तृतीयस्थानम् - दशमोऽध्यायः
हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.
अतिघर्मतया वापि तीक्ष्णोष्णकटुसेवनात्
क्षाराम्लसेवनाद्वापि मद्यपानादिसेवनात् ॥१॥
अतिव्यवायाच्छीतेन शुष्कशाकादिसेवनात्
एतैस्तु कुपितं पित्तं रक्तेन सह मूर्च्छितम् ॥२॥
पुत्रस्तु संशयापन्न पप्रच्छ पितरं पुनः ॥३॥
हारीत उवाच
कथं पित्तं प्रकुपितं केन वापि प्रचाल्यते
तद्वद्रक्तं प्रकुपितं जायते केन हेतुना ॥४॥
युगपद्दृश्यते केन कथं वापि प्रवर्त्तते
एवं पृष्टो महाचार्यः प्रोवाच मुनिपुङ्गवः ॥५॥
आत्रेय उवाच
शृणु प्राज्ञ महातेजश्चिकित्सागमपारग
येनैव कुप्यते पित्तं रक्तं तेनैव कुप्यते ॥६॥
तावत्प्रकुपिते कोष्ठे वायुर्दारयते भृशम्
ऊर्ध्मं च नयते प्राणश्चापानोऽपानमीरति ॥७॥
मध्ये समानः कुरुते रक्तपित्तस्य कोपनम्
एवं युगपत्पित्तञ्च रक्तेन सह कुप्यति ॥८॥
चतुर्द्धा दृश्यते कोपो गतिश्चास्य द्विधा मता
ऊर्ध्वश्लेष्मणि संसृष्टं नासास्ये कर्णरन्ध्रयोः ॥९॥
रक्तं प्रवर्त्तते यस्य साध्यास्तु विजिगीषुणा
अधोयातेन संसृष्टं गुदेनापि प्रवर्त्तते ॥१०॥
स ज्ञेयो रक्तपित्तस्तु कृच्छ्रेण सिद्धिमिच्छति
उभाभ्यामधऊर्ध्वाभ्यां वातश्लेष्मणि वर्त्तते ॥११॥
तमसाध्यं विजानीयात्कृच्छ्रेण यदि सिध्यति ॥१२॥
एकमार्गबलतो वा नाभिवेगेन चोत्थितः
रक्तपित्तः सुखेनापि साध्यः स्यान्निरुपद्रवः ॥१३॥
एकदोषानुगः साध्यो द्विदोषो याप्य उच्यते
असाध्यस्तु त्रिदोषेषु रक्तपित्तः प्रवर्त्तते ॥१४॥
ऊर्ध्वगरक्तपित्तेषु विरेकं कारयेत्सुधीः
अधोभागगते रक्ते तदास्य वमनं हितम् ॥१५॥
रोगक्षीणे छविरविकले हीनदौर्बल्यकाये
मन्दाग्निर्वा क्षवथुरथवा पाण्डुता दाहशोषः ।
तृष्णा छर्दिः श्वसनमधृतिर्भक्तविद्वेषमोहो
हृत्पीडा स्याद्भ्रममथ भवेद्रक्तपित्तोपसर्गात् ॥१६॥
अष्टादश इमे प्रोक्ता रक्तपित्तौपद्रवाः
उपद्रवैर्विना साध्योऽसाध्यः सोपद्रवस्तथा ॥१७॥
रक्तनिष्ठीवनोपेतो रक्तनेत्रो भ्रमातुरः
रक्तमूत्रश्च वमते रक्तमूत्री न जीवति ॥१८॥
एवं प्रोक्तो निदानार्थस्ततो वक्ष्यामि भेषजम्
सुलक्षणसमायुक्तं रक्तपित्तं सुखावहम् ॥१९॥
यस्यारुणं पवनफेनयुतं च तावत्पित्तातिकृष्णमथ पीतकुसुम्भकाभम्
पित्तेन पित्तमिति तं प्रवदन्ति धीराः सान्द्रं सपाण्डुरतिजं सघनं कफेन ॥२०॥
क्षीणमांसं कृशं वृद्धं बालं वा ज्वरपीडितम्
शोषमूर्च्छाभ्रमापन्नं नातिरेचनमाचरेत् ॥२१॥
निष्पीड्य वासारसमाददीत क्षौद्रेण खण्डेन युतं च पानम्
नासास्यकर्णे नयनप्रवृत्तं रक्तं तु शीघ्रं शमतां प्रयाति ॥२२॥
वासाकषायोत्पलमृत्प्रियंगुरोध्राञ्जनाम्भोरुहकेसराणि
पीत्वा समध्वा ससिता प्रयोज्या पित्ताश्रयं चैवमुदीर्णमाशु ॥२३॥
प्रविद्यमानं पिचुवासकेन कथं नरः सीदति रक्तपित्ते
क्षये च कासे श्वसनेऽपि यक्ष्मे वैद्याः कथं नातुरमादरन्ति ॥२४॥
भिषग्भिषजां माता वा पुरा कृत्य क्रिया यदि
क्रियायत्ते रक्तपित्ते क्षये कासे च सिद्धिदा ॥२५॥
वासायां विद्यमानायामाशायां जीवितस्य च
रक्तपित्ती क्षयी कासी किमर्थमवसीदति ॥२६॥
तालीसचूर्णं वृषपत्ररसेन युक्तं पेयं समारभ्य पुनः कफपित्तकासे
हन्ति भ्रमं श्वसनकासतासङ्करोत्थं भङ्गस्वरे त्वरितमाशु सुखं ददाति ॥२७॥
आटरूषकमृद्वीकापथ्याक्वाथः सशर्करः
क्षौद्राढ्यः श्वसनकासरक्तपित्तनिवारणः ॥२८॥
छागं पयो वा सुरभीपयो वा चतुर्गुणश्चापि जलेन कल्कः
सशर्करं पानमिदं प्रशस्तं सरक्तपित्तं विनिहन्ति चाशु ॥२९॥
बलाश्वदंष्ट्रामलकीफलानि द्राक्षा मधूकं मधुयष्टिकानाम्
सिद्धं पयः पानमिदं हितं स्यात्पित्ते सरक्ते मनुजस्य शान्त्यै ॥३०॥
खदिरस्य प्रियंगूनां कोविदारस्य शाल्मलेः
पुष्पचूर्णं तु मधुना लिह्यादारोग्यमस्तुते ॥३१॥
आटरूषकरसेन सप्तधा भाविता च पुनरेव शोषिता
पिप्पलीमधुसमन्विताभया रक्तपित्तमतिदुर्जयं जयेत् ॥३२॥
एलाफलानि सपद्मकनागकेशरं द्राक्षा घना मधुकपिप्पलिका समांशा
एषांसमांशसितशर्करयुक्तलेहः खर्जूरिका समभिहन्ति च रक्तपित्तम् ॥३३॥
दाहंज्वरार्त्तिश्वसनं च विमोहतृष्णां मूर्च्छांनिहन्ति रुधिरवमिजित्तथैव ॥३४॥
घ्राणे प्रवृत्तं रुधिरं यदि स्यात्तदा घृतेनामलकीफलानि
तोयेन पिष्ट्वा शिरसि प्रलेपः स रक्तपित्तं सहसा रुणाद्धि ॥३५॥
द्राक्षारसं वा घृतशर्कराढ्यं जलं सिताढ्यं च सरक्तपित्ते
यवान्न चैवेक्षुरसं सिताढ्यं क्षयं च कासं क्षतजं निहन्ति ॥३६॥
नस्यं विदध्याद्धरितालिकाया रसेन वालक्तरसेन वापि
स्याद्दाडिमस्य प्रसवोद्भवेन रसेन नस्यं रुधिरस्रुतेऽपि ॥३७॥
आम्रास्थिजम्बूद्भवशर्कराढ्यं नस्यं सिताढ्यं हितकृज्ज्वराणाम्
नासाप्रवृत्तं रुधिरं निहन्ति हिक्कासच्छर्दिश्वसनं विमर्दि ॥३८॥
पलाण्डुपत्रनिर्यासनस्यं नासाग्रजावहम्
यष्टीमधूमधुयुतं पश्चान्नस्येऽस्रजं जयेत् ॥३९॥
वासापत्ररसं विधाय मतिमान्योज्यानि चेमानि तु
रोध्रं चोत्पलमृत्तिकासमधुकं कुष्ठं प्रियङ्ग्वन्वितम्
चूर्णं पुष्परसेन पाचकमिदं पित्ताश्रयाणां हितं
कासकामलपाण्डुरोगक्षतजश्वासापमर्दि भवेत् ॥४०॥
रसो हितो दाडिमपुष्पकस्य तथैव किञ्जल्करसोत्पलस्य
लाक्षारसो वा पयसा च नस्याद् घ्राणप्रवृत्तं रुधिरं रुणद्धि ॥४१॥
यदि वदनपथेऽसृक्प्रवृत्ते तस्य कुर्यात्प्रतिविधिर्विहितः स्याद्वक्ष्यते मानुषस्य
भवति न सुखसाध्यं लोहितं मानुषेषु तदनुयुवतियोन्यां रक्तवाहस्त्वसाध्यः
॥४२॥
मधु मधुकमुशीरं कञ्जकिञ्जल्कदूर्वारसमिह परिपीतं दाडिमस्य प्रसूतम्
मलयजसितकुष्ठं पद्मकं चैव बालं मधु मधुकबालकौ कोद्रवौ द्वौ समन्तात्
॥४३॥
समसुरभिपयो वा धावनं तण्डुलानां परिकलितसमग्रं तुर्यभागेन योज्यम्
लघुतरमपि वह्नौ धावितं सिद्धमेव भवति वदनवृत्ते लोहिते पानमस्य ॥४४॥
श्रुति पथमपि रक्ते वा प्रवृत्ते तु नासं विहितमपि तदा स्यात्पूरणं कर्णनासे
रुधिरमभिरुणद्धि श्वासमाशु क्षतं वा श्वसितरुधिरच्छर्दि मेहमुन्मादरोगम् ॥४५॥
नासाप्रवृत्ते नस्यं स्यान्मुखे पानं विधेयकम्
कर्णे नेत्रे पूरणं च गुदमार्गे निरूहणम् ॥४६॥
दाडिमफलत्वचं वा चूर्णं लिह्यात्सितायुतम्
पद्मकिञ्जल्कचूर्णं वा लिह्याद्वा सितया पुनः ॥४७॥
मुखप्रवृत्तरुधिरं रुणद्ध्याशु वमिं क्लमम्
श्वासशोषौ भ्रमं तृष्णां नाशयत्याशु निश्चयः ॥४८॥
जम्ब्वाम्रपल्लवानि स्युर्हरीतक्या युतानि तु
मधुशर्करया युक्तमास्यलोहितवारणम् ॥४९॥
वटप्रबालार्जुनवृक्षकदम्ब जम्ब्वाम्रकाणां खदिरस्य वापि
यथाप्रपन्नो मधुनावलेह आस्यस्रजं वारयते क्षणेन ॥५०॥
शतावरी मधुकं बला च ससिता काकोलिका दाडिमा
मेदः क्षीरविदारिका च फलिनी स्यात्तिन्तिडीकं बला ।
सिद्धा गोपयसाज्यकं हितमिदं पाने तथा बस्तिषु
योनौ मेढ्रगुदप्रवृत्तरुधिरं हण्यात्सकासक्षयम् ॥५१॥
मृद्वीका मधुकं विदारिवसुधा नीली समङ्गाफला
काकोल्यो बृहती युगं वृषमहामेदासितं चन्दनम् ।
जातीपल्लवपटोलश्यामामृतासञ्जीवकाः साभया
मेदे द्वे च कुचन्दनं मधुरसाः श्यामाः समांशास्त्वमी ॥५२॥
पक्त्वा गोपयसा विशुद्धविधिना सिद्धं चतुर्थांशकं मत्स्यण्डी मधुकं च
सिद्धिमिति चेत्पानं प्रशस्तं नृणाम् ।
स्त्रीणां चापि हितं निहन्ति रुधिरं पित्ताद्गुदे वा भवेन्मेढ्रे चापि च रोमकूपकपथे वृत्तं निहन्त्यात्स्रजम् ॥५३॥
एतद्द्राक्षाभिधानं घृतमपि विहितं रक्तपित्ते ज्वरे वा वातास्रे योनिशूले भ्रममदशिरसोन्मादरक्तप्रमेहे ।
पित्ताम्लेऽतिकुष्ठे क्षयक्षतरुधिरे राजयक्ष्मेऽथ पाण्डौ पाने बस्तौ च नस्ये हितमपि मनुजां भाषितं चात्रिणा च ॥५४॥
छल्लिं निष्कृष्य कूष्माण्डखण्डानि प्रतिकल्पयेत्
काञ्जिकेनाशु धौतानि पुनरेव जलेन तु ॥५५॥
पश्चात्क्षीररसप्रस्थे कल्कयेत्पुनरेव च
घृतेन पुनरेवैतत्पाचयेत्सुविधानतः ॥५६॥
यदा मधुनिभानि स्युस्तदा शर्करया सह
निधाय तत्र चेमानि भेषजानि प्रकल्पयेत् ॥५७॥
पिप्पलीशृङ्गवेराभ्यां द्वे पले मरिचानि च
जीरके द्वे तथा धात्री त्वगेलापत्रकं तथा ॥५८॥
पलार्द्धेन वियुञ्जीयाच्चूर्णं तत्र विनिक्षिपेत्
दार्व्या विघट्टयेत्तावल्लेहीभूतं यदा भवेत् ॥५९॥
तदा मधुघृतेनापि लिह्याज्ज्ञात्वाबलाबलम्
रक्तपित्तं क्षयं कासं कामलं नैमिकं भ्रमम् ॥६०॥
छर्दितृष्णाज्वरश्वासपाण्डुरोगान् क्षतक्षयम्
अपस्मारं शिरोर्त्तिञ्च योनिशूलं च दारुणम् ॥६१॥
चिरं योनौ रक्तवाहं मन्दज्वरनिपीडनम्
वृद्धोऽपि च युवा कामी वन्ध्या भवति पुत्रिणी ॥६२॥
अवीर्यो वीर्यमाप्नोति भवेत्स्त्रीणां प्रियो नरः
एष कूष्माण्डको लेहः सर्वरोगनिवारणः ॥६३॥
सुस्निग्धकूष्माण्डकखण्डकानि पलानि पञ्चाशदथो सितायाः
युञ्ज्यात्सतोयं प्रणिधाय धीमान् घृतेन प्रस्थं परिपक्वमेव ॥६४॥
विज्ञाय पक्वं पुनरेव तत्र वासाकषायञ्च विमिश्रयेच्च
पश्चात्पचेद्यावत्तु दर्वीलेपो ज्ञात्वा तु चेमानि पुनर्वियुञ्ज्यात् ॥६५॥
धात्री घना च भार्ङ्गी च सुगन्धत्रयं च युञ्ज्यात्समस्तानि तानि कर्षमात्राम्
तस्मात्पुनर्नवा च नागरधान्यकानि एषां पलस्य तुलिता कथितानुमात्रा ॥६६॥
श्यामापलाष्टकमिदं विदधीत चूर्णं सङ्घट्टयेत्सकलमेव पुनस्तु दर्व्या
युञ्ज्यात्समं मधुयुतं सकलामयघ्नं कासं ज्वरं क्षतजमाशु निहन्ति हिक्काम् ॥६७॥
हृद्रोगपित्तरुधिरं क्षयपीनसं च पित्ताम्लकं विजयते श्वसनं च मूर्च्छाम्
स्त्रीणां हितं भवति बालकवृद्धकेषु श्रेष्ठं समस्तरुजनाशबलप्रदं च ॥६८॥
शतावरी मुण्डितिकामृता च फलात्वक्च पुष्करमूलभार्ङ्गी
वृषो बृहत्या खदिरं च मांशली पृथक्पृथक् पञ्चपलैकमात्रया ॥६९॥
उत्तार्य पक्वं जलमाशु पश्चाद्यावद्भवेच्छेषमथैव पूतम्
विमूर्च्छितं तत्र निधाय धीमान्पलं तथा द्वादशमाक्षिकस्य ॥७०॥
तथाशु चूर्णस्य च लोहकस्य विघट्टितं खण्डघृतेन तुल्यम्
देयं पलं षोडशकं विधिज्ञो विपाचयेल्लोहमये च पात्रे ॥७१॥
गुडेन तुल्योऽपि विभाति यावत्तुगा विडङ्गं मगधा च शुण्ठी
द्वे जीरके कण्टकं त्रिफलानां भृङ्गं धान्यमरिचं सकेसरम् ॥७२॥
पलेन मात्रां विदधीत पृथक् सुघट्टितं चूर्णमिदं घृतस्य
स्निग्धे कटाहे प्रणिधाय युञ्ज्यात्कर्षप्रमाणं विदधीत चूर्णम् ॥७३॥
प्रभातकाले सरोवारिपानं गुरूणि चाम्लानि च वातलानि
भगन्दरादिश्वयथून्निहन्ति रक्ताम्लकं वा श्वसनञ्च यक्ष्मिणम् ॥७४॥
विशोषणं कुष्ठरुजां च गुल्मान्बलप्रदं वृष्यतमं प्रदिष्टम्
स रक्तपित्तं सहसा निहन्ति योनिप्रभावं च सरक्तशूलम् ॥७५॥
रक्तातिसारं रुधिरप्रमेहं समेढ्रबस्तौ निहितं नराणाम्
सौभाग्यदं कान्तिकरं प्रदिष्टं तेजौजःपुष्टिं बलमातनोति ॥७६॥
रक्तातिसारे च प्रयोजनीयं रक्तप्रवाहे सरुजे सदाहे
फलत्रिकञ्च सविषा समङ्गा सपर्पटं दाडिमधातकीनाम् ॥७७॥
चूर्णं मधुशर्करया समेतं तथैव दध्ना सघृतं सलेहम्
रक्तातिसारं रुधिरप्रवाहं सततं स्त्रियश्च ॥७८॥
निवारयत्याशु हितं नराणां बालेऽतिसारे प्रशमाय योग्यम् ॥७९॥
योनिप्रवाहे मधुकं समङ्गा एलादलं निम्बदलानि पथ्या
मुस्ता विशाला कटुरोहिणी च कल्को हितः शर्करया युतोऽयम् ॥८०॥
योनिप्रवाहं विनिवारयेच्च सयोनिशूलं सरुजां तृषार्त्तिम्
एला समङ्गा सहशाल्मलीनां हरीतकी मागधिका समांशा ॥८१॥
क्वाथोदितः शर्करया समाध्व्या योनिप्रवाहं विनिवारयेच्च ॥८२॥
घर्मातपान्ते च विदाहि चाम्लं सौवीरकं वा कटुकं कषायम्
क्षारं सुरा वा परिवर्जनीयं सरक्तपित्ते मनुजे हिताय ॥८३॥
वास्तूकचिल्ली सुनिषण्णकञ्च जीवन्तिका वा शतपुष्पिका वा
शाका हिता रक्तमेव च पित्ते मुद्गास्तथा लोहिततण्डुलाश्च ॥८४॥
यवगोधूमचणकाः कोशातक्यः पटोलकम्
मुद्गा माषा हिताश्चैव रक्तपित्तनिवारणे ॥८५॥
हरिणशशकलावास्तित्तिरास्ते कुलिङ्गाः
ककेरा अपि मयूराः क्रौञ्चपारावतानाम्
पललमनिलपित्तबर्हणं वै हितञ्चेद्भवति बलममोधं सत्त्वतेजश्च कान्तिः ॥८६॥
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने रक्तपित्तचिकित्सा नाम दशमोऽध्यायः ॥१०॥
N/A
References : N/A
Last Updated : February 24, 2021
TOP