संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्| विंशोऽध्यायः तृतीयस्थानम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः ऊनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोऽविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुःपञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः तृतीयस्थानम् - विंशोऽध्यायः हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते. Tags : ayurvedharit samhitasamhitaआयुर्वेदसंहिताहारीत संहिता विंशोऽध्यायः Translation - भाषांतर आत्रेय उवाचचतुरशीतिर्विख्याता वाता नॄणां रुजाकराःतेषां निदानं वक्ष्यामि समासेन पृथक्पृथक् ॥१॥विरुद्धचिन्ताशनजागराच्च व्यायामतश्चातितमोऽभिषङ्गात् ।असृग्विरेकाद्विषमासनेन प्राणापानसमानसन्धारणात् ।अध्वाश्रमे क्षीणबलेन्द्रियाणामासन्नो धातुगतोऽपि वायुः ॥२॥प्राणोऽपानः समानश्च उदानो व्यान एव चएषां दोषाद्भवन्त्येते वातदोषाः । पृथक्पृथक् ॥३॥शिरःशूलं कर्णशूलं शङ्खशूलमसृग्गदःअर्द्धशीर्षविकारश्च दिनवृद्धिसमुद्भवः ॥४॥नासिकोपद्रवो वापि मन्यास्तम्भो हनुग्रहःजिह्वास्तम्भस्तालुशूलं तथा च तमकं भ्रमः ॥५॥तन्द्राश्वासगलाद्याश्च षोडशैते शिरोगताप्राण प्रकोपतो यान्ति पित्तेन सममीरिताः ॥६॥हिक्का श्वासः परिश्वासः कासः शोषार्त्तिर्घण्टिकाहृल्लासो हृदि शूलञ्च यकृद्वातादिका वमिः ॥७॥क्षवथुर्जृम्भणञ्चैव तथा वैस्वर्यपीनसःउरुचिश्च प्रतिश्याय एते प्रोक्ता उदानतः ॥८॥उदानः श्लेष्मसंयुक्तो दोषाद्धृदि प्रकुप्यति ॥९॥वक्ष्यामो व्यानको नाम मरुतस्य प्रकोपनम्वातः सर्वाङ्गको धातुविकारं कुरुते भृशम् ॥१०॥स च धातुगतो ज्ञेयस्तथा प्रोक्तः पृथक्पृथक्त्वग्वाते रोमहर्षश्च मन्या चांसाभूरेव च ॥११॥मांसगे शोथतोदश्च मेदःस्वस्थे च कम्पताभङ्गतास्थिगते वाते पतनं मज्जगे भवेत् ॥१२॥शुक्रगे सन्धिशोथश्च तस्मात्त्वग्वातलक्षणम्एतैर्धातुगतान्वातान्साध्यासाध्यान्निरोधयेत् ॥१३॥सन्त्यक्तमांसमेदःस्थो वायुः सिध्यति भेषजैःअन्ये कष्टेन सिध्यन्ति न सिध्यन्त्यथवा पुनः ॥१४॥लोमहर्षी भवेत्तोदो निद्रानाशोऽरुचिस्तमःगात्रं सूची च विध्येत भ्रमन्त्येव पिपीलिकाः ॥१५॥रूक्षत्वं त्वग्रसे नेत्रे कृशत्वं जायते पुनःगर्भरजसः शुक्रस्य नाशो भवति वेपथुः ॥१६॥मन्दाग्नित्वं च भवति स्वप्नानि च स पश्यतिनिद्रानाशः क्षोभयति सामान्यं वातलक्षणम् ॥१७॥मुहुराक्षेपयेद्गात्रं भेदस्तोदो बहुज्वरःस चैवाक्षेपको नाम जातो व्यानप्रकोपतः ॥१८॥धनुर्वन्नाम्यते गात्रमाक्षिपेच्च मुहुर्मुहुःप्रक्लिन्ननेत्रस्तब्धाक्षः कपोत इव कूजतितमाहुर्भिषजां श्रेष्ठा अपतन्त्रकनामतः ॥१९॥मतान्तरे वदन्त्यन्ये प्रह्वप्रतानको मतःगृहीतार्द्धं ततो वायुरप्रतानकः संस्मृतः ॥२०॥सोऽपि कफाश्रितो वायुः सम्पीडयति दण्डवत्स्तम्भयत्याशु गात्राणि सोऽपि दण्डाप्रतानकः ॥२१॥हृद्वक्षोजकरांगुलौगुल्फसन्धौ समाश्रितःस्नायुं प्रतानयेद्यस्तु सोऽपि स्नायुप्रतानकः ॥२२॥बाह्यानामथ नाडीनां प्रतानयति मारुतःकट्याश्रितो वा भवति सशल्यमिव कुर्वते ॥२३॥तमसाध्यं बुधाः प्राहुस्तञ्च वातं प्रतानकम्अन्यं चतुर्थमाक्षेपमभिघातसमुद्भवम् ॥२४॥अभिघातेन यो जातो न स साध्य प्रतानकःऊर्ध्वं तानयते यस्तु विशोषयति गात्रकम् ॥२५॥मोहतमः कृते वास्थिसन्धिसंशुष्कको मतःकृच्छ्रार्द्धकर्षं भवति शुष्कतां च प्रकुञ्चति ॥२६॥पृष्ठं प्रतानार्द्धं यो वै स तथैकाङ्गिको मतः ॥२७॥एकाङ्गपक्षघातश्च भवत्यन्यतमो यदिवातघ्नैरौषधैः सर्वैर्वायुः कष्टेन सिध्यति ॥२८॥तोदमूर्च्छा वेपनं स्याद्वेष्टदा स्पर्शनाज्ञतायस्तु नश्यति गात्राणि वायुस्तूनीतिशब्दितः ॥२९॥वेपनं तोदवेष्टत्वं स्पर्शनं वेत्ति यः पुनःप्रतूनयति गात्राणि प्रतितूनीति गद्यते ॥३०॥हृदिस्तम्भः पृष्ठस्तम्भ उरुस्तम्भश्च गृध्रसीपृथक्त्वेन च कथितमग्रे शृणुष्व कोविद ॥३१॥एते व्यानप्रकोपेन द्विषोडश प्रकीर्त्तिताः ॥३२॥शूलं गुल्म उदावर्त्त आध्मानोदावर्त्तमेव चपरिणामो विषमाग्निरजीर्णं वाति गुल्मकः ॥३३॥परिक्लेदी रसशेषो रसश्च मलवालकःबन्धी भेदी विलासी च षोडशैते समानतः ॥३४॥भगन्दरो बस्तिशूलो मेहार्शश्चातिकोठकःलिङ्गदोषौ गुदभ्रंशस्तथान्योगुदशूलकः ॥३५॥मूत्ररोधो विड्रोधश्च षोडशैते विजानताअपानस्य प्रकोपेन विज्ञेयास्तु प्रधानतः ॥३६॥एते विकाराः कथिताः विस्ताराश्च प्रकीर्त्तिताःदाहः सन्तापः शोषश्च मूर्च्छा पित्तान्वितो मरुत् ॥३७॥शैत्यं शोफारुचिर्जाड्यं वातश्लेष्मसमन्वितम्यो द्वन्द्वजाश्रितो धीर तं साध्यं मारुतं विदुः ॥३८॥केवलोऽपि समीरोऽपि सोऽपि साध्यतमः स्मृतः ॥३९॥वक्रं भवति वक्त्रार्द्धं ग्रीवाचाप्युपवर्त्त तेवैकृत्यं नयनानाञ्च विसङ्गो वेदनातुरःग्रीवायां गण्डयोर्दन्तपार्श्वे यस्यातिवेदना ॥४०॥तमर्दितमिति प्राहुर्वातव्याधिविचक्षणाः ॥४१॥लालास्रावोऽथ शोषश्च हनग्रहो विरस्यतादन्तशूलं भवेद्यस्य वातेनार्दितमेव च ॥४२॥पीताङ्गं सज्वरं तृष्णा पित्तजो मोह एव चशोफस्तम्भोऽस्य भवति कफोद्भूतेऽथवार्दिते ॥४३॥भाविनो लक्षणं यस्य वेपथुर्नेत्रमाविलम्क्षीणस्यानिमिषाक्षस्य प्रसक्ताव्यक्तभाषिणः ॥४४॥सिध्यत्यर्दितं गाढं विषमं चापि तस्य चकण्ठो घोरो भक्षणार्थं जृम्भा प्रस्तारिते मुखे ॥४५॥हनुस्तम्भो भवत्येते कृच्छ्रसाध्या भवन्ति हिविषमे वा दिवास्वप्ने विवर्तितनिरीक्षणे ॥४६॥मन्यास्तम्भं जनयति कृच्छ्रात्पार्श्वं विलोकतेवाग्वादिनीं शिरां रुद्ध्वा स्तम्भयेद्वसनानिलः ॥४७॥रक्ताश्रितोऽपि पवनः शिरोनाड्यां समाश्रितःशिरोऽर्त्ति कुरुते यस्तु सोऽप्यसाध्यः शिरोग्रहः ॥४८॥अतः प्रतिक्रियां वक्ष्ये यथा सिध्यति मारुतःस्नेहनं रूक्षणं कार्यं पाचनं शमनानि च ॥४९॥स्वेदनं मर्दनाभ्यङ्गो बस्तिस्नेहो निरूहणम्स्नायुसन्ध्यस्थिसम्प्राप्ते भेदनं कारयेत्सुधीः ॥५०॥माणिमन्थेन यन्त्रेण ततः सम्भूषयानिलम्अताध्यं शुक्रगे व्याने बोजवत्समुपाचरेत् ॥५१॥मुण्डी गुडूची बृहतीद्वयं च रास्ना समङ्गा क्वथितः कषायःसमुच्चितेनापि विमिश्रितं च दुग्धं दधि स्यान्नवनीतकञ्च ॥५२॥पचेत्सुधीमान्मृदुवह्निना च सिद्धं घृतं स्नेहनमेव पुंसाम्कर्षप्रमाणं विहितं च पाने चाभ्यञ्जके भोजनके तथैव ॥५३॥बस्तौ हितं स्नेहनमेव पुंसां सप्ताहकं वातविकारिणाञ्च ॥५४॥रास्नाविडङ्गरजनी सह नागरेण सौवीरकेण सुरसा सह सैन्धवेनसौष्णञ्च पानमिदमेव विरूक्षणञ्च स्यान्नृणाञ्चपञ्चदिनकर्षमात्रमेव ॥५५॥अतः स्यात्पाचनं सम्यक् दिनसप्तकमेव तत्पाचिते चैव दोषे च तस्मात्संशमनं ददेत् ॥५६॥वक्ष्यामि ते पुष्टिगते धमन्या समाश्रिते च बहुधाशनेनसंस्वेदश्च नाशयते समीरं सप्ताहकं चोष्णजलेन सेकः ॥५७॥रास्नात्रिकण्टकैरण्डशतपर्वा पुनर्नवाक्वाथो वातामयं हन्ति सर्वाङ्गगतमाशु च ॥५८॥रास्नागुडूचिकादारुनागरैरण्डसंयुतःक्वाथः सर्वाङ्गवातेऽपि समधातुगते हितः ॥५९॥रास्नाश्वगन्धाकाशीशं वचा च कपिकच्छुकम्क्वाथस्त्वेरण्डतैलेन पीतो हन्ति समीरणम् ॥६०॥रास्नाधान्यकशुण्ठी च यवानो दशमूलकम्क्वाथः पाचनके प्रोक्तो नरै वातविकारिणि ॥६१॥रास्नाद्यानि पावनानि हितानि कथितानि च ॥६२॥अर्द्धपलं रसोनञ्च हिंगुसैन्धवजीरकैःसौवर्चलेन संयुक्तं तथैव कटुकत्रिक्तम् ॥६३॥घृतेन संयुतं भक्षेन्मासमेकं दिने दिनेनिहन्ति वातरोगञ्च अर्दितं च प्रतानकम् ॥६४॥एकाङ्गरोगिणाञ्चापि तथा सर्वाङ्गरोगिणाम्ऊरुस्तम्भं क्रिमेर्दोषं गृध्रसीर्वापि कर्षति ॥६५॥पलार्द्धञ्च पलं चापि रसोनञ्च सुकुट्टितम्हिंगुजीरकसिन्धूत्थं सौवर्चलकटुत्रयम् ॥६६॥एभिः सञ्चूर्णितैः सर्वैस्तुल्लं तैलेन संयुतम्यथाग्नि भक्षयेत्प्रातः रुवुक्वाथानुपानवत् ॥६७॥मासमेकं प्रयोगेण सर्ववातामयाञ्जयेत्एकाङ्गं चैव सर्वाङ्गमूरुस्तम्भं च गृध्रसीः ॥६८॥कटिपृष्ठास्थिसन्धिस्थमर्दितं चापतन्त्रकम्ज्वरं धातुगतं जीर्णं नित्यञ्च सैकराह्वयम् ॥६९॥नागरा च हरिद्रा च कणाजाज्यजमोदिकावचा सैन्धवरास्ना च मधुकं समभागिकम् ॥७०॥श्लक्ष्णचूर्णं पिबेच्चैव सर्पिषा प्रत्यहं नरःएकविंशतिदिनैर्वा रोगान् हन्ति न संशयः ॥७१॥भवेच्छ्रुतिधरः श्रीमान् मेघदुन्दुभिनिस्वनःहन्ति वातामयेन् सर्वान् लेहो यश्च सुखावहः ॥७२॥शतावरी वचा शुण्ठी रास्ना कदरशल्लकीदशमूली बलाकिण्वस्तुम्बुरू च गुडूचिका ॥७३॥एष कल्को घृतैर्युक्तो हन्ति वातं शरोरगम् ॥७४॥शल्लकीचिक्कणीत्वचो क्वाथस्तैलेन संयुतः कुर्याद्वातार्दितं स्वस्थमेकविंशतिदिनैर्नरम् ॥७५॥अतोऽभ्यङ्गश्च कर्त्तव्यस्तैलैरपि घृतैरपिगुग्गुलञ्च रसोनञ्च कारयेद्विधिपूर्वकम् ॥७६॥भागाश्चाष्टौ बलामूलं चत्वारो दशमूलकम्क्वाथश्चतुर्गुणे तोयेऽथवा द्रोणस्य संख्यया ॥७७॥तत्राढकं क्षिपेत्क्षीरमाढकं मिश्रयेद्दधिकुलत्थाढकयूषं वै चाशु पर्युषितं क्षिपेत् ॥७८॥तैलं तिलानां द्रोणं तु कटाहे पाचयेच्छनैःजीवन्ती जीवनीया च काकल्यौ जीवकर्षभौ ॥७९॥मेदे द्वे सरलं दारु शल्लकश्च कुचन्दनम्कालीयकं सर्जरसं मञ्जिष्ठा त्रिसुगन्धिकम् ॥८०॥मांसी शैलेयकं कुष्ठं वचा कालाष्टशारिवाशतावरी चाश्वगन्धा शतपुष्पा पुनर्नवा ॥८१॥किण्वकं च सुरा मुस्ता तथा तालीसपत्रकम्कटुत्रयं वालुकौ च सर्वं तत्रैव मिश्रयेत् ॥८२॥सिद्धं सर्वगुणं श्रेष्ठं कृत्वा मङ्गलवाचनम्सौवर्णे राजते कुम्भे वाथवा मृण्मयायसे ॥८३॥प्रतप्तं धारयित्वा तु पानाभ्यङ्गे निरूहकेबस्तौ वापि प्रयोक्तव्यं मनुष्यस्य यथाबलम् ॥८४॥वातार्दितेऽथवा भग्ने भिन्ने वापि प्रदापयेत्या वन्ध्या च भवेन्नारी पुरुषाश्चाल्परेतसः ॥८५॥क्षीणो वा दुर्बलो वापि तथा जीर्णज्वरातुरःआमवातातुराणाञ्च तथा प्रक्षिप्य कञ्चटम् ॥८६॥प्रभाते च प्रयोक्तव्यं तथा शुष्के हनुग्रहेकर्णशूले चाक्षिशूले मन्यास्तम्भे च पार्श्वगे ॥८७॥सर्ववातविकाराणां हितं तैलं यथामृतम्हन्ति श्वासं च कासं च गुल्मार्शोग्रहणीगदम् ॥८८॥अष्टादशानि कुष्ठानि शीघ्रं वापि नियच्छतिग्रहभूतपिशाचाश्च डाकिनी शाकिनी तथा ॥८९॥दूरदेशे पलायन्ते बलातैलस्य दर्शनात्अपस्मारादिदोषांश्च तच्च दूरे नियच्छति ॥९०॥वृद्धा युवानो भवन्ति वन्ध्या च लभते सुतम्तैलं महाबलाद्यं च महावातहरं स्मृतम् ॥९१॥बलाक्वाथाढकं क्षिप्त्वा क्षिपेत्तत्राढकं दधिकुलत्थाढकयूषं तु सौवीरस्याढकं तथा ॥९२॥एकत्र कृत्वा विपचेद्योजयेदौषधञ्च तत्शतपुष्पा देवदारु पिप्पली गजपिप्पली ॥९३॥त्रिसुगन्धि सुरामांसी कुष्ठञ्च दशमूलकम्चूर्णकं निक्षिपेत्तत्र सिद्धं तदवतारयेत् ॥९४॥योज्यं पाने तथाभ्यङ्गे निरूहे नस्यकर्मणिहन्ति वातामयाशीतिं श्रेष्ठं गुणगुणात्मकम् ॥९५॥यथा महाबलं तैलं तथेदं गुणवर्द्धनम् ॥९६॥भृङ्गराजरसञ्चैव कटुतुम्बीरसं तथासौवीरकरसं चैव क्वाथं वै दशमूलकम् ॥९७॥माषकुल्माषयूषं च वाजं दधि समाश्रयेत्समांशकानि सर्वाणि तैलं चार्द्धं प्रयोजयेत् ॥९८॥मृद्वग्निना पाचनीयं सिद्धं चैवावतारयेत्अभ्यङ्गे च प्रयोक्तव्यं न पाने बस्तिकर्मणि ॥९९॥पूरणं कर्णरोगेषु शिरःशूले च दारुणेअर्द्धशीर्षविकारेषु भ्रुवः शङ्खाक्षिशूलके ॥१००॥तस्य योगेन मनुजः सुखमापद्यते द्रुतम्हन्ति कुष्ठं च पामानं त्वग्रोगोऽभ्यञ्जनेन तु ॥१०१॥शीघ्रं विनाशमायाति हन्त्यपस्मारमुत्कटम्न बस्तिशूलो भवति वामवाते श्रमः क्लमः ॥१०२॥आमपाकीति विज्ञेयो न कुर्यात्तस्य पाचनम्विरेचनं न कर्त्तव्यं स्तम्भनं तस्य कारयेत् ॥१०३॥कटिपृष्ठे वक्षोदेशे तोदनं बस्तिशूलतागुल्मवज्जठरं गर्जेत्तथान्ते शोफमेव च ॥१०४॥शिरोगुरुत्वं भवति वामे च पतति भृशम्सर्वाङ्गगो भवेत्सोऽपि विज्ञेयः सुविजानता ॥१०५॥तस्य च पाचनं कुर्याद्विरेचनं ततः परम्विष्टम्भी गुल्मपाकी च सर्वाङ्गगोऽन्यः प्रकीर्त्तितः ॥१०६॥विज्ञेयस्तत्र यः साध्यश्चान्यौ द्वौ कष्टसाध्यकौस्नेही वामश्च कथितः कृत्वापस्मारनिग्रहम् ॥१०७॥श्योनाकः पाटला बिल्वं तर्कारो पारिभद्रकम्अश्वगन्धा कण्टकारी प्रसारिणी पुनर्नवा ॥१०८॥श्वदंष्ट्रातिबला चैव बला च समभागिकोपादशेषं जलद्रोणे क्वथितं परिस्नावयेत् ॥१०९॥वाच्यमानानि योज्यानि भेषजानि भिषग्वरैः ॥११०॥शतपुष्पा वचा मांसी दारु शैलेयकं वरापतङ्गं चन्दनं कुष्ठं तथान्यं रक्तचन्दनम् ॥१११॥करञ्जबीजांशुमती त्रिसुगन्धि पुनर्नवारास्ना तुरङ्गगन्धा च सैन्धवं च दुरालभा ॥११२॥मिष्टासुरसा चैतत्तु प्रत्येकं तु पलद्वयम्चूर्णं कृत्वा क्षिपेत्तत्र क्षिपेल्लाक्षारसाढकम् ॥११३॥शतावरीरसं चैव अजाक्षीरं चतुर्गुणम्दधि तत्राढकं गव्यं तिलतैलं प्रयोजयेत् ॥११४॥सिद्धं तत्र प्रदृश्येत ततो मङ्गलवाचनम्प्रतिह्येनं प्रतिष्ठाप्य नारायणमिदं स्मृतम् ॥११५॥हन्ति वातविकारांश्च अपस्मारग्रहांस्तथाशिरोरोगान् कर्णरोगान् कुष्ठान्यष्टादशान्यपि ॥११६॥वन्ध्या च लभते पुत्रं षण्ढोऽपि पुरुषायतेकृशो युवायते मूर्खो विद्याराधनतत्परः ॥११७॥नारायणमिदं तैलं कृष्णात्रेयेण भाषितम् ॥११८॥अन्यानि घृततैलानि तानि चात्र प्रयोजयेत्एतेन जायते सौख्यं वातरोगं नियच्छति ॥११९॥इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने वातव्याधिचिकित्सा नाम विंशोऽध्यायः ॥२०॥ N/A References : N/A Last Updated : February 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP