संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्|
द्विपञ्चाशत्तमोऽध्यायः

तृतीयस्थानम् - द्विपञ्चाशत्तमोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच विरुद्धाहारसेवाभिस्तथा गर्भव्यथासु च अतिमूर्द्धनपीडायाः पीडां प्राप्नोति चार्भकः ॥१॥
तिर्यग्वापि च गर्भञ्च त्यक्त्वा द्वारं भगस्य च अन्यद्वा म्रियतेऽपत्यं तेन कष्टं प्रपद्यते ॥२॥
अथवा लज्जया स्त्रीणां सङ्कोचात्सङ्कुचिते भगे मूढगर्भञ्च जानीयात्तस्य वक्ष्यामि लक्षणम् ॥३॥
बस्तिशूलञ्च भवति योनिद्वारं निरुन्धति गर्जते जठरं यस्या आध्मानञ्चैव जायते ॥४॥
तोदनं चाङ्गभङ्गश्च निद्राभङ्गश्च जायते वाताद्भवति गर्भस्य संरोधो भिषगुत्तम ॥५॥
शूलं ज्वरस्त्रिदोषश्च तृष्णादोषो भ्रमस्तथा मूत्रकृच्छ्रं शिरोऽर्त्तिः स्यात्पित्ताद्रोधो भ्रूणस्य च ॥६॥
आलस्यतन्द्रानिद्रा च जाड्याध्मानं च वेपथुः कासो विरसता चास्ये श्लेष्मणा मूढगर्भके ॥७॥
द्वन्द्वैश्च द्वन्द्वजं विद्यात्सर्वं स्यात्सान्निपातिकम् ॥८॥
भ्रममूर्च्छातृषाध्मानं वातरोधञ्च विह्वलम् मूर्च्छावमिं सपारुष्यं दीनत्वमुपगच्छति ॥९॥
मृतगर्भं विजानीयादाशुकारी स्त्रियामपि अतोवक्ष्यामि भैषज्यं महामोहे विशारद ॥१०॥
वातिके मर्दनाभ्यङ्गं स्वेदनं वाल्पमेव च यवागूं पञ्चकोलञ्च पाययेद्भिषगुत्तमः ॥११॥
पैत्तिके शीतलं पानं शीतान्नसहितानि च व्यञ्जनानि तथा तस्य यष्टिकं पयसा पिबेत् ॥१२॥
त्रिकटु त्रिफला कुष्ठं रोध्रं वत्सकधातुकी सगुडं क्वथितं पाने श्लेष्मणा मूढगर्भके ॥१३॥
मूर्वाचिञ्चावास्तुकर्णीमञ्जिष्ठारोध्रनीलिकाः कर्कन्धुमूलं सौराष्ट्री क्वाथश्च सगुडो हितः ॥१४॥
रक्तपित्तविकारेषु कुक्षिशुद्धिश्च जायते मृतगर्भस्य वक्ष्यामि भेषजं भिषजां वर ॥१५॥
मर्दयित्वा मानुषीञ्च ततश्चापि प्रयत्नतः निराहाराच्च म्रियते यदिगर्भोऽन्तरे स्त्रियः ॥१६॥
तदा शस्त्रप्रतीकारं भेषजानि शृणुष्व मे नाभिबिलशयाच्च सुकुण्डलिकां कृत्वा तु तस्योपरि मूढगर्भामुपवेश्य जानुनी प्रसार्य किञ्चित्पृष्ठभागे साधारणमवष्टभ्य उदरादधोऽवतारयेत् ।
योनिद्वारे प्रगलति तिलतैलेन वारिणा परिभ्यज्य हस्तो याति योनिद्वारञ्च तस्मात्तर्जन्यांगुष्ठेन गलप्रदेशे धृत्वा निःसारयेत् ।
अथवार्द्धचन्द्रेण शस्त्रेणैव मृतगर्भस्य बाहुयुगलं संच्छिद्य बाहू निःसारयेत् ॥१७॥
लाङ्गल्या मूलेन उष्णेन वारिणा योषितां नाभिलेपेन शीघ्रं गर्भो जायते प्रसूयते च ।
बलामूलं सूर्यकान्तिसोमवल्लीकानि कज्जलेन पिष्ट्वा लेपनं करोतु ॥१८॥
भीरुभूनिम्बवार्त्ताकीमूलञ्च पिप्पलीयकम् यवान्यग्रवचाः पिष्ट्वा तथा चोष्णेन वारिणा ॥१९॥
नादिदेशादधस्ताच्च प्रलेपेन प्रसूयते मूलञ्च लाङ्गलिक्याश्च देवदाल्याश्च तुम्बिका ॥२०॥
कोशातक्यादिकं सर्वं लेपने परिकल्पितम् सूतिलेपाः स्त्रियो ह्येते सुखेन सा प्रसूयते ॥२१॥
हिमवदुत्तरे कूले सुरसा नाम राक्षसी तस्या नूपुरशब्देन विशल्या गुर्विणी भवेत् ॥२२॥
ऐं ह्रीं भगवति भगमालिनि चल चल भ्रामय पुष्पं विकाशय विकाशय स्वाहा ।
ॐ नमो भगवते मकरकेतवे पुष्पधन्विने प्रतिचालितसकलसुरासुरचित्ताय युवतिभगवासिने ह्रीं गर्भं चालय चालय स्वाहा ।
अभिर्मन्त्रितं पयः पाययेत्तेन सुखप्रसवः ॥२३॥
ऐं ह्रां ह्रीं ह्रूं ह्रैं ह्रों ह्रौं ह्रः ॥२४॥
इदं यन्त्रं भूर्जपत्रस्योर्ध्व भागे लिखित्वा मूढगर्भायै दर्शयेच्छयातले च स्थापयेत्तेन सुखेन प्रसवः ॥२५॥
गङ्गातीरे वसेत्काकी चरते च हिमालये तस्याः पक्षच्युतं तोयं पाययेच्च ततः क्षणात् ॥२६॥
ततःप्रसूयते नारी काकरुद्रवचो यथा अनेन दूतो व्याकुलो भवेत्तावच्च पाययेत् ॥२७॥
तेन प्रसूयते नारी गृहे काकसुखेन च ॥२८॥
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने मूढगर्भचिकित्सानाम द्विपञ्चाशत्तमोऽध्यायः ॥५२॥

N/A

References : N/A
Last Updated : February 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP