संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्|
नवमोऽध्यायः

तृतीयस्थानम् - नवमोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच
शृणु च भिषग्वरिष्ठ व्याधिर्घोरो नराणां भवति विहितचेष्टो वातलप्राणिनां वै ।
चिरनिचयकरोऽयं प्राकृतैः कर्मपाकैरिह परिभवकारी मानुषस्य क्षयोऽयम् ॥१॥
देवानां प्रकरोति भङ्गमथवा भ्रूणस्य सन्तापनं
गोपृथ्वीधरविप्रबालहननमारामविध्वंसनम् ।
सोऽयं स्थानविनाशनं च कुरुते स्त्रीणां वधं यो नरस्
तस्यैतैर्गुरुकर्मभिः क्षयगदो देहार्थहारी महान् ॥२॥
देवानां दहतो धनं च दहतो भ्रूणप्रपातेऽपि च
देवत्वं हरती विषं च ददत आरामकं निघ्नतः ।
तेनासौ नियमेन सम्भवति वै नॄणां च तीव्रा रुजा
धातूनां क्षयकारिणी च मनुजस्यात्मापहा दारुणा ॥३॥
क्षयो दशविधश्चैव विज्ञातव्यो भिषग्वरैः ॥४॥
श्रमाद्वाभाराद्वाविषमशयनैर्दीर्घचलनैरजीर्णे भोज्याद्वा सुरतरतिसेवापरतया ।
ज्वरेणातिक्रान्ताद्विषमशयनाच्छीतलतरैः क्षयं याति श्लेष्मा पवनमथ पितञ्च तनुषु ॥५॥
रोगाक्रान्ताद्विषमशयनात्तस्य मन्दज्वराद्वा
श्लेष्मापित्तञ्च मरुदथवा याति देहक्षयं वा ।
रसरक्तमांसमेदश्चास्थि मज्जा च शुक्रमिति सप्त
एवं दशविधा ज्ञेयाः क्षया भवन्ति नृणां शरीरेषु ॥६॥
पुनरपि लक्षणमेषां वक्ष्यते ते शृणु त्वम् ॥७॥
अतिस्वेदातिघर्मेण चिन्ताशोषभयादिना
वाताद्यैः सेवितैश्चापि जायते मारुतक्षयः ॥८॥
तेन तन्द्राङ्गदाहश्च पिपासारुचिवेपथुः
तमः क्लमो भ्रमश्चैव भवेच्च मारुतक्षये ॥९॥
तस्मादनूपानि सेव्यानि रसानि पललानि च
रसोनादिककल्कञ्च सेवयेद्वातनाशने ॥१०॥
पित्तक्षयेऽग्निमान्द्यं च जायतेऽरुचिजाड्यता
कासहृल्लासशोफश्च जायते मन्दचेष्टता ॥११॥
स्वेदाभ्यङ्गान्नपानानि दीपनानि प्रयोजयेत्
जाङ्गलानि रसान्नानि सेवयेत्पित्तकृत्क्षये ॥१२॥
व्यायामे च व्यवाये च रूक्षान्नाहारसेवनैः
सन्तापक्रोधनैश्चैव जायते कफसम्भवः ॥१३॥
तेन दाहोऽथवा पाण्डुः शोफो निःश्वसनं भ्रमः
विनिद्रता क्षुत्तृषा च स्त्रीसङ्गेनापि नन्दति ॥१४॥
तस्य शीतान्नपानानि कन्दशाकादिकै रसैः
अनूपैर्दधिदुग्धैर्वा सेवनं च समीहितम् ॥१५॥
त्रिभिर्दोषैः क्षयं प्राप्तैस्तदा हि मरणं ध्रुवम्
तस्य क्रिया प्रयोक्तव्या साधारणा महामते ॥१६॥
अथ धातुक्षयं वक्ष्ये हारीत शृणु साम्प्रतम्
रसरक्तमांसमेदाः प्रत्येकं क्षयलक्षणम् ॥१७॥
रसक्षयेऽतिशोषश्च मन्दाग्नित्वं च वेपथुः
शिरोरुग्मन्दचेष्टत्वं जायते च क्लमभ्रमौ ॥१८॥
रक्तक्षये क्षयः पाण्डुर्मन्दचेष्टो भवेन्नरः
श्वासो निष्ठीवनं शोषो मन्दाग्नित्वं च जायते ॥१९॥
मांसक्षयेऽतिकृशता चेष्टनं चाङ्गभङ्गता
निद्रानाशोऽतिनिद्रास्य विसंज्ञो लघुविक्रमः ॥२०॥
मेदःक्षये मन्दबलो विसंज्ञता चाङ्गभङ्गो गमनं परुषता
श्वासातिकासारुचिताग्निमान्द्यं विशोषस्तेन तनुशोषो जायते ॥२१॥
अस्थिक्षये स्यादतिमन्दचेष्टता मन्दवीर्य इति मेदसः क्षये
विसंज्ञता कृशता च कम्पना अङ्गभङ्गवमनं परुषता ॥२२॥
शोषदोषसदनं च शोफिता विकम्पनं शोषरुषश्च जायते
भिषग्वर त्वं परिवेद लक्षणं मज्जाक्षये कम्पनमेव वास्ति २३॥
भ्रमः क्लमः स्यादतिमन्दचेष्टः शोफो निशाजागरणं च तन्द्रा
मन्दज्वरः शोषसमो मनुष्ये शुक्रक्षये चाङ्गविचेष्टितानि ॥२४॥
रूक्षभ्रमकम्पनशोषरोषस्त्रीद्वेषितादीनि
विरूपता च वैकल्यं सन्धिषु जातशोषः ॥२५॥
इदानीं सम्प्रवक्ष्यामि भेषजानि यथाक्रमम्
स्नेहनं रूक्षणं चैव तथा विम्लापनं हितम् ॥२६॥
जाङ्गलानि च मांसानि भोजनानि च सेवयत्
गुडूची शृङ्गवेरञ्च यवानीक्वथितं जलम् ॥२७॥
मरिचैः क्वथितं दुग्धं पाने रात्रौ प्रशस्यते
तेन रसानां वृद्धिः स्याच्छीघ्रं तस्माद्विमुच्यते ॥२८॥
रसानां वृद्धिकरणं गोधूमयवशालीनाम्
कथितानि भिषक्छ्रेष्ठैर्जाङ्गलानि विशेषतः ॥२९॥
घृतदुग्धसिताक्षौद्रमरीचानि च पिप्पली
पानं शस्तं मनुष्याणां रक्तवृद्धिकरं परम् ॥३०॥
अनूपानि च धान्यानि लघुनामानि कल्पयेत्
कल्यांश्च घृतदुग्धादीन्सेवयेन्मधुराणि च ॥३१॥
रसाश्च जाङ्गलानि स्युः सेवनार्थे भिषग्वर ॥३२॥
सितोपलादिकं चूर्णमजाक्षीरं सकोलकम्
हितं पानं क्षये चैव कल्यमप्रातराशनम् ॥३३॥
पक्वानि घृतशस्तानि क्षीराणि विविधानि च
चन्दनानि च द्राक्षादिचूर्णानि च भिषग्वर ॥३४॥
जाङ्गलानि च सर्वाणि सेवनीयानि पुत्रक
अन्नानि च मधुराणि सर्वाणि च प्रयोजयेत् ॥३५॥
शुक्रक्षये प्रपाकानि रसानि च विशेषतः
नवनीतं तथा क्षीरं मधुराणि च सेवयेत् ॥३६॥
कर्कटीमूलपयसा विदारीकन्दशाल्मली
सिताढ्यपानं च हितं शस्यन्ते मधुराणि च ॥३७॥
शुक्रक्षयवृद्धिकरणमिदानीं चूर्णानि वक्ष्यन्ते ॥३८॥
बला विदारी लघुपञ्चमूली पञ्चैव क्षीरद्रुमत्वक् प्रयोज्या
पुनर्नवा मेघतुगायुतं स्यात्सञ्जीवनीयैर्मधुकैः समांशैः ॥३९॥
अक्षप्रमाणानि समानि तानि सर्वाणि चैतानि विचूर्णयित्वा
विमिश्रयेत्तत्र कणाशतानि यवान्न गोधूमयवांश्च पिष्ट्वा ॥४०॥
तुगासमांशं सिततण्डुलानां सेयं सुभृङ्गारकमिश्रितं तु
प्राकर्णकार्द्धेन वियोजनीयं सर्वांशकेनापि सिता प्रयोज्या ॥४१॥
विभावयेच्चामलकीरसेन वारत्रयं गोपयसा विभाव्य
ततोऽस्य सर्वैश्च सशर्करैर्वा घृतेन चैवं पुनरेव भाव्यम् ॥४२॥
तं भक्षयेत्क्षौद्रयुतं पलार्द्धं जीर्णे च भोज्यं कटुकाम्लवर्जम्
क्षीरं घृतं वा सितशर्करां वा यवान्नगोधूमकशालिभक्ष्यान् ॥४३॥
ज्ञात्वाग्निपाकं जठरे नरस्य देयो विधिज्ञैः क्षयरोगशान्त्यै
पथ्यक्षये श्रान्तचिराभितापसम्पीडितानां च तथा शिरोऽर्त्तौ ॥४४॥
पित्तातुराणां रुधिरक्षयाणां श्रमाध्वंसम्पीडितकामलानाम्
श्वासातुराणां मधुमेहिनां च क्षीणेन्द्रियाणां बलकारि शस्तम् ॥४५॥
गर्भो गृहीतश्च यया स्त्रिया च तस्याः प्रशस्तं तु बलादिचूर्णम् ॥४६॥
इति बलादिचूर्णम्
बिल्वाग्निमन्थशोणाकाः काश्मरी पाटली तथा
शालिपर्णी पृश्निपर्णी श्वदंष्ट्रा बृहतीद्वयम् ॥४७॥
भृङ्गी शीता चामलकी जयन्ती पुष्कराह्वयम्
द्राक्षाभयामृता मेदा चन्दनागुरुपद्मकम् ॥४८॥
बलाह्वयास्तु कर्णे द्वे जीवकऋषभावुभौ
काकोली क्षीरकाकोली विदार्याः कन्दमांसकम् ॥४९॥
सर्वेषां पलिका मात्रा योजयेद्भिषजां वरः
धात्री फलं पञ्चशतं सुपक्वरससंयुतम् ॥५०॥
जलद्रोणे विपक्तव्यं चतुर्भागे च शोषितम्
तथा निर्वाप्य मतिमान् कलकानि समुद्धरेत् ॥५१॥
तत्क्वाथं कल्कयेत्तावद्यावद्दर्वीप्रलेपकः
पुनस्तैलेन वाज्येन पक्त्वा चामलकीफलान् ॥५२॥
पाचिताश्चूर्णितान्सर्वान्समशर्करयायुतान्
चतुष्पलातुगाक्षीरैर्योजयेद्भिषजां वरः ॥५३॥
पिप्पलीनां सहस्रैकं त्वगेलापत्रकं तथा
एषां द्विपलिकां मात्रां विदध्यात्तत्र सत्तमः ॥५४॥
सर्वं प्राक्कथिते लेहे योजयेच्च विचूर्णितम्
आदरेण समं लिह्यान्नराणां च रसायनम् ॥५५॥
श्वासकासक्षयपाण्डुकामलानां विशोषणम्
क्षीणक्षतानां बालानां वृद्धानां देहरक्षणम् ॥५६॥
स्वरभङ्गपिपासानां हृद्रोगे पित्तशोणितम्
शुक्रदोषं शिरोरोग्रं पीनसं चापकर्षति ॥५७॥
जीर्णज्वरञ्च मन्दाग्निं कुष्ठं दुष्टं भगन्दरम्
मेहं कृच्छ्राश्मरीं हन्ति तथा रोचनवारणम् ॥५८॥
हृद्रोगशूलमानाहं नाशयत्यविसंशयम्
वन्ध्यानां पुत्रजननं वृद्धानामल्परेतसाम् ॥५९॥
षण्ढोऽपि जायते चैव सदा ऋतुकरः परः
मेधा स्मृती तथा तेजो वर्द्धयत्याशु निश्चितम् ॥६०॥
सौख्यसौभाग्यदर्शी च वृद्धोऽपि तरुणायते
क्षयरोगविनाशाय कथितं चात्रिणा महत् ॥६१॥
च्यवनप्राशनं नाम कृष्णात्रेयविभाषितम् ॥६२॥
इति च्यवनप्राशनं नामावलेहः
भार्ङ्गीपुष्करमूलचित्रककणामूलं गजाह्वा शठी
शङ्खाह्वादशमूलचित्रकबलायासात्मगुप्तास्तथा ।
एतेषां द्विपलांशकी भिषग्वर प्रोक्ता च पञ्चाढके
पथ्यानां शतकं विपाच्य बहुधा मन्दाग्निना सन्ततम् ॥६३॥
निर्वाप्य पुनरेव पूतसरसं चोद्धृत्य पथ्याशतं
संशुष्यामतिशीतले सुभवनक्वाथः प्रशस्तः पुनः ।
दत्वा जीर्ण गुडस्य चैकतुलया कुडवञ्च क्षौद्रं घृतं
स्नेहस्यार्द्धमथाक्षकेण मगधा योज्यं शतं पञ्चकम् ॥६४॥
चूर्णं तत्र निधापयेत्पुनरपि सङ्घट्टयेदुच्चकं
पथ्ये द्वे मधुना सहातिहितकृत्सर्वामयच्छेदनः ।
पाण्डुकासहलीमकगुदरुजो हृद्रोगहिक्काभ्रमान्
हन्यात्पीनसमेहपित्तरक्तकुष्ठं च ग्रहण्यामयम् ॥६५॥
पुष्पं चैव तनोति शोफ मरुचिगुल्मार्त्तिराजक्षयमेहानाहविबन्धरोगशमनं क्षीणेन्द्रियाणां हितम् ।
मन्दाग्नेः प्रशमं करोति वडवातुल्योऽरुचिबन्धको
नाशं वा विदधाति देहसुखदागस्तिप्रणीताभया ॥६६॥
बलाह्वयं गोक्षुरको बृहत्यौ निष्क्वाथ्य दुग्धेन कणासमेतम् ।
पानं हितं स्यान्मधुना सिताढ्यं विनाशनं कामलकं क्षयं वा ।
मेहस्य तृष्णाशय नाशकारि क्षीणेन्द्रियाणां बलमातनोति ॥६७॥
पिप्पलीं वर्द्धमानं वा कारयेद्दुग्धसर्पिषा
आद्यः पञ्च पुनः सप्त पुनरेव नव क्रमात् ॥६८॥
एकादशस्त्रयोदशः पञ्चदशस्तथा सप्तदशः स्मृतः
एकोनविंश एकविंशः पृथक्पृथग्यथाक्रमम् ॥६९॥
एवं क्रमेण वृद्धिः स्यात्कारयेच्छतमात्रया
ततः क्रमेण पुनः पश्चाद्यावच्छेषं च पञ्चकम् ॥७०॥
भोजयेत् षष्टिकान्नं तु मुद्गेन सर्पिषा युतम्
एवं बालश्च वृद्धश्च नरो नागबलो भवेत् ॥७१॥
पिप्पली वर्द्धमाना तु ज्वरे जीर्णे प्रशस्यते
मन्दाग्नौ पीतमेवाथ गुदजे वा तथा पुनः ॥७२॥
इति पिप्पलीवर्द्धमानम्
द्वे पले मार्कवं धातु माक्षिकं च पुनर्नवा
तुगा पृक्का शालिपर्णी वासकं च दुरालभा ॥७३॥
चूर्णार्द्धेन समं योज्यं त्रिगन्धं मरिचानि च
तालीसं मगधा चैव तदर्द्धेन शिलोद्भवम् ॥७४॥
शिलाभेदं तदर्द्धेन सर्वं चैकत्र मिश्रयेत्
समेन तिलचूर्णं तु शर्करायाः समायुतम् ॥७५॥
भक्षयेत्क्षीरपानं वा शस्यते घृतसंयुतम्
तेन क्षयो राजयक्ष्मा कामला च विनश्यति ॥७६॥
अपस्मारं जयत्याशु बलवीर्याधिको भवेत्
शाम्यन्ति च महारोगाः शुक्राढ्यो जायते नरः ॥७७॥
इति शिलाजतुचूर्णम्
जीवन्तिकावत्सकयष्टिकानां सपौष्करं गोक्षुरकं बले द्वे
नीलोत्पलं चामलकी यवासं सत्रायमाणा मगधा च कुष्ठम् ॥७८॥
द्राक्षामलक्या रसप्रस्थमेकं प्रस्थद्वयं छागलकं पयश्च
प्रस्थं दधिषु पचेद्घृतं वह्निवातं पाने प्रशस्तमेव भोज्ये ॥७९॥
नस्ये च बस्तावपि योजयेत्तद्विनाशमेत्याशु च राजयक्ष्मा
हलीमकः कामलपाण्डुरोगो मूर्च्छा भ्रमः कम्पशिरोऽर्त्तिशूलम् ॥८०॥
महाश्मरी वा गुदकीलकुष्ठं शिरोगतो नाशमुपैति रोगः
तस्य प्रदानेन वियोजितेन पानेन पाण्ड्वामयराजयक्ष्मा ॥८१॥
नाशं शमं याति हलीमको वा बस्तिप्रदानेन गुदोद्भवाश्च
रोगी विनाशं समुपैति पुंसां विसर्पविस्फोटकप्रोक्षणेन ॥८२॥
कणा पलाशः पञ्चगुणं पयश्च आद्यं घृतं वै विपचेत्समांशम्
पानेऽथवा भोजनके प्रशस्तं देयं च राजक्षयनाशहेतोः ॥८३॥
पञ्चकोलं यवाग्रञ्च क्षीरं दध्ना घृतं पुनः
समांशेन तु योज्यानि भार्ङ्गी कुष्ठं तु पौष्करम् ॥८४॥
शतं तत्र हरीतक्या जले चैव चतुर्गुणे
क्वाथं चैकत्रयं योज्यं क्वाथयेन्मृदुवह्निना ॥८५॥
मृदुपाकं घृतं सिद्धं पाने नस्ये च बस्तिषु
गुणाधिक्यं भवेन्नॄणां पाण्डुरोगे हलीमके ॥८६॥
राजयक्ष्मणि क्षये चैव शस्तं चोक्तं भिषग्वर ॥८७॥
यष्टी बला गुडूची च पञ्चमूलं समांशकम्
क्वाथेन सदृशं धात्रीरसं चेक्षुरसं तथा ॥८८॥
विदार्याश्च रसं चैव घृतं च समभागिकम्
क्षीरं दधिसमं चात्र नवनीतं तु तत्समम् ॥८९॥
द्राक्षातालीससंयुक्तं यथालाभेन योजयेत्
सिद्धं घृतं च पानाय नस्ये बस्ता प्रदापयेत् ॥९०॥
जयति राजयक्ष्माणं पाण्डुरोगं सुदारुणम्
हलीमकं चार्शसं च रक्तपित्तनिवारणम् ॥९१॥
लेपेन दुष्टवैसर्पपित्तदग्धव्रणापहम् ॥९२॥
बला श्वदंष्ट्रा बृहतीद्वयं च पर्णीद्वयं गोक्षुरकं स्थिरा च
पटोलनिम्बस्य दलानि मुस्तं सत्रायमाणा च दुरालभा च ॥९३॥
कृत्वा कषायं च यदावशेषं पूतीकृते चूर्णमिदं प्रयुंज्यात्
द्राक्षा शठी पुष्करमूलधात्री तमालकी दुग्धसमं कषायम् ॥९४॥
सर्पिःप्रयुक्तं नवनीतकं च सर्पिस्तदर्द्धेन नियोजनीयम्
सिद्धं घृतं पानमथैव बस्तौ नस्ये तथाभ्यञ्जनभोजनेन ॥९५॥
जघन्यकासक्षयकामलानां राजक्षये क्षीणबलेन्द्रियाणाम्
शतेषु शोफेषु व्रणेषु शस्तं शिरोऽर्त्तिपार्श्वार्त्तिगुदामयघ्नम् ॥९६॥
चन्दनं सरलं दारु यष्ट्येला वालकं शठी
नलशैलेयकं पृक्कापद्मकं वनकेसरम् ॥९७॥
कङ्कोलकं मुरामांसी शैरियं द्विहरीतकी
रेणुकात्वक्कुङ्कुमञ्च सारिवे द्वे तिक्तागुरुः ॥९८॥
नलिकाबले तथा द्राक्षा कषायं सुपरिस्रुतम्
तैलमस्तु तथा लाजा रसेन समभागिकम् ॥९९॥
मन्दाग्निना पचेत्तैलं सिद्धं पाने च बस्तिषु
नस्ये चाभ्यञ्जने चैव योजयेत्तद्भिषग्वरः ॥१००॥
हन्ति पाण्डुक्षयं कासं ग्रहघ्नं बलवर्णकृत्
मन्दज्वरमपस्मारकुष्ठ पामाहरं पुनः ॥१०१॥
करोति बलपुष्ट्योजो मेधाप्रज्ञायुर्वर्द्धनम्
रूपसौभाग्यदं प्रोक्तं सर्वभूतयशस्करम् ॥१०२॥
स्वामिभार्याभिगमने गुरुपत्न्यभिलाषणात्
राजस्वहेमचौर्याद्वा राजयक्ष्मा भवेद्गदः ॥१०३॥
अथवा दुष्टरोगेण जायते शृणु पुत्रक
चतुर्भिर्हेतुभिर्यक्ष्मा जायते शृणु साम्प्रतम् ॥१०४॥
व्यायामयानसुरतागतिपीडिताङ्गरोगेण वा व्रणनिपीडितक्षीणदेहात्
क्रोधातिशोकानशनादिभयोपवासैः सञ्जायते च मनुजस्य महागदोऽयम् ॥१०५॥
वार्द्धक्याद्यो भवति नितरां ज्याधनुःकर्षणेन भारात्यर्थं भवति हननोत्पातबन्धेन युद्धात्
दूराध्मानात्कदशनवशाच्चिन्तयातिव्यवायात्सम्भूतिः स्यान्मनुजबलहृद्राजयक्ष्मेतिसंज्ञः ॥१०६॥
क्षतक्षयाच्छ्रमाद्वापि सहसोपप्लवादपि
व्यवायातिप्रसङ्गेन तथा रूक्षातिसेवनात् ॥१०७॥
तेन संक्षीयते गात्रं ज्वरो मन्दश्च जायते
ज्वरान्ते जायते शोफो मलविट् चातिमूत्रता ॥१०८॥
अतिसारश्च भवति भक्षणेनातिशेषते
कासते ष्ठीवतेऽत्यर्थं शोषञ्च कुरुते भृशम् ॥१०९॥
स्त्रियोऽभिलाषतात्यर्थं वार्त्तायाद्विषता पुनः
राजयक्ष्मेति विज्ञेयो गदः साध्यो न विद्यते ॥११०॥
सुप्तौ पादौ भवेतां तु ग्रासञ्च बहु मन्यते
शब्दे च पटुता यस्य राजयक्ष्मा न जीर्यति ॥१११॥
यदन्नं यत्समाहारं यादृशं प्रतियाचते
तत्तस्य च प्रदातव्यं मधुरं घनमेव च ॥११२॥
यद्यदाहारमिच्छेद्वा नरं वा राजयक्ष्मिणम्
तस्य तस्यास्य लाभेन क्षीयन्ते धास्य धातवः ॥११३॥
यदा सरक्ताः शोफाः स्युः पाकतां याति मानवे
तदा पुनर्नवाक्वाथः सलेशः प्रविधीयते ॥११४॥
सञ्जीवेच्चतुरो मासान्षण्मासं वा बलाधिकः
उत्कृष्टैश्च प्रतीकारैः सहस्राहं तु जीवति ॥११५॥
सहस्रात्परतो नास्ति जीवितं राजयक्ष्मिणः
गतप्राणौजोवीर्यश्च क्षीणश्च विकलेन्द्रियः ॥११६॥
न भवेत्पुनरुच्छ्रायो याप्यरोगश्च मुञ्चति
यस्तदायाससम्पन्नो भूयोऽपि कासना भवेत् ॥११७॥
तस्य प्राणापहारी स्याद्राजयक्ष्मातिदारुणः
त्रिभिर्मासैश्च षण्मासैर्वर्षैश्चापि त्रिभिः पुनः ॥११८॥
शतमूलीरसे प्रस्थं गुडूचीकल्कप्रस्थकम्
हरीतकीशतानां च कुटजस्य त्वचा तुलाम् ॥११९॥
निष्क्वाथ्य च पृथक्त्वेन पूतनाञ्चैकत्र मिश्रयेत्
दार्वीप्रलेपनं कृत्वा गुडानां शतपञ्चकम् ॥१२०॥
सिता चामलकीचूर्णं त्वगेला चित्रकं शठी
द्राक्षा कुष्ठं शिलाजिच्च शिलाभेदस्तु तालकम् ॥१२१॥
योज्यं तत्राक्षमानेन भक्षयेच्छुद्धसर्पिषा
तस्योपरि पिबेत्क्षीरं भोजनञ्च ततः परम् ॥१२२॥
राजयक्ष्मी लभेत्सौख्यं पाण्डुकामलकाञ्जयेत्
अतीसारं विनश्यति बले नागबलो भवेत् ॥१२३॥
तालकं च शिलाभेदस्तथा चैव शिलाजतुः
क्षीरके द्वे समङ्गा च कुष्ठं नागबला बला ॥१२४॥
एलापत्रकतालीसं तमालं हरिचन्दनम्
मुस्ता द्राक्षा च रास्ना च मुण्डी शैलेयकं पुरः ॥१२५॥
सुरसा चैव संयोज्या तिलाः कृष्णा द्विभागिकाः
चूर्णं सूक्ष्मं प्रयुञ्जीत गुडेन मधुना युतम् ॥१२६॥
पश्चाद्गोक्षीरपानं स्यात्क्षीरेण सह भोजनम्
राजयक्ष्मादिभिः क्षीणा ग्रहणीपीडिताश्च ये ॥१२७॥
धातुक्षीणबला ये च तेषां संयोजयेद्भृशम्
वृद्धोपि तरुणो भूत्वा नरो नार्याभिनन्दति ॥१२८॥
बन्ध्यापि लभते पुत्रं षण्ढोऽपि पुरुषायते
तालकाम्रातकं नाम कृष्णात्रेयविभाषितम् ॥१२९॥
गुडूची च बले द्वे च धात्री च मरिचानि च
चूर्णं गुडेन संयुक्तं राजयक्ष्मापहं नृणाम् ॥१३०॥
शालिषष्टिकगोधूमवास्तुकं जाङ्गलानि च
मुद्गांश्च गोपयश्चैव शशकैणकुरङ्गिणाम् ॥१३१॥
तित्तिरक्रौञ्चलावानां वार्त्ताकपिच्छकच्छागलानां हि
कथितानि मांसादीनि प्रलेपकानि जगति च ॥१३२॥
विभोजयेत्क्षीरसर्पिः क्षये वा राजयक्ष्मिणः
क्षाराम्लकटुकं तीक्ष्णं तैलं सौवीरकं सुरा
राजिकावर्जिताश्चैते क्षये वा राजयक्ष्मिणः ॥१३३॥

इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने क्षयरोगचिकित्सा नाम नवमोऽध्यायः ॥९॥


N/A

References : N/A
Last Updated : February 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP