संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्|
द्वादशोऽध्यायः

तृतीयस्थानम् - द्वादशोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच
अथ वक्ष्यामि कासानां निदानं सचिकित्सितम्
कासांश्चाष्टविधांश्चैव शृणु पुत्र महामते ॥१॥
हास्यात्प्रहास्यरजसानिलसन्निरोधाद्विमार्गगत्वाच्च हि भोजनस्य
वेगावरोधात्क्षवथोस्तथैव सञ्जायतेऽपि मनुजां प्रतिधाम कासः ॥२॥
संसेवनान्मधुरपिच्छलजागरेण स्वप्नैर्दिवातिदधिगौल्यहिमाशनेन
सञ्जायते मदनतैलमथाल्पकन्दो मद्येन वा भावि जनुः कफस्य ॥३॥
उदान ऊर्ध्वगतिवैपरीत्यात्कफेन प्राणानुगतेन दीर्घः
ह्रदं निरेत्य कफकासकण्ठे करोति तेनापि च कास संज्ञाम् ॥४॥
कासाश्चाष्टौ समुद्दिष्टाः क्षतजाऽन्यः प्रकीर्त्तितः
वातिकः पैत्तिकश्चैव श्लैष्मिकः सान्निपातिकः ॥५॥
वातपित्तसमुद्भूतः श्लेष्मपित्तसमुद्भवः
सप्तमो लोहितेनात्र चाष्टमो जायते क्षयात् ॥६॥
न वातेन विनाश्वासः कासो न श्लेष्मणा विना
न रक्तेन विना पिक्षं न पित्तरहितः क्षयः ॥७॥
कथितः सम्भवश्वासश्चातो वक्ष्यामि लक्षणम्
येन संलक्ष्यते नॄणां कासश्चाष्टविधः परः ॥८॥
क्षीणेन्द्रियः पार्श्वरुजोऽतिवेगः शूलावृतो वा गलके च बद्धः
निद्राकृतिर्भिन्नरवो मनुष्यो वातेन कासस्य भवेत्प्रकाशः ॥९॥
कण्ठे विदाहो ज्वरशोषमूर्च्छातृष्णाभ्रमः पित्तभवे च कासे
आस्ये कटुत्वं च शिरोऽर्त्तिपित्तं निष्ठीवते पीतनखानि नेत्रे ॥१०॥
जाड्यं वमिः पाण्डुभवं च कासं निष्ठीवते यः सघनं कफं वा
भक्तारुचिर्वा कफपूर्ण देहे घनः स्वरः श्लेष्मभवे च कासे ॥११॥
कण्डूदाहश्वासच्छर्दिशोषारोचकपीडिताः
शिरोऽर्त्तिशोफहृल्लासः कासे त्रिदोषसम्भवे ॥१२॥
कासः कण्डूः पिपासा च कुक्षि शूलो विनिद्रता
शुष्ककासः पिपासा च वातपित्तोद्भवः कफः ॥१३॥
धूमगन्धः पीतवर्णोऽक्षिप्रपाकी सरक्तकः
रक्तनेत्रेः पिपासाद्यः पित्तश्लेष्मान्वितः कफः ॥१४॥
व्यवायातिप्रसङ्गेन वेगरुद्धाभिघातकः
भारोद्धरणयातेन जायते क्षतजः कफः ॥१५॥
तेन हृदि व्यथा रूक्षं कासते च सशोणितम्
श्वासः संक्षीयते गात्रं दीनो मन्दज्वरातुरः ॥१६॥
वेपते पर्वभेदश्च मोहभ्रमनिपीडितः
एवं क्षतजनिर्दिष्टो नृणां प्राणापहारकः ॥१७॥
अल्पायासात्क्षतात्क्षीणात्सम्पातात्क्षणभोजनात्
पातनाघातयोगेन जायते रक्तजः कफः १८॥
विस्रगन्धास्य हृच्छूलदीनो वै विकलेन्द्रियः
रक्तनिष्ठीवनोपेत श्वासो वापि मदातुरः ॥१९॥
क्षीयते सततं गात्रं मोहस्तृष्णा च जायते
इत्येतैर्लक्षणैर्युक्तं रक्तकासं विनिर्दिशेत् ॥२०॥
अथ क्षयानुमानेन लक्ष्यते कासलक्षणम्
पाण्डुरोगे तथा यक्ष्मे गुल्मे वापि क्षतक्षये ॥२१॥
शोफार्शसां प्रतिश्याये चावश्यं काससम्भवः
एतेषां चानुमानेन कासं संलक्षयेद्भृशम् ॥२२॥
स्थविराणां रक्तकासः सोऽपि याप्यः प्रकीर्त्तितः
बालानां जायते कासो धात्रीवैकल्ययोगतः ॥२३॥
एते कासाः समुद्दिष्टा दशभिर्भिषगुत्तमैः
तेषां क्रियाप्रतीकारः पथ्यभेषजमेव च ॥२४॥
शतमूलिकाक्वथितः कषायः पीतः कणाचूर्णयुतः सुखोष्णः
नृणां निहन्यान्मरुतोद्भवं तु कासं सशूलं च विपाचनं स्यात् ॥२५॥
भार्ङ्गी शठीगोस्तनीशृङ्गवेरशृंङ्गीकणाचूर्णयुतोऽवलेहः
गुडेन तैलेन हितो नराणां मरुद्भवकासविकारनाशनः ॥२६॥
विश्वा दुःस्पर्शशृङ्गी शठी पुष्करं दारु भार्ङ्गी कणा मुस्तं रास्नायुतम्
शर्करायुक्तमनुदिनञ्च चूर्णं कासं निःश्वासवातोद्भवं हन्ति वै ॥२७॥
कट्फलं कटुतृणं भार्ङ्गी मुस्ता वचा धान्यकम्
पर्पटं देवदारु स्तथादार्वी विश्वायुतकर्कटम् ॥२८॥
कल्कयेत्पानमेतन्मधुसंयुतं मानवम्
कासिनां कासप्रतीकारकासीत्तथा श्लेष्मसम्भूताय ॥२९॥
क्षयं पीनसं कण्ठग्रहं शोषवातात्मकम्
कफं नाशयत्याशुहिक्काज्वरं श्लेष्मकम् ॥३०॥
द्राक्षामलक्याः फलपिप्पलीनां कोलं सखर्जूरयुतोऽवलेहः
रक्तपित्तकासक्षयनाशकारी सकामलं पाण्डु हलीमकञ्च ॥३१॥
वालाबृहत्यौ मधुकं वृषं च तथैव कुष्ठं पिचुमन्दकञ्च
गवास्तनीसंयुतकल्कमेतत्पानं हितं पित्तकफात्मके च ॥३२॥
मुस्ताटरूषकफलत्रिकदारुभार्ङ्गी व्याघ्रीसपुष्पफलमूलदलैरुपेता रास्नाविषा
च मधुरसालानि चूर्णं निहन्ति क्वथितेन जलेन कासम् ॥३३॥
बद्धाथवा च गुटिका मधुना गुडेन सिन्धूद्भवेन मगधासमहौषधेन
आस्ये धृता निशि विशालगुणा भवन्ति श्वासं क्षयं क्षतजकासमिदं निहन्ति ॥३४॥
शर्करा चैव खर्जूरं द्राक्षा लाजा कणा मधु
सर्पिर्युतो हितो लेहः पित्तकासनिवारणः ॥३५॥
आटरूषकपत्राणि पिचुमन्ददलानि च
तुलसीस्वरसञ्चैव शठी शृङ्गी मरीचकम् ॥३६॥
शुण्ठीचूर्णं गुडे युक्तं लिह्यात्कासे कफात्मके
भार्ङ्ग्याश्च नागपिप्पल्याः पिबेत्क्वाथं सुखोष्णकम् ॥३७॥
आर्द्रकस्य रसं नीत्वा मधुना च पिबेत्सुधीः
कासे श्वासे प्रतिश्याये ज्वरे श्लेष्मसमुद्भवे ॥३८॥
कट्फलं भूतृणं भार्ङ्गी शुण्ठी पर्पटकं वचा
सुराह्वं च जलशृतमुक्तञ्च पण्डितैस्तथा ॥३९॥
मधुना संयुतं पानं कासे वातकफात्मके
श्वासे हिक्काज्वरे शोषे महाकासे च दारुणे ॥४०॥
तालीसपत्रं मरिचञ्च विश्वाश्यामायुतं चोत्तरभागवृद्ध्या
त्वक् पत्रकेणापि लवङ्गमेलां पिप्पल्याचाष्टौ गुणितां सिताञ्च ॥४१॥
लिह्यात्प्रभाते श्वसने च कासे प्लीहारुचौ पीनसच्छर्दिहिक्काम्
शोफातिसारं ग्रहणीं च पाण्डुं क्षयं निहन्यात्क्षतजञ्च यक्ष्मम् ॥४२॥
तालीसं त्रिफलाप्रियंगुमगधाभूलञ्च मुस्ता शठी
दार्व्यलादलनागकेसरलवङ्गानां तथा नागराः ।
कृष्णाकोलकबालकं सचविला मूर्वा विषा कर्कटं
द्राक्षा कुष्ठनिशाग्निवत्सकवृषं गोकण्टतिक्ता तथा ॥४३॥
वृक्षाम्लं च सदाडिमाम्लकरसं पक्वबदराणि च
एतेषां समभागचूर्णविहितं योज्या समा शर्करा ।
योज्यं चार्द्धपलं निहन्ति क्षतजं कासं तथा श्वासकं पाण्डूकामलमेदशोषगुदजे शस्तं सदा यक्ष्मिणाम् ॥४४॥
क्षयकासे मधुयष्टिकया त्रिदोषजाः
आमजे शूलरोगार्त्तिः पर्वभेदी भ्रमः क्लमः
शोषः शिरोव्यथा क्लेदो नेत्रे गम्भीरमिच्छति ॥४५॥
खल्ली वा चेतनं वापि अजीर्णाज्जायते वमिः
सापि स्निग्धा च रूक्षा च द्विविधा जायते वमिः ॥४६॥
गम्भीरनेत्रो वमते विड्बन्धो वाति सार्यते
गात्रे खल्लीकरं शूलं तथा शोथातिमूर्च्छना ॥४७॥
विकलाङ्गो भ्रमार्त्तञ्च भ्रमन्तं पश्यते जगत्
शिरोऽर्त्तिर्वेपतेऽत्यर्थं करपादौ हिमोपमौ ॥४८॥
एतैर्लिङ्गैस्तु संयुक्तां छर्दिं दूरे परित्यजेत्
असाध्या सर्वयोगैस्तु साप्यजीर्णा सुधीमता ॥४९॥
सपञ्चमूलीक्वथितः कषायः ससैन्धवं चामलकञ्च कल्कः
क्वाथं पिबेन्मिश्रितपिप्पलीकं सवातच्छर्दिविनिवारणं च ॥५०॥
दद्यात्क्षीरं शर्करया नरस्य पित्तोद्भूतां वातिशीघ्रं निहन्ति
द्राक्षा वापि क्षीरदार्व्या विचूर्णं लेहो हन्ति सारघाणां पिबन्ति ॥५१॥
फलत्रिकं पुष्करकं वचां च तथाभयासैन्धवकं गुडेन
चूर्णं विलिह्यात्कफवान्ति हन्ति नरस्य मूत्रेण युतस्य पानम् ॥५२॥
शठी दार्व्याभया शुण्ठी मागधी घृतसंयुता
चूर्णं तक्रेण संयुक्तं हन्ति छर्दि त्रिदोषजाम् ॥५३॥
रक्तशाल्युद्भवा लाजा मधुशर्करयान्विता
ज्वरार्त्तिं युवतेः शीघ्रं नाशयन्त्येव मे मतम् ॥५४॥
आमलक्या रसेनाथ घृष्टं चन्दनकं मधु
गुटिका पलमानेन लेहो हन्ति वमिं ध्रुवम् ॥५५॥
आर्द्रदाडिमनिर्यासश्चाजाजी शर्करान्विता
सतैलमाक्षिकं वापि चत्वारः कवलग्रहाः ॥५६॥
चतुररोचकान्हन्ति वाताद्यान्द्वन्द्वजांस्त्रिः ॥५७॥
त्रिकटुकरजनीद्वयं च फलत्रिकं मध्वा च यावशूकञ्च
समकृतमिति चूर्णमेतन्मधुना युतं वमिं निवारयति ॥५८॥
सगुडं दाडिमं द्राक्षा पथ्या वा नागरगुडयुक्ता
त्रिवृता नागरमथवा गुडेन युक्तं वमिं दधति ॥५९॥
पर्पटं सगुडं क्वाथं शीतलं पाययेन्नृणाम्
हन्ति वमिं महाघोरां सपित्तां भ्रमसंयुताम् ॥६०॥
काकोली काकमाची च क्वाथं शर्करया युतम्
लाजाशर्करसंयुक्तं हन्ति पित्तवमिं नृणाम् ॥६१॥
मातुलुङ्गरसश्चैव पथ्या शर्करया युतः
हन्ति कांसं पित्तभवं वमिं शीघ्रं नियच्छति ॥६२॥
दृष्ट्वा पित्तवमिं घोरां सदाहभ्रम दायिनीम्
तस्यारग्वधपत्राणि मधुशर्करयान्वितम् ॥६३॥
क्षीरपानं प्रशस्तं वा मुस्ताशर्करयान्वितम् ॥ ६४॥
जम्ब्वाम्रकप्रवालानि दाडिमामलकं तथा
मस्तुनोपोषितं पानं हन्याच्छ्लेष्मवमिं नृणाम् ॥६५॥
सर्जार्जुनधवकदम्बकलोलचूर्णं शुण्ठीधान्याकसहितं सगुडं प्रदद्यात्
श्लेष्मोद्भवं वमनमाशु निहन्ति पुंसां शठीकणामधुविडङ्गयुतोऽपि लेहः ॥६६॥
एलालवङ्गगजकेसरकोलसर्जालाजाप्रियंगुघनचन्दनपिप्पलीनाम्
चूर्णानि मार्कवसितासहितानि लीढ्वा छर्दिं निहन्ति कफ मारुतपित्तजाञ्च ॥६७॥
एलादलानि गजकेसरकत्वगेलालामज्जकं च दहनं च घनं प्रियंगुम्
सचन्दनं मगधजासमचर्णितञ्च लीढ्वा सितासमत्रिदोषवमिं जघान ॥६८॥
ऊर्ध्वभागगते दोषे विरेचनं प्रशस्यते
तस्मिञ्जातेऽप्यधोभागं वमनं शाम्यति ध्रुवम् ॥६९॥
अथवा द्विभागगते तदा देया भया मधु
क्रिमिजं वमनं ज्ञात्वा क्रिमीणां शमनक्रिया ॥७०॥
न चोष्णं नातिचाम्लं च न तीक्ष्णं न तथा लघु
तन्दुलीयकशाकं वा न मद्यं काञ्जिकं न तु ॥७१॥
वमिदोषे च कथितं पथ्यं चात्र शृणुष्व मे
अनूपं शालिभक्तं च शतपुष्पा च वास्तुकम् ॥७२॥
आढकी मुद्गयूषञ्च दधि गुडघृतान्वितम्
अङ्गारमण्डका चाथ वमौ पथ्यं प्रशस्यते ॥७३॥
यथाबलं यथाकालं यथारोगं यथानलम्
तथा दृष्ट्वा प्रकुर्वन्ति पथ्यानां समुपक्रमम् ॥७४॥
दिवा निद्रां प्रयुञ्जीयाद्वमौ श्वासेऽतिसारके
हिक्काशोषे तथाजीर्णे वमिक्लेदेऽथवा पुनः ॥७५॥
न चोष्णतोयपानञ्च नातिभोजनमेव च
न धावनं न कर्त्तव्यं वर्जयेद्वमनार्दिते ॥७६॥
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने छर्दिचिकित्सा नाम द्वादशोऽध्यायः ॥१२॥

N/A

References : N/A
Last Updated : February 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP