तासुराह्वगजमागधिकायवासावासाबलागजबलाक्वथितः समांशः ॥१२६॥
क्वाथो निहन्ति मरुतप्रभवामयानां सश्वास कासजठरार्तिविषूचिकानाम्
श्रेष्ठो नृणां भुवि च पाचनसन्निपाते रोगेऽथवा कफसमीरणके प्रदेयः ॥१२७॥
रास्नात्रिकण्टशतमौषधीनान्तथा च भार्ङ्गी सपुष्करघना सुरदारुधान्याः
क्वाथो हितः सकलमारुतजिज्ज्वरेषु स्यात्सन्निपातप्रभवेष्वतिदारुणेषु ॥१२८॥
त्रिवृद्विशाला च तथा सुराह्वमारग्वधस्तिक्तकरोहिणी च
क्वाथो भवेद्भेदनको मलानां स्याद्वातशूले नयतो भयघ्नः ॥१२९॥
वचा यवानी च महौषधञ्च शुष्कञ्च चूर्णं तनुलेपनाय
शस्तं वदन्ति ज्वरघर्मशान्तिं करोति नूनं परिमर्दनञ्च ॥१३०॥
मागधी च सुरदारु तथा च विश्वकं तिक्ता च दीप्यकयुतं तनुलेपनाय
चूर्णं प्रशस्तमपि वारयते शरीरे स्वेदञ्च शीतलतनुर्भवेदाशु नूनम् ॥१३१॥
मधूकसारं समहौषधेन वचोषणा सैन्धवसंयुता च
मूत्रेण वा चोष्ण जलेन पिष्टं प्रनष्टज्ञानप्रतिबोधनाय ॥१३२॥
शोभाञ्जनकमूलस्य रसं समरिचान्वितम्
विसङ्गितानां नस्यं स्याद्बोधनं चाशु रोगिणाम् ॥१३३॥
एकं बृहत्याः फलपिप्पलीकं शुण्ठीयुतं चूर्णमिदं प्रशस्तम्
प्रधामयेद्घ्राणपुटे तु संज्ञाचेष्टां करोति क्षवथुप्रबोधः ॥१३४॥
शिरीषबीजं मरिचोपकुल्या मूत्रेण घृष्टं सह सैन्धवेन
नेत्राञ्जनं स्यान्नयने नराणां प्रनष्टसंज्ञां प्रकरोति बोधः ॥१३५॥
त्रिकटु तथा च करञ्जबीजं त्रिफला सुरदारु सैन्धवम्
तुलसी वर्त्ति दयनाञ्जनकं तन्द्रा नाशं करोति नयनानाम् ॥१३६॥
केसरं मातुलुङ्गस्य शृङ्गवेरं ससैन्धवम्
त्रिकटुसंयुतं कृत्वा आकण्ठाद्धारयेन्मुखे ॥१३७॥
दन्तजिह्वामुखं तालुघर्षणं कारयेद्बुधः
कुर्यान्निष्ठीवनं सर्वं वारंवारं विधानतः ॥१३८॥
तेन कण्ठविशुद्धिः स्याच्छ्लेष्माणं चापकर्षति
जिह्वापटुत्वरुचिकृत्वासः श्वासश्च शाम्यति ॥१३९॥
त्रकटुचव्यकापथ्या चूर्णं सैन्धवसंयुतम्
तेन दन्तांस्तथा जिह्वां घर्षयेत्तालुकामलम् ॥१४०॥
निष्ठीवनं गलशुद्धिरुचिकृत्कफसूदनम्
हृल्लासो नाशमाप्नोति पटुत्वं कुरुते भृशम् ॥१४१॥
यदि वा शीतगात्रे च तदा स्वेदो विधीयते
स्वेदास्त्रयोदश ज्ञेयाः स्वेदवारणकारणाः ॥१४२॥
सङ्करः प्रस्तुतो नाडीपरिषेकोऽपगाहनः
आतङ्कोऽस्मयनः कर्षः कूटी भूकुम्भिरेव च ॥१४३॥
कूपो होलाक इत्येते स्वेदयन्ति त्रयोदशः ॥१४४॥
कालस्वेदं घटीस्वेदं वालुकास्वेदमेव च
कारयेद्धस्तपादाभ्यां तथा शिरसि चातुरे
एवं नो शान्तिर्यदि वा दहेल्लोहशलाकया ॥१४५॥
पादौ दग्धे न चेच्छैत्यं दहेद्वाङ्गुष्ठमूलके
तथा च मणिबन्धे च हृदि मूर्ध्नि तथापि वा ॥१४६॥
स्वेदो ललाटे हिमो वा नरस्य शीतार्दितस्यापि सपिच्छलस्य
कण्ठस्थितो यस्य न याति वक्षो नूनं समभ्येति गृहं हि मृत्योः ॥१४७॥
सप्ताहे वा दशाहे वा द्वादशाहेऽथवा पुनः
त्रयोदशे पञ्चदशे प्रशमं याति हन्ति वा ॥१४८॥
अथ पञ्चादशाहे वा हन्ति रक्षति मानवम्
सन्निपातो महाघोरो ज्वरः कालाग्निसन्निभः ॥१४९॥
एषा त्रिदोषमर्यादा मोक्षाय च वधाय च
सन्निपातस्य दोषस्य नरस्यास्य भिषग्वर ॥१५०॥
सन्निपातेऽन्तर्दाहे मनुजं यः शीतवारिणा सिञ्चेत्
आतुरः कथमपि जीवेद्वैद्यश्चासौ कथं पूज्यः ॥१५१॥
यः सन्निपातजलधौ पतितं मनुष्यं वैद्यः समुद्धरति किन्न कृतं नु तेन ।
धर्मेण वाथ यशसा विनयेन युक्तः पूजां च कां भुवितले न लभेत्तु वैद्यः ॥१५२॥
वातपित्तकफैस्त्रिभिर्युक्तस्तथा त्रिदोषजः
स च रक्तेन संयुक्तो ज्वरः स्यात्सान्निपातिकः ॥१५३॥
न रक्तेन विना विद्धि ज्वरं वै सान्निपातिकम्
क्वाथैः पाचनकैर्दोषाः प्रशमं यान्ति मानवे ॥१५४॥
तस्मात्प्रशमिते दोषे रक्तं नैव विलीयते
तेनैव जायते शोफः कर्णमूले तु दारुणः ॥१५५॥
तस्मात्तस्य प्रतीकार कुर्याद्रक्तविरेचनम्
जलौकालाबुभृङ्गैस्तु ततश्च लेपनं हितम् ॥१५६॥
बीजपूरकमूलानि अग्निमन्थस्तथैव च
आलेपनमिदं चास्य कर्णमूलस्य नाशनम् ॥१५७॥
आगारधूपरजनीसुमहौषधेन सिद्धार्थसैन्धववचापयसा विमर्द्य
लेपोहितोरक्तविनाशकारी शोफव्रणस्य शमनो मनुजस्य कर्णे ॥१५८॥
यदा पाको भवेत्तस्य कार्या तत्र प्रतिक्रिया
धवार्जुनकदम्बत्वग्लेप्लनं व्रणरोहणम् ॥१५९॥
निम्बारग्वधमूलानां निशायुक्तं प्रलेपनम्
स्रावणं पूयगन्धानां रोहणं स्याद्व्रणेषु च ॥१६०॥
वर्जयेच्च दिवास्वप्नं योषित्सङ्गं बहूदकम्
शीताम्बु जागृतिं रात्रौ व्यायामं शोचनं तथा ॥१६१॥
माषांश्च यवगोधूमतिलपर्णीकमेव च
मसूरत्रिपुटांश्चैतांस्तैलञ्च दूरतस्त्यजेत् ॥१६२॥
मासमेकं व्यवायं च पक्षैकं चातिभोजनम्
वर्जयेत्कर्णमूलञ्च सुखं तेनोपपद्यते ॥१६३॥
षष्टिकान्नं पुराणं वा बाल्य सूपस्तथाढकी
कुलत्थामुद्गयूषं वा भोजने च प्रशस्यते ॥१६४॥
