संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्| अष्टमोऽध्यायः तृतीयस्थानम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः ऊनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोऽविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुःपञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः तृतीयस्थानम् - अष्टमोऽध्यायः हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते. Tags : ayurvedharit samhitasamhitaआयुर्वेदसंहिताहारीत संहिता अष्टमोऽध्यायः Translation - भाषांतर आत्रेय उवाचशृणु पुत्र प्रवक्ष्यामि पाण्डुरोग महागदम्पञ्चैव पाण्डुरोगास्ते सम्भवन्तीह मानुषे ॥१॥वातिकः पैत्तिकश्चैव श्लैष्मिकः सान्निपातिकःपञ्चमो रूक्षणः प्रोक्तो वक्ष्ये चैषां तु सम्भवम् ॥२॥दीर्घाध्वन्ये पीडितो वा ज्वरेण रक्तस्रावेपीडितो वा व्रणेनचिन्तायासाद्रोधनाद्धे मनुष्य अयं पाण्डुर्जायते सेवते यः ॥३॥क्षारं चाम्लं कल्यमैरेयसेवा अव्यायामान्मैथुनातिश्रमेणनिद्राणाशेनातिनिद्रादिवापियोगैश्चेतैर्मृत्तिकाभक्षणेन ॥४॥पथि शिथिलशरीरे रोगसम्पीडिते वा लवणकटुकषायासेवनाम्लेन मृद्भिःअतिसुरसमजस्रं सेवनातिक्रमेण नयति रुधिरशोषं तेन वै पाण्डुरोगम् ॥५॥तेनाक्षकूटे श्वयथुः शरीरे पाण्डुत्वमायाति च पीतमूत्रःनिष्ठीवते त्वक् प्रविदीर्यते च सञ्जायते तस्य पुरःसराणि ॥६॥तोदः परुषत्वशिरोगुरुत्वं त्वङ्मूत्रनेत्रे नखे पीतता स्यात्वातात्मकं तं मनुजस्य विद्धि लिङ्गरुपेतोऽनिलपाण्डुरोगः ॥७॥आमत्वपीतत्वकरो हि लोके बिभर्त्ति शोषं कटुतास्यतां चमन्दज्वरो वै तृषामोहशोफः पीतच्छविः पित्तभवो हि पाण्डुः ॥८॥तन्द्रालुशोफकफकासयुक्त आलस्यप्रस्वेदगुरुत्वमेवम्सञ्जायते तस्य कफात्मकोऽसौ नरस्य पाण्डुत्वभवो विकारः ॥९॥तन्द्रालस्यं श्वयथुवमथू कासहृल्लासशोषा विड्भेदालस्यं परुष नयनेसज्वरो वै क्षुधार्त्तः ।मोहतृष्णाक्लममथ नरस्याशु पश्येत्सुदूरं त्याज्यो वैद्यैर्निपुणमतिभिः सन्निपातोत्थपाण्डुः ॥१०॥मृत्तिकाभक्षणेनाथ शृणु पुत्र गदो महान्पाण्डुरोगो गरिष्ठोऽपि भवेद्धातुक्षयङ्करः ॥११॥मृद्भक्षणाच्चैव मलं प्रकीर्य स्रोतांसि तुष्यन्ति तु मृत्तिकायाःतेनैव नासृक् परिवर्त्तयन्ति न तर्पयन्ति वपुषं रसेन ॥१२॥क्षारात्कषायान्मधुरस्य पानात्स कोपत्याशु नरस्य मृत्साश्लेष्मप्रकोपान्मधुरान्करोति मृत्सा न जग्धा हितकारिणी स्यात् ॥१३॥विकृता एव बलिष्ठा मारुताद्यास्त्रयस्तु द्युतिबलजीवनाशां नाशयन्त्याशुदोषाः ।भवति विकलमेवं पाण्डुरोगे शरीरं हरति जठरवह्निं मृत्तिकाभक्षणेन ॥१४॥गोमूत्रे लोहं मतिमान्स्थापयेत्सप्तरात्रकम्तस्माच्चूर्णं तु मधुना देयं पाण्ड्वामयापहम् ॥१५॥त्र्यूषणं त्रिफला मुस्ता विडङ्ग चित्रकं समम् ॥१६॥भागमेकं लोहचूर्णमपि वेक्षुरसेन भावयेत्सप्तकाहमलोपि खल्वितं पुनरपि प्रवरं स्यात् ॥१७॥शीलितं तु मधुनापि घृतेन पाण्डुरोगहृदयामयापहम्कामलार्शोहलीमकहारि कथितं सुमतिभिश्च पण्डितैः ॥१८॥त्र्यूषणं त्रिफलया सह चित्रकं मेघचव्यसुरदारुमाक्षिकम्ग्रन्थिकं च शिखिभृङ्गराजकं योजयेत्पलिकभागिकानिमान् ॥१९॥चूर्णिताद्द्विगुणमेव योजयेल्लोहचूर्णमपि कज्जलप्रभम्अष्टभागसममूत्रकल्पितं पाचितं पुनरहो बलप्रदम् ॥२०॥सेवयेद्बलमुपक्रमं तथा तत्र संयुतमिहास्ति शोभनम्नाशयेच्च कफकामलान्कृमीन्पाण्डुकुष्ठगुदजान्हलीमकम् ॥२१॥पुनर्नवाव्योषत्रिवृत्सुराह्वयं निशाह्वयं चव्यफलत्रयं तथाघना यवा तिक्तवरोहिणी समा द्विभागिकं लोहरजो विमिश्रयेत् ॥२२॥गवां पयो वा द्विगुणं वियोज्यं दार्व्या प्रलेपं प्रणिधाय धीमान्छायाविशुष्का गुटिका विधेया क्षौद्रेण मूत्रेण गवां च भक्षयेत् ॥२३॥ज्ञात्वा बलं रोगबलं नरस्य पाण्ड्वामये कामलसर्वमेहेगुल्मोदराजीर्णविषूचिकानां शोफातिसारग्रहणीविबन्धान्शूलक्रिमीनर्शविकारहेतोः ॥२४॥पञ्चकोलककटुत्रिकं घना देवदारुकृमिशत्रुकोलकम्एष भागसहितो वियोजितो मिश्रयेत्तदनु चायसं रजः ॥२५॥तत्र चाष्टगुणमूत्रमध्यतः पाचयेद्भवति येन लेपिकाकारयेद्बदरमात्रया पुनश्छाययापि पिषितञ्च शोषणम् ॥२६॥कारयेत्सुरभिमथितेन च पानकञ्च शमयेत्सकामलम्पाण्डुमर्शमतिसारमन्दभुक् शोषमेहगुदजान् क्रिमीनपि ॥२७॥धात्रीफलानां रसप्रस्थमेकं प्रस्थं तथा चेक्षुरसं विदध्यात्प्रस्थं तु कूष्माण्डरसप्रदिष्टमार्कं रसं प्रस्थविमिश्रमेकम् ॥२८॥एकीकृतं मन्दहुताशनेन पाच्यं भवेद्व्यापदशेषमेतिविमिश्रयेदौषधसङ्घमेतत्पलैकमात्रं विपचेच्च पश्चात् ॥२९॥भृङ्गी सुराह्वं शतपुष्पधान्यं सुगन्धशुण्ठी मधुकं विशालासपिप्पलीकं सकटुत्रयं च विडङ्गमुस्ता हपुषादलानि ॥३०॥भूरिहरिद्राकटुरोहिणीनां दुरालभापौष्करवत्सकानाम्कुष्ठाजमोदासुरसा दलानि चूर्णं त्वमीषां विनियोजनीयम् ॥३१॥गुडं पुराणं द्विगुणं तु मध्ये गोघृतेन वटिकां विबन्धयेत्भक्षणाज्जयतिकामलार्शसं पाण्डुरोगमतिदारुणज्वरान् ॥३२॥शोफशोषग्रहणी विनिघ्नति वातातिसारक्षयकासगुल्मान् ॥३३॥गोधूमशालियवषष्टिकमुद्गकानां श्यामाढकीघृतयुतं पयसा सतक्रम्गाण्डीववास्तुकमथो शतपुष्पवर्त्तापथ्यं हितं निगदितं मनुजस्य पाण्डौ ॥३४॥जाङ्गलानि च मांसानि भोजने च प्रशस्यते ॥३५॥तिक्तानि रूक्षाणि च कटुकानि तीव्राणि दाहान्यपि काञ्जिकानिसुराम्लसौवीरकबीजपूरान् तैलानि वर्ज्यानि च पाण्डुरोगे ॥३६॥इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने पाण्डुरोगचिकित्सा नाम अष्टमोऽध्यायः ॥८॥ N/A References : N/A Last Updated : February 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP