तृतीयस्थानम् - प्रथमोऽध्यायः
हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.
आत्रेय उवाच
अथातः सम्प्रवक्ष्यामि रोगसङ्करकारणम्
श्रमाद्व्यायामरोधाद्वा चिन्ताशोकभयादपि ॥१॥
क्रोधादौषधगन्धेन क्षयाद्घातोर्विशेषतः
उदीर्य कोष्टादग्निञ्च रक्तपित्तं तथा बहिः
त्वचाश्रितञ्च सम्भूय ज्वरं तस्मात्करोति हि ॥२॥
उक्तहेतुर्ज्वरो वापि ज्वरान्मन्दज्वरो भवेत् ॥३॥
मन्दान्मन्दतमो ज्ञेयस्तस्मादम्लातिसेवनात्
जायते कामलस्तस्मात्प्ररूढे स्याद्धलीमकम् ॥४॥
हलीमकाद्भवेत्पाण्डुस्तस्माद्यस्मात्प्रकीर्त्तिताः
यक्ष्मणो जायते शोफः शोफादुदरमेव च ॥५॥
तस्माद्गुल्मञ्च वाताद्यं गुल्माच्छ्वासोऽथशूलिता
मन्दाग्नित्वं भवेत्तस्मात्स्वरभेदोऽथ रोधनः ॥६॥
एतेषां सर्वरोगाणामुत्पत्तिः स्याज्ज्वरेण तु
ज्वरेण मृत्युर्विज्ञेयो न मृत्युः स्याज्ज्वरं विना ॥७॥
शृणु भेषजरोगज्ञ द्वितीयं रोगसङ्करम्
मन्दज्वरो भवेन्नॄणामतीसारस्ततो ज्वरः ॥८॥
तेन चापि भवेद्धिक्का शोषो मोहो भ्रमोऽरुचिः
एतेषां शोफतो मृत्युस्तृतीयः कथ्यतेऽधुना ॥९॥
दिवास्वप्नादिदोषैर्वा प्रतिश्यायश्च जायते
तस्मात्कासः समुद्दिष्टः कासात्पीनस एव च ॥१०॥
तस्मात्क्षयः क्षयाच्छोफो शोफेनाऽपि मृतिं व्रजेत्
ज्वरः क्षयश्च यक्ष्मा च कुष्ठगुल्मार्शसंग्रहाः ॥११॥
शर्करा मेह उन्माद अपस्मारो भगन्दरः
एते महाघोरतरा याप्यं कुर्वन्ति मानवम् ॥१२॥
वातपित्तादयो दोषास्तथा श्लैष्मसमुद्भवाः
जायन्ते व्याधयः सर्वे तेषां वक्ष्याम्युपक्रमम् ॥१३॥
वातः पचति सप्ताहात्त्रिरात्रात्पित्तमेव च
श्लेष्मा सार्द्धदिनेनापि विपचेद्भिषजां वर ॥१४॥
द्वन्द्वजं वातपित्तञ्च नवरात्रेण पच्यते
श्लेष्मवातौ दशाहेन पञ्चाहात्पित्तश्लैष्मिकम् ॥१५॥
शमनाय च द्वन्द्वानां तुर्याहात्पाचनं तथा
त्रिदोषस्य च घोरस्य पाचनं द्वादशे दिने ॥१६॥
सन्निपातश्च पचति चतुर्दशदिनैरपि
ज्ञात्वा दोषबलं पक्वं तस्माद्देयन्तु पाचनम् ॥१७॥
युक्तं निदानलक्षैस्तु तस्मात्संशमनक्रिया
सप्ताहेनापि पच्यन्ते सप्तधातुगता मलाः ॥१८॥
चिरादपि हि पच्यन्ते सन्निपातज्वरे मलाः
विरामश्चाप्यतः प्रोक्तो ज्वरः प्रायोऽष्टमेऽहनि
न भवेत्सप्तमेऽहनि विरामज्वरकारणम् ॥१९॥
विचार्य भेषजं दद्मादजीर्णे मतिमान्भिषक्
मन्दो हि सुतरामग्निर्भेषजं न विपाचयेत् ॥२०॥
सर्वेषु दोषशामेषु पाचनं लङ्घनं स्मृतम्
लङ्घितं मध्यलङ्घितं स्यादतिलङ्घितमेव च ॥२१॥
लक्षणं वक्ष्यते चैषां मनुष्याणां शृणुष्व हि ॥२२॥
गतक्लमोऽरुचिम्लानिरिन्द्रियाणां प्रसन्नता
लङ्घने दोषपाकस्तु शुद्धलङ्घितलक्षणम् ॥२३॥
किञ्चित्क्लमोऽरुचिग्लानिरिन्द्रियाणां विवर्णता
बहुतृष्णाल्पक्षुच्चापि श्रमश्चैव भिषग्वर ॥२४॥
किञ्चित्संस्निग्धता गात्रे रुचिबाधातिबन्धता
मध्यपाकी च दोषः स्यान्मध्यलङ्घितलक्षणम् ॥२५॥
वैकल्यं जायते तन्द्रा विड्भेदश्च विनिद्रता
वेपथुश्च शिरोऽर्त्तिश्च क्षुत्क्षामं शूलमेव च ॥२६॥
श्यामास्यं प्लावनं नेत्रे मूर्च्छामोहश्रमातुरम्
अतिलङ्घितमेतैस्तु लक्षणं संविभावयेत् ॥२७॥
वेलाज्वरे भूतज्वरे तथा पित्तज्वरेऽपि च
आयासे क्रोधजे वापि भयकामज्वरