तृतीयस्थानम् - पञ्चचत्वारिंशोऽध्यायः
हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.
आत्रेय उवाच उष्णातिक्षारकटुकैरभिघातेन वा पुनः सूक्ष्म वस्त्रेक्षणेनापि दोषाः कुप्यन्ति नेत्रजाः ॥१॥
सहजा ये पराजेया वक्ष्यामि शृणु लक्षणम् रूक्षः कण्डुश्च तोदश्च शुष्कशीतास्रसन्ततिः ॥२॥
वातिकं तं विजानीयात्पैत्तिकं शृण्वतः परम् ॥३॥
सरक्ते सदाहे नेत्रे उष्णस्रावश्च पैत्तिके शोफकण्डू सन्निपाते शीतजाड्ये कफात्मके ॥४॥
द्वन्द्वजो मिश्रलिङ्गैश्च सर्वैस्तैः सान्निपातिके एतद्धि लक्षणं ज्ञात्वा चोपचारं शृणुष्व मे ॥५॥
शुण्ठीसुराह्वसुरसाः सह काञ्जिकेन चोष्णेन धावनमिदं सह पैत्तिके च श्लेष्मोद्भवे त्रिफलकल्कमिदं समूत्रं प्रशस्तमन्यैः कथितं भिषग्वरैस्तथा ॥६॥
शुण्ठी सठी च रजनी त्रिफला सनिम्बा पत्राणि सैन्धवयुतानि तुषाम्लकेन शस्तं वदन्ति नयनेषु ससन्निपाते रक्तोद्भवे च सरुजे च तथाच शस्तम् ॥७॥ फलत्रिकं चारुनिशासु धूमो वचासु वर्षाभवसैन्धवेन प्रलेपनं श्लेष्मभवे विकारे सवातिके वा हितमेव शस्तम् ॥८॥
शुण्ठीसैन्धवतक्रेण ताम्रभाण्डे विघर्षितम् अपामार्गस्य मूलं वा मूलं धत्तूरकस्य वा ॥९॥
अञ्जनञ्च हितं तेषां वातनेत्रामयापहम् ॥१०॥
दुग्धोत्पन्नं नवनीतं यष्टी निम्बस्तिलाश्च संयोज्याः त्रिफला गुडसंयुक्ता लेपनं कफनेत्रजरोगघ्नम् ॥११॥
शुण्ठी सैन्धवतुत्थं मागधिका ताम्रभोजने घृष्टम् दध्ना घृतेनाञ्जनकं निहन्ति सर्वांश्च नेत्रगदान् ॥१२॥
वातपित्तकफदोषसम्भवान्नेत्रयोर्बहुव्यथां हरते क्षणात् एक एव हरति प्रयोजितः शिग्रुपल्लवरसः स माक्षिकः ॥१३॥
मिथ्याहारविहारैस्तु नेत्रे पुष्पञ्च जायते प्रथमं सुखसाध्यं स्याद्द्वितीयं कष्टसाध्यकम् ॥१४॥
तृतीयं शस्त्रसाध्यं तु चतुर्थं तदसाध्यकम् ॥१५॥
शङ्खपुष्पं तथा रोध्रं शङ्खनाभिर्मनःशिला काञ्जिकेन तु सम्पिष्टा छायाशुष्का भिषग्वर ॥१६॥
वातिके काञ्जिकेनापि पैत्तिके पयसा हिता श्लेष्मले मूत्रसंयुक्ता पुष्पस्याञ्जनके हिता ॥१७॥
भृङ्गराजरसेनापि त्रिदोषशमने हिता हरीतकी वचा कुष्ठं पिप्पली मरिचानि च ॥१८॥
विभीतकस्य मज्जा वा शङ्खनाभिर्मनःशिला एतानि समभागानि अजाक्षीरेण पेषयेत् ॥१९॥
नाशयेत्तिमिरं कण्डूपाटलान्यर्बुदानि च हन्ति पुष्पं सपटलं रात्र्यान्ध्यञ्च नियच्छति ॥२०॥
क्षताभिघाति शोकेन अग्निदग्धं च वा पुनः काचञ्च नीलिका चैव सिद्धिमिच्छन्ति नेत्रयोः ॥२१॥
बाल्याद्दोषबलादेवदुष्टाहाराभिषेवणात् वार्द्धक्याच्च पटलं स्यात्तस्य वक्ष्यामि लक्षणम् ॥२२॥
वातात्सकश्मलं रूक्षं पित्तान्नीलं च पीतकम् कफेन शुभ्रं सघनं रक्तेनारक्तकं विदुः ॥२३॥
सन्निपातादिलिङ्गैश्च अतो वक्ष्यामि भेषजम् ॥२४॥
शुण्ठीवचारजनितुत्थमनःशिला च शोभाञ्जनाञ्जनविशालजटा च शङ्खम् वास्तूकमूलमधुसैन्धवकट्फलानां सौवीरकेण परिमर्दनवर्तिरेषा ॥२५॥ छायाविशुष्कनयनाञ्जनके प्रशस्तं नाशं नयेत्पटलनेत्रजरोगसङ्घान् ॥२६॥
साञ्जना सकट्फलका हरीतकी मनःशिला गुडेन कट्फलञ्चापि निहन्ति नेत्रप्रच्छदम् ॥२७॥
महाविभीतकफलस्य च शङ्खनाभि घृष्टं ससैन्धवयुतं पयसाम्लकेन वर्तिर्गुडेन नयनाञ्जनके हिता च पित्तप्रसूतपटलस्य निवारणञ्च ॥२८॥
स धूमञ्च सवातञ्च रूक्षमुष्णादिकं तथा कटुकाम्लं व्यवायञ्च वर्जयेन्नेत्ररोगिणाम् ॥२९॥
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने नेत्ररोगचिकित्सा नाम पञ्चचत्वारिंशोऽध्यायः ॥४५॥
N/A
References : N/A
Last Updated : February 24, 2021
TOP