वार्त्ताकञ्च पलाण्डुं च कन्दशाकान्परित्यजेत्
एतेन सुखमाप्नोति शीघ्रं रोगाद्विमुच्यते ॥१६५॥
अन्ते पित्तं यदा तिष्ठेद्बाह्ये श्लेष्मसमीरणो
तदान्तर्दाहशोषः स्याद्बाह्ये सस्वेदशीतता ॥१६६॥
तस्यामृतापयः क्वाथं मधुपिप्पलिसंयुतम्
पाययेदाशु मुच्येत ज्वराद्वै सान्निपातिकात् ॥१६७॥
अथवातिविषा वालं नागरं घनपर्पटम्
क्वाथो वा शर्करायुक्त अन्तर्दाहोपशान्तये १६८
बाह्ये पित्तं यदा तिष्ठेदन्ते वा कफमारुतौ
तेनोष्णत्वं शरीरस्य अन्ते शैत्यं च जायते ॥१६९॥
तस्य शठ्यादिकं क्वाथं प्रयुञ्जीयात्कफापहम् ॥१७०॥
यस्योर्ध्वाङ्गे वातकफावधोगं पित्तमेव च
तेनार्द्धं शीतलं गात्रमर्द्धे चोष्णं च जायते ॥१७१॥
तस्य रास्नादिकं क्वाथं प्रयुञ्जीयात्तथोष्णकम् ॥१७२॥
यस्योर्ध्वं रक्तपित्तञ्च मध्ये वातकफावुभौ
तेनोर्ध्वं जायते चोष्णमधः शीतं प्रजायते ॥१७३॥
तस्य नागरादिक्वाथं युञ्जीयाद्भिषगुत्तमः ॥१७४॥
यस्योष्मा दृश्यते चापि मन्दस्रष्टा च जायते
बाह्यवेगं विजानीयाज्ज्वरः साध्यो विजानता ॥१७५॥
यस्यान्ते जायते चोष्मा तृष्णा दाहः शिरोव्यथा
गम्भीरवेगं जानीयात्कृच्छ्रसाध्यो नृणामपि ॥१७६॥
तस्य कुर्यात्प्रतीकारं योगोऽष्टादशको नृणाम् ॥१७७॥
अन्ते पित्तं यदा तिष्ठेद्देहे वातकफावुभौ
तेन शैत्यं शरीरस्य उष्णत्वं करपादयोः ॥१७८॥
तस्य रास्नादिकः क्वाथः प्रदेयः पिप्पलीयुतः ॥१७९॥
देहे पित्तं यदा तिष्ठेदन्ते वातकफावुभौ
तस्योष्मा जायते देहे शीतत्वं करपादयोः ॥१८०॥
तस्य द्राक्षादिकः क्वाथः प्रदेयो गुडकान्वितः १८१॥
यत्र यत्र भवेच्छैत्यं तत्र स्वेदो विधीयते
नात्युष्णे स्वेदनं कार्यं ज्वरस्यास्य विजानता ॥१८२॥
कफपित्तेन निश्चेष्टो भवत्येवानिलः सदा
तस्मादेवानिलाद्रोगाः सम्भवन्ति ज्वरादयः ॥१८३॥
भ्रमः शैत्यं विह्वलता कम्पो विड्भेदनं क्लमः
श्रमः स्वेदो जल्पनञ्च ज्वरमोक्षे भवन्ति च ॥१८४॥
प्रस्वेदकण्डू च शिरा च पुष्टा तथा मुखेषु क्षवथुर्लघुत्वम्
अन्नाभिलाषो विपुलेन्द्रियञ्च गतक्लमो गतरुजो मनुष्यः ॥१८५॥
विमुक्तस्यापि हि शिरोगुरुत्वं नैव मुञ्चति
अविमुक्तं विजानीयाज्ज्वरः पुनरुपैति तम् ॥१८६॥
यदि धातुगतश्चैव ज्वरो देहे प्रपद्यते
विषमज्वरं जानीयात्स च ज्ञेयश्चतुर्विधः ॥१८७॥
एकाहिको द्व्याहिकश्च त्र्याहिकश्च तथापरः
वेलाज्वरश्चतुर्थोऽपि विजानीयाद्विचक्षणः ॥१८८॥
शीतश्च पूर्वं भवति पश्चादुष्णश्च जायते
स साध्यो मनुजे प्रोक्तः शीघ्रं सिध्यति भेषजैः ॥१८९॥
पश्चाच्च दाहमाप्नोति ज्वरो भवति दारुणः
सोऽपि न मुच्यते शीघ्रं ज्वरो धातुक्षयङ्करः ॥१९०॥
त्रिकोरुकट्यां रुजवातपित्तं स्याच्च पित्तं मस्तके सुग्भ्रमश्च
पृष्ठे तनुश्लेष्मरुजाकरं स्यात्त्रिधा तृतीयज्वरलक्षणं तत् ॥१९१॥
कफपित्तात्त्रिकग्राहीपृष्ठाद्वातकफात्मकः
वातपित्तशिरोग्राही त्रिविधः स्यात्तृतीयकः ॥१९२॥
चतुर्थो द्विविधो ज्ञेयो वातश्लेष्मात्मको ज्वरः
जङ्घाभ्यां श्लेष्मकोज्ञेयः शिरसोऽनिलसम्भवः ॥१९३॥
एवं विज्ञाय सद्वैद्यः कुर्यात्तत्र प्रतिक्रियाम् ॥१९४॥
वेलाज्वरो रसगते रक्ते चैकाहिकस्तथा
मांसगोऽपि तृतीयः स्याच्चतुर्थोऽस्थिसमाश्रितः
सर्वधातुगतो ज्ञेयो जीर्णो धातुक्षयङ्करः ॥१९५॥
भूतजे भूतविद्या स्याद्दधाति शमताडनम्
अभिशापाज्ज्वरो यस्य तस्य शान्तिः प्रतिक्रिया ॥१९६॥
कामजे कामला पित्तैर्नयेच्च श्वसनं हितम् ॥१९७॥
क्रोधजे पित्तजे वापि सद्वाक्यैरुपशामयेत्
ओषधी गन्धजैर्मूर्च्छा कारयेत्सेवनं हितम् ॥१९८॥
निदिग्धिकानागरिकामृतानां क्वाथं पिबेन्मिश्रितपिप्पलीकम्
जीर्णज्वरारोचनकासशूलश्वासाग्निमान्द्यार्दितपीनसेषु ॥१९९॥
कासाजीर्णे श्वासहृत्पाण्डुरोगे मन्दे वाग्नौ कामलारोचके च
तेषां शस्ता पिप्पली स्याद्गुडेन हन्ति नॄणां जीर्णमाशु ज्वरञ्च ॥२००॥
लघुपञ्चमूलीक्वथितः कषायश्छिन्नोद्भवायाः सह पिप्पलीभिः
जीर्णज्वरे श्वासकफामयघ्नो मन्दाग्निशूलारुचिपीनसानाम् ॥२०१॥
पटोलपाठाकटुरोहिणीनां फलत्रयं वत्सकनिम्बमोक्षाः
द्राक्षामृताचन्दननागराणां क्वाथः पुराणज्वरनाशनाय ॥२०२॥
सजीरकं गुडं भक्षेत्सगुडां वा हरीतकीम्
सगुडान्वा तिलान्भक्षेज्ज्वरे च विषमानुगे ॥२०३॥
गुडार्द्रकं वा सम्भक्षेत्सगुडं त्रिफलाक्वाथम्
क्वाथोऽपि विषमाणान्तु ज्वराणां नाशकारकः ॥२०४॥
वासाधात्रीफलदारुपथ्यानागरसाधितः
मधुना संयुतः क्वाथश्चातुर्थिकनिवारणः ॥२०५॥
अगस्तिपत्रं स्वरसैर्निहन्ति नस्ये च चातुर्थिकरोगमुग्रम्
कासं भ्रमं चापि शिरोरुजाञ्च नाशञ्च नस्यं च हितं नराणाम् ॥२०६॥
रसोनकल्कं तिलतैलमिश्रं योऽश्नाति नित्यं विषमज्वरार्त्तः
विमुच्यतेऽसौ विषमज्वरेभ्यो वातामयैश्चाप्यतिघोररूपैः ॥२०७॥
पलञ्च निम्बस्य दलानि कुष्ठं वचा गुडं गुग्गुलुसर्षपानाम्
हरीतकी सर्पिर्युतं च धूपं विनाशनं वै विषमज्वराणाम् ॥२०८॥
सुरसा मूलमावृत्य हस्ते बद्धः शुभे दिने
वेलाज्वरादिकान् हन्ति भूतज्वरनिवारणः ॥२०९॥
मुस्तामृतामलक्यश्च नागरं कण्टकारिका
कणाचूर्णान्वितः क्वाथस्तथा मधुसमन्वितः ॥२१०॥
एकाहिकं वा वेलाद्यं ज्वरं जातं व्यपोहति ॥२११॥
रसोनबीजं विहाय खण्डं कृत्वा निशासु च
तक्रमध्ये विनिक्षिप्य प्रभाते घृतसंयुतम् ॥२१२॥
सेवितञ्च ज्वरान्हन्ति वेलाद्यान्देहधातुगान् ॥२१३॥
पिप्पलीवर्द्धमानञ्च पिबेत्क्षीरं रसायनम्
महौषधं नागरञ्च धान्यं चन्दनवालुकम् ॥२१४॥
गुडूचिकापयः पिबेत्तृतीयकज्वरापहम्
अपामार्गस्य मूलञ्च नीलीमूलमथापि वा ॥२१५॥
लोहितेन तु सूत्रेण आमस्तकप्रमाणतः
वामकर्णे कटीं बद्ध्वा ज्वरं हन्ति तृतीयकम् ॥२१६॥
वानरेन्द्रमुखं दिव्यं तरुणादित्यतेजसम्
ज्वरमेकाहिकं घोरं तत्क्षणादेव नश्यति ॥२१७॥
वानराकृतिमालिख्य खटिकायाः पुनः शृणु
गन्धपुष्पाक्षतैर्धूपैरर्चयन्ति भिषग्वराः ॥२१८॥
ॐ ह्रां ह्रीं क्लीं सुग्रीवाय महाबलपराक्रमाय सूर्यपुत्रायामिततेजसे एकाहिकद्व्याहिकत्र्याहिकचातुर्थिकमहाज्वरभूतज्वरभय ज्वरक्रोधज्वरवेलाज्वरप्रभृतिज्वराणां दह दह पच पच अवत अवत वानरराज ज्वराणां बन्ध
बन्ध ह्रां ह्रीं ह्रूं फट् स्वाहा । नास्ति ज्वरः ।
ज्वरापगमनसमर्थज्वरस्त्रास्यते ॥२१९॥
पुनश्चात्र प्रवक्ष्यामि ज्वराणां रूपलक्षणम् ॥२२०॥
सन्तप्तकाञ्चनाभासो हुताशनसमप्रभः
उड्डीनयज्ञोपवीती च रौद्रो ब्राह्मणरूपकः ॥२२१॥
जपाकुसुमसङ्काशो रौद्रदंष्ट्रान्वितस्तया
खङ्गहस्तो महारौद्रो माह्रेन्द्रः क्षत्त्रियो मतः ॥२२२॥
पञ्चकप्रसवाभासतप्तकाञ्चनभूषितः
दण्डहस्तो मध्यवेगी वैश्यो ज्वरेश्वरो मतः ॥२२३॥
कृष्णमेघाञ्जनाकारस्तीक्ष्णदंष्ट्रोज्ज्वलाननः
त्रिनेत्रो ज्वलनप्रभः कालः शूद्रो मतस्तथा ॥२२४॥
तीक्ष्णवेगः क्षुधायुक्तः शुचिर्द्वेष्टा व्रतप्रियः
मूत्रञ्च किंशुकाभासं पाठशीलोऽतिजल्पकः ॥२२५॥
बहुश्वासी तृषाक्रान्तो रौद्रब्राह्मणपीडितः
तस्य स्नानं जपं होमं कृत्वा शान्तिः प्रपद्यते ॥२२६॥
तीक्ष्णज्वरोऽतितृष्णश्च रक्तमूत्रञ्च मूत्र्यते
कुरुते युद्धवार्त्ताञ्च उत्तिष्ठति बलातुरः ॥२२७॥
तप्तनेत्रो महाश्वासः क्षुधया पीडितस्तथा
मधुगन्धो मुखे स्वेदो माहेन्द्रक्षत्त्रियार्दितः ॥२२८॥
तस्यादौ ग्रहहोमं तु देवतास्तवनं शुचिः
दानजपादिभिः कार्यैः प्राप्यते सिद्धिसङ्गमः ॥२२९॥
मध्यवेगः पीतगात्रः स्वप्नशीलोऽरुचिस्तथा
शीतपवनहृदुष्णः कण्ठस्वेदोऽतिविह्वलः ॥२३०॥
बहुमूत्री भक्तियुक्तो मौनी पीतान्तलोचनः
नातितृष्णातुरः स्निग्धः स विज्ञेयो ज्वरेश्वरः ॥२३१॥
तत्र स्वस्त्ययनातिथ्यं द्विजदैवतपूजनम्
जपहोमादिकं सर्वं कर्त्तव्यं शान्तिहेतुना ॥२३२॥
हृच्छूलश्चातिसारी वा मत्स्यगन्धाङ्गलेपनः
उन्मादी चातितृप्ताक्षो रतेषु विकलेन्द्रियः ॥२३३॥
प्रणयी त्वध्वनो भीरुर्ग्रासं नैवाभिकांक्षया
कालभृङ्गारकेणापि शूद्रे सिद्धिर्न जायते ॥२३४॥
स्नानं दानजपं सुरार्चनविधिर्होमादयः प्रीतता
भूतानाञ्च विशेषणेन बहुधा तृप्तिं च कुर्यात्ततः ।
गोभूमिं कनकान्नपानविधिना दानेन शान्तिर्भवेत्
सर्वेषां च रुजां विनाशनमिदं शंसन्ति सत्यव्रताः ॥२३५॥
वेगं कृत्वा विषं यद्वदाशये लीयते बलम्
कुप्यते प्रबलं भूयः काले दोषो बिषं तथा ॥२३६॥
शालिषष्टिकभक्तानां यूषं मुद्गाढकीषु च
पूर्वोक्तानि च शाकानि वातघ्नानि भवन्ति हि ॥२३७॥
शतपुष्पा च जीवन्ती तण्डुलीयकवास्तुकम्
घृतेन भाजिका सिद्धा शाकपत्राणीमानि च ॥२३८॥
लावतित्तिरमांसादिवार्त्ताकानां तथातुरे
मृगछिक्करिकाद्यानि जाङ्गलानि प्रयोजयेत् ॥२३९॥
कोशातकी पटोलं च शुण्ठीकं च हितं भवेत्
वर्जयेद्विदलान्नानि विदाहीनि गुरूणि च ॥२४०॥
न पिच्छलानि तैलानि तथाम्लानि च वर्जयेत्
दधिमस्तुविशालानि क्षुद्रान्नानि भिषग्वरः ॥२४१॥
बहूदकञ्च ताम्बूलं घृतं वापि सुरामपि ॥२४२॥
क्रोधं शोकञ्च त्यक्त्वा वै सदा सौख्यं विभुञ्जते
न कुर्याज्जागरं रात्रौ दिवास्वप्नञ्च वर्जयेत् ॥२४३॥
शकटवाजिकरिद्विपिवाहनं प्रबलं परिवर्जयेत्तु सततम्
ज्वरिणमाशु सुखं बुभुजे सुधीः शुभविधाननिधान उपस्तितः ॥२४४॥
व्यायामं च व्यवायं च अशनं रात्रिजागरम्
ज्वरमुक्तो न सेवेत तदा सम्पद्यते सुखम् ॥२४५॥

इति आत्रेयभाषिते हारीतोत्तरे तृतीयस्थाने ज्वरचिकित्सानाम द्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : February 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP