संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्|
चत्वारिंशोऽध्यायः

तृतीयस्थानम् - चत्वारिंशोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच
अतिभारातियोगेन अतितीक्ष्णोष्णभावतः
विनाभ्यङ्गेन वा शैत्यात्पित्तेनातिविशेषतः ॥१॥
क्रिमिदोषेण वा पुंसा जायते च शिरोगदः
वातरक्तकफात्पित्तात्पित्तेनापि विशेषतः ॥२॥
सन्निपातेन विज्ञेयाः क्रिमिजाश्च तथापरे
अर्द्धशीर्षविकारश्च दिनवृद्धिकरस्तथा ॥३॥
वातेन रात्रौ भवते व्यथा च अथातुरस्य व्यथते शिरश्च
सौख्यं लभेत्स्वेदनमर्दनेन वातेन सा विड्वृषणे रुजा वा ॥४॥
यस्योष्णमङ्गं भवते शिरस्यं घर्मे सतापे च दिने च रात्रौ
स धूमतो वा कटुको बलाशे शीतात्सुखं वा निशि स्वास्थ्यमेति ॥५॥
शीतात्सुखं वा प्रथमश्च तृष्णा सतीव्रपित्ताद्भवते रुजा च
सूर्योदये वा भवते दिनान्ते भ्रमश्च तृष्णा भवते सुतीव्रा ॥६॥
सजाड्यमुण्डं भवते च शीतं स्वेदेन युक्तं युगलञ्च नूनम्
सदृश्यनेत्रं नयते च तद्वा कफे यदीष्टः शिरसो विकारः ॥७॥
रक्तेन नासापुटकेऽपि जालं निरेति शेषा वदने च तृष्णा
रक्ताक्षमन्या जठरे च यस्य तमाहू रक्तोद्भवशीर्षरोगम् ॥८॥
मध्यं प्रदूष्य प्रतनोति पीता नाशापरिस्रावि सविड्जलञ्च
सजाड्यमोहश्वसनं च यस्य त्रिदोषरोधाद्भवते शिरोऽर्त्तिः ॥९॥
यस्यातिमात्रं शिरसि प्रतोदो विभज्यमानेऽपि च मस्तकान्ते
घ्राणे परिस्रावि सरक्तपूयं क्रिमिप्रसूता च शिरोव्यथा च ॥१०॥
क्रोधाच्छोकाद्भवेच्चान्या व्यायामेऽतिश्रमेषु च
सा वातेन शिरः पीडा सरुजे च नृणामपि ॥११॥
अतिलेखनपाठेन तथा सूक्ष्मान्निरीक्षणात्
दूरदृष्टेक्षणेनापि वेदना वातरक्तजा ॥१२॥
नासिकार्द्धे व्यथा तस्य व्यथा भ्रूयुगले भवेत्
नीलं कृष्णञ्च पश्येत वेदना मस्तके भवेत् ॥१३॥
न रक्तेन विना पित्तं रक्तं पित्तेन चाल्यते
न पीत्तेन शिरोऽर्त्तिः स्यात्पित्तं वातेन चाल्यते ॥१४॥
तस्माद्वक्ष्याम्युपचारं शृणु भेषजलक्षणम्
स्वेदः प्रलेपनं नस्यं पानाभ्यङ्गञ्च मर्दनम् ॥१५॥
स्वेदनं वातकफजे चाभिघाते तथा पुनः
पित्तजे रक्तजे वापि न कुर्यात्स्वेदनं तयोः ॥१६॥
रक्तजे च शिरा वेध्या पित्तजे वापि कुत्रचित्
कोकिलाख्या च तर्कारि कटुका निम्बपत्रकैः ॥१७॥
शोभाञ्जनकपुत्रैस्तु क्वाथं वा तेन स्वेदयेत्
अमीषाञ्च प्रलेपेन सौख्यं चास्य प्रजायते ॥१८॥
संशीतपरिषेकैश्च यष्टीमधुकचन्दनैः
केसरैर्मातुलुङ्गैश्च पित्तजे शीतलेपनम् ॥१९॥
कदम्बार्जुनसिन्धुश्च लेपनार्थे भिषग्वर
गुडेन नागरा वापि पथ्यां वापि गुडेन वा ॥२०॥
गुडशोभाञ्जनरसैर्नस्ययोगात्पृथक्पृथक्
नस्येन बस्तमूत्रेण शिरोऽर्त्तिश्चोपशाम्यति ॥२१॥
मरिचं पथ्या कट्फलं मूत्रेणोष्णोदकेन वा
नस्यं कफोद्भवे घोरे शिरोरोगे भिषग्वर ॥२२॥
वचामधुकसारं वा मूलं वा गिरिकर्णिका
नस्यप्रयोगे विहितं सन्निपाते शिरोगदे ॥२३॥
वन्ध्याकर्कटकीमूलं पिष्टमूष्णेन वारिणा
मितं नस्ये प्रयुञ्जीत क्रिमिजे च शिरोगदे ॥२४॥
मृङ्गराजरसं चैकं द्विभागं काञ्जिकेन च
शोभाञ्जनं भागत्रयं सर्वं तत्र विनिक्षिपेत् ॥२५॥
सौवीरकरसं पञ्च षड्भागं तुम्बिकारसम्
शुण्ठी सैन्धवमम्लीका पटोलं वासकं शिवा ॥२६॥
अभया सुरसा चैव तैलञ्च चतुरंशकम्
पाचितं तत्तु नस्येन योजयेच्च षड्बिन्दुकम् ॥२७॥
तथैव मस्तकाभ्यङ्गे हितं स्यात्कर्णपूरके
हितं वातादिजेरोगे शिरोऽर्त्तौ क्रिमिजे तथा ॥२८॥
करञ्जबीजस्य विभीतकानां पुटेन तैलं परिस्रुत्य धीमन्
बिन्दुत्रयं नस्यविधौ प्रयोज्यं जघान कुष्ठं क्रिमिजं विकारम् ॥२९॥
कुष्ठं च यष्टीमधुकं च नीत्वा पटोलजातीसुरसारसञ्च
विपाचितं तन्नवनीतकञ्च घृतेन नूनं च सरक्तपित्ते ॥३०॥
सशर्करायुक्तमिदं दिवा च गव्यं प्रवृद्धप्रभवे च दोषे ॥३१॥
लाक्षारसं चन्दनयष्टिकानां पटोलधात्रीफलशर्कराणाम्
दधि सदुग्धं नवनीतकञ्च विपाचिते नस्यविधौ प्रयुज्यते ॥३२॥
भ्रूदोषशङ्खक्षतज क्षये वा दिनादिवृद्ध्या प्रभवेऽपि दोषे ॥३३॥
कुंकुमं यष्टिमधुकं कुष्ठं च शर्करासमम्
पक्वञ्च नवनीतेन घृतं नस्ये प्रयोजयेत् ॥३४॥
नश्यन्ति पित्तजा रोगा दिनवृद्ध्योपवर्जनात्
अर्द्धशीर्षविकारश्च प्रशमं याति सत्वरम् ॥३५॥

इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने शिरोरोगचिकित्सा नाम चत्वारिंशोऽध्यायः ॥४०॥

N/A

References : N/A
Last Updated : February 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP