तृतीयस्थानम् - त्रिचत्वारिंशोऽध्यायः
हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.
आत्रेय उवाच केशघ्नस्य चिकित्सां तु शृणु हारीत साम्प्रतम् रूक्षं सपाण्डुरं वातात्पित्ताद्रक्तं सदाहकम् ॥१॥
कफान्वितं भवेत् स्निग्धं रक्तात् पाकं व्रजन्ति तत् सन्निपातेन सदृशं जायते सर्वलक्षणम् ॥२॥
गुडेन सुरसाशुण्ठीमातुलुङ्गरसेन तु केशघ्ने वातसम्भूते धावनञ्च प्रशस्यते ॥३॥
त्रिफलावचारोहीतं गुडेनापि प्रपेषितम् धावनं कफसम्भूते चैन्द्रलुप्ते प्रशस्यते ॥४॥
पैत्तिके च हितं दुग्धं नवनीतान्वितं तथा शिताशिवाफलं यष्टी पैत्तिके धावनं मतम् ॥५॥
भृङ्गराजरसं ग्राह्यं शृङ्गवेररसं तथा सौवीरकरसेनापि तिलान् पिष्ट्वा प्रलेपनम् पश्चात्कार्यं पूरुषेण स्नानमुष्णेन वारिणा ॥६॥
धवार्जुनकदम्बस्य शिरीषमपि रोहितम् क्वाथमेषां शिरोदद्रूं शमयेदिन्द्रलुप्तकम् ॥७॥
कुरबकस्य पुष्पेण जपायाः कुसुमेन च घृष्टस्य चेन्द्रलुप्तस्य कृतमेव निवारणम् ॥८॥
पैत्तिकानि च लिङ्गानि दृष्ट्वा दुग्धेन धावनम् शीतलानि प्रदेयानि पैत्तिकेन विधीयते ॥९॥
धत्तूरपत्राणि च मागधीनां निशाविशालागृहधूमकुष्ठम् घृतेन युक्तञ्च जलेन पिष्टं शिरःप्रलेपे क्षतवारणं स्यात् ॥१०॥
पित्तकृते दोषयुते च रोगे पटोलपत्रं पिचुमन्दकं वा तथा मलक्याः फलमेव पिष्ट्वा घृतेन खण्डेन प्रलेपनञ्च ॥११॥
निवार्यते मस्तकजं क्षतञ्च शिरोऽर्त्तिसङ्घान्विनिहन्ति चैतत् गजेन्द्रदन्तस्य मषीं गृहीत्वा प्रलेपनं वा नवनीतकेन ॥१२॥
तिलार्क भल्लातकदग्धमाषक्षारस्य लेपो नवनीतकेन सर्पस्य क्षारस्य तथा प्रयोगः खल्लाटके केशचयं करोति ॥१३॥
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने इन्द्रलुप्तचिकित्सा नाम त्रिचत्वारिंशोऽध्यायः ॥४३॥
N/A
References : N/A
Last Updated : February 24, 2021
TOP