संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्|
सप्तमोऽध्यायः

तृतीयस्थानम् - सप्तमोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच
व्यायामपाननिशिजागरणव्यवायशोकातिभारगतिधावनकश्रमेण
वैषम्यपानशयनेन च भोजनेन शीतेन वायुः कुपितः प्रकरोति बलम् ॥१॥
विष्टम्भिरूक्षयवमाषकलायमुद्गनिष्पावकास्त्रिपुटकोद्रवका मसूरः
गोधूमक्षुद्रकफरूक्षविभोजनेन चैतच्च पानमलरोधनमूत्ररोधैः ॥२॥
वायुस्त्वधोगतपथं प्रविरुह्य मूलं वातात्मको भवति चान्तरवह्निमांश्च
तस्मादिति प्रबलताकुपितः प्रकोष्ठे शूलं करोति गुद मार्गनिरोधितेऽपि ॥३॥
गात्रेऽपि तोदविरतिर्मलिनातिदीना वातार्त्तिपीडितनरस्य महामते स्यात् ॥४॥
क्रोधातपादनलसेवनहेतुना च शोकाद्भयार्त्तिगतिधावनधर्मयोगाम्
क्षाराम्लमद्यकटुकोष्णविदाहिरूक्षसौवीरशुष्कपललेखन राजिकाभिः ॥५॥
सङ्कुप्यतेऽनिलसमीरितं तत्तु पित्तं शूलं करोति जठरे मनुजस्य तीव्रम्
तेनाङ्गदाहारतिधर्मतृषार्त्तिमूर्च्छा नाभ्यन्तरे दहति दोषः सपीततास्ये ॥६॥
अव्यायामेऽस्निग्धसंसेवतेन लौल्याहारे चेक्षुतैलपयोभिः
अल्पाहारे निद्रया सेवनैस्तु योगैरेतैः कोपयेच्छ्लेष्मकस्तु ॥७॥
माषातिशीतलपयोदधिभिःसुशीतैर्मत्स्यैस्त्वनूपपललैरतिसेवितैस्तु
श्लेष्मा भृशं शमयतेऽनलमाशु शूलं कोष्ठे करोति मनुजस्य विकारमुग्रम् ॥८॥
हृल्लासकासवमिजाड्यशिरोगुरुत्वं स्तैमित्य शीतलतनूरुचिबन्धनं च
भुक्तप्रसेकमधुरास्यं तथाभिरामं स्निग्धं मुखं भवति यस्य कफात्मकोऽसौ ॥९॥
श्लेष्मा भवत्येव भवन्ति यस्य चिह्नानि स भवति च सशूलः
सपैत्तिकानीव भवन्ति यस्य तमाहुरजीर्णेऽपि नराः सशूलम् ॥१०॥
हृत्कण्ठपार्श्वे कफः पैत्तिकस्तु हृन्नाभिमध्ये कफपित्तशूलः
बस्तौ च नाभौ दधतःप्रदेशे विलोलमानः स तु वातपित्तात् ॥११॥
एकोऽपि सुखसाध्योऽसौ द्वन्द्वः कष्टेन सिध्यति
त्रिदोषजस्त्वसाध्यस्तु बहूपद्रवसंयुतः ॥१२॥
निदानैः कुपितो वायुर्वर्त्तते जठरान्तरे
तेनेति संज्ञा दश स्युः शूलस्य परिगीयते ॥१३॥
त्रयो वातादिका ज्ञेया द्वन्द्वजास्तु पुनस्त्रयः
सामनिरामकौ द्वौ च शूलाश्चाष्टाविमे स्मृताः ॥१४॥
अजीर्णान्नवमः प्रोक्तो दशमः परिणामजः
एवं दशप्रकारेण शूलं सम्भवते नृणाम् ॥१५॥
भुक्तोपरि भवेद्यस्तु सोऽपि ज्ञेयः कफात्मकः
जीर्णेऽन्ने च भवेद्यस्तु स ज्ञेयः परिणामजः ॥१६॥
आध्मानमूर्ध्वं च विबन्धनं च जृम्भा तथा वेपथुमार्जनं च
उद्गीरणं स्निग्धमुखातिजिह्वा वातेन शूलं भजते विधिज्ञः ॥१७॥
दाहो रतिर्मोहस्तथैव तृष्णा कृच्छ्रेण मूत्रं कटुकास्थता च
स्वेदाति शोषो वदनं च पीतं पित्तात्मकोऽसौ प्रवदन्ति धीराः १८॥
छर्दिस्तथा कासबलासमोह आलस्यतन्द्रा जडतातिशैत्यम्
कफात्मकं तद्भिषजां वरिष्ठ शूलं भवेद्द्वन्द्वजरोगसंज्ञम् ॥१९॥
त्रिभिस्तु दोषैस्तु त्रिदोषजः स्याद्रक्तेन चैकादश एवमुक्तः
पित्तात्मकानि प्रभवन्ति यस्य चिह्नानि यस्यासृगछर्दनं च २॥०॥
शोषस्तृषा दाहस्तथैव कासः श्वासेन रक्तप्रभवोऽतिशूलः ॥२१॥
विना वातेन नो शूलं विना पित्तेन नो भ्रमः
न कफेन विना छर्दिर्न रक्तेन विना तमः ॥२२॥
इति शुलपरिज्ञानमतो वक्ष्यामि भेषजम्
येन शूलार्त्तिशमनं शूली संपद्यते सुखम् ॥२३॥
दृष्ट्वा शूलं लङ्घनं पाचनं च विरेचनं वान्तिसंस्वेदनं वा
क्षारं चूर्णं चार्पयेच्छूलशान्त्यै पानाभ्यङ्गाल्कासमाने मनुष्ये ॥२४॥
हिंगु नागरशठीसुवर्चलं दारुपौष्करघनापुनर्नवाः
क्वाथपानमिति शूलिनां हितं पाचनं जठरगुल्मिनामपि ॥२५॥
हिंगु पौष्करशठीसुवर्चलं क्वाथमेवमपि शूलिनां हितम्
वातशूलशमनाय शस्यते पाचनं निगदितं च वर्त्तते ॥२६॥
सिन्धूत्थहिंगु रुचकं च शठी यवानी पथ्यायवक्षारसमं विचूर्णम्
देयं सुखोष्णेन निहन्ति शूलं वातात्मकं वाप्यचिरेण शूलम् ॥२७॥
हिंगु सौवर्चलं पथ्या यवानी सपुनर्नवा
बलैरण्डो बृहत्यौ द्वे तुवरं त्र्यूषणान्वितम् ॥२८॥
क्षारसौवर्चलोपेतं क्वाथो वा चूर्णितस्तथा
सद्यो वातात्मकं शूलं हन्ति सद्यो विषूचिकाम् ॥२९॥
तुम्बुरुपौष्करहिंगु यवानी त्र्यूषञ्च वा त्रिबृहतीगुणेन
युक्तमिदं लवणाष्टकचूर्णं भवति शूलनिवारणक्षमम् ॥३०॥
क्वाथो निहन्ति मरुतोद्भवशूलसङ्घानेरण्डनागरसुवर्चलरामठेन
पथ्यावचेन्द्रयवनागरतोययुक्तं हिंगु सुवर्चलयुतं च निहन्ति शूलम् ॥३१॥
हिंगु नागरषड्ग्रन्था यवानी उभया त्रिवृत्
विडङ्गं दारु चव्यञ्च तुम्बुरुकुष्ठमुस्तकाः ॥३२॥
हपुषा कलशी रास्ना वत्सका सदुरालभा
सितारवी बृहत्यौ च लाङ्गली पञ्चजीरकम् ॥३३॥
पुष्करं तिन्तिडीकं च वृक्षाम्लं चाम्लवेतसम्
द्वौ क्षारौ पञ्चलवणं समं चैकत्र मिश्रयेत् ॥३४॥
मूत्रेण भावनाञ्चैकां दत्वा छायाविशोषिताम्
बीजपूरक तोयेन भावयेच्च दिनत्रयम् ॥३५॥
बिडालपदिकां मात्रां युञ्जीत शूलशान्तये
वातेनोष्णोदकेनापि सितशर्करयान्वितः ॥३६॥
त्रिफला क्वाथो मद्येन श्लेष्मरोगे प्रशस्यते
शूलानाहविबन्धानां मन्दाग्नौ गुल्मविद्रधीन् ॥३७॥
प्लीहोदराणाञ्च पाण्डुज्वरिणां च विशेषतः
निहन्ति देहसङ्घातं मेघवृन्दं मरुद्यथा ॥३८॥
धात्रीफलं लोहरजश्च पथ्या त्र्यूषं समांशेन विभाव्य तं तु
रसेन वा दाडिममातुलुङ्ग्याश्चूर्णं सिताढ्यं च सपित्तशूले ॥३९॥
बिडालकं दाडिमपूतनां च धात्रीसमेतं विदधीत चूर्णम्
तन्मातुलुङ्गस्य रसेन भावितं सपित्तशूलशमनाय भक्षेत् ॥४०॥
जीवन्त्याद्यं घृतं पाने क्षीरं वापि सितान्वितम्
कर्त्तव्यं रेचनं नित्यं पित्तशूलनिवारणम् ॥४१॥
शिशिरसरसतोयागाहनं चन्दनानि विशदपुटितमध्ये स्वापनं वै निशासु
कनकरजतकांस्याम्भोजहैमं तुषारं कृतमिति विधिना वै पैत्तिके मूलहेतोः ॥४२॥
सितशाल्योद्भवा लाजाः सितामधुयुतं पयः
दाहं पित्तज्वरं छर्दि सद्यः शूलं निहन्ति च ॥४३॥
जाङ्गलानि च मांसानि भोजनार्थे प्रशस्यते
घृतं क्षीरं समधुरं प्रशस्तं पित्तशूलिनाम् ॥४४॥
लङ्घनं वमनं चैव पाचनं श्लेष्मशूलिनाम्
न घनातिमधुराणि शयनं च विधेयकम् ॥४५॥
बिल्वाग्निमन्थवृषचित्रकनागराश्च एरण्डहिंगु सहसैन्धवकं समाशम्
क्वाथो निहन्ति कफजोद्भवसद्यः शूलं सद्यो निहन्ति जठरानलवर्द्धनं च ॥४६॥
मातुलुङ्गरसं धात्रीरसं सैन्धवसंयुतम्
शोभाञ्जनकमूलस्य रसं च मरिचान्वितम् ॥४७॥
सक्षारमधुनोपेतं श्लेष्मशूलनिवारणम्
कृतक्षयोद्भवं कासं नाशयत्याश्वसंशयम् ॥४८॥
तुवरं ग्रन्थिकैरण्डा व्योषं पथ्याजमोदकम्
सक्षारलवणोपेतं चूर्णं शूले कफात्मके ॥४९॥
एरण्डबिल्वबृहतीद्वयमातुलुङ्गं पाषाणभित्त्रिकटुमूलकृतः कषायः
सक्षारहिंगुलवणोपेततैलमिश्रं श्रोण्यंसमेढ्रहृदयस्तनकुक्षिदेयम् ॥५०॥
पटोलारिष्टपत्राणि त्रिफलासंयुतानि च
क्वाथमधुयुतं पानं शूले पैत्ते समीरणे ॥५१॥
पित्तज्वरतृषादाहरक्तपित्तनिवारणम् ॥५२॥
दुरालभा पर्पटकं च विश्वा पटोलनिम्बाम्बुदतिन्तिडीकम्
सशर्करं कल्कमिदं प्रयोज्यं सपित्तवातोद्भवशूलशान्त्यै ॥५३॥
सौवर्चलं समशठी सहनागरा च शुण्ठीयुतेन क्वथितेन जलेन चूर्णम्
पीतं निहन्ति मरुतायुतश्लैष्मिकाणां पार्श्वातिशूलजठरानलहृत्प्रशस्तम् ॥५४॥
दारु नागरकं वासा हिंगु सौवर्चलान्वितम्
क्वाथो वातकफे शूले आमे जीर्णे विबन्धके ॥५५॥
पलाशकदलीवासापामार्गकोकिलाह्वयम्
गोमूत्रेण श्रितं तत्तु हिंगुनागरसंयुतम् ॥५६॥
हितं त्रिदोषजे शूले कामलाविड्विबन्धके
गुल्मोदराणां शमनं मन्दाग्नीनां नियच्छति ॥५७॥
एक एव कुबेराक्षः सर्व शूलापहारकः
किं पुनः स त्रिभिर्युक्तः पथ्यारुचिकरामठैः ॥५८॥
शङ्खक्षारं च लवणं हिंगुव्योषसमन्वितम्
उष्णोदकेन तत्पीतं हन्ति शूलं त्रिदोषजम् ॥५९॥
लङ्घनं वमनं चैव विरेकश्चानुवासनम्
निरूहो बस्तिकर्माणि परिणामे त्रिदोषजे ॥६०॥
चित्रकं त्रिवृता दन्तो विडङ्गं कटुकत्रयम्
समं चूर्णं गुडेनाथ कारयेन्मोदकान्सुधीः ॥६१॥
भक्षयेत्प्रातरुत्थाय पश्चादुष्णोदकं पिबेत्
परिणामोद्भवं शूलं हन्ति शूलं नरस्य च ॥६२॥
यवानी हिंगु सिन्धूत्थक्षारं सौवर्चलाभया
सुराभाण्डेन पातव्या परिणामे त्रिदोषजे ॥६३॥
हिंगुव्योषवचाजमोदहपुषा पथ्या यवानी शठी
जाजीपिप्पलिमूलदाडिमवृकीचव्याग्निकं तिन्तिडी ।
तस्माच्चाम्लसुवर्चलेपि च यवक्षारं तथा सर्जिका
सिन्धूत्थं विडचूर्णकं समकृतं स्याद्बीजपूरे रसे ॥६४॥
कुर्याच्चूर्णगुटीं समक्षफलदामक्षप्रमाणामिमां
कल्को वातविकारिणां प्रददतः शूलार्शसत्प्लीहकान् ।
कासानाहविबन्धमेहहृदयशूलं निहन्त्याशुवै ॥६५॥
एष हिंग्वादिको नाम सर्वशूलार्त्तिनाशनः
सर्ववातविकारघ्नः सर्वक्षयनिवारणः ॥६६॥
अतीसारस्तृषा मूर्च्छा अनाहो गौरवोऽरुचिः
श्वासकासौ वमिर्हिक्का शूलस्यौपद्रवा दश ॥६७॥
शूलं सोपद्रवं तृष्णां भिषग्दूरे परित्यजेत्
अनुपद्रवे श्रिया प्रोक्ता भिषजां सिद्धिमिच्छता ॥६८॥
वर्जयेद्द्विदलं शूली तथा सघनशीतलम्
पिच्छलं च दधि चैव दिवानिद्रां च वर्जयेत् ॥६९॥
शालिषष्टिकसिन्धूत्थहिंगुसौवीरकं तथा
सुरा वा गुडशुण्ठी वा पाने श्रेष्ठा भिषग्वर ॥७०॥
शतपुष्पावास्तुकं च हितं प्रोक्तं प्रशस्यते ॥७१॥
एणतित्तिरिलावाश्च क्रौञ्चशशकसारसाः
एषां मांसानि शस्तानि कथितानि भिषग्वर ॥७२॥

इति आत्रेय भाषितेहारीतोत्तरे तृतीयस्थाने शूलचिकित्सा नाम सप्तमोऽध्यायः ॥७॥

N/A

References : N/A
Last Updated : February 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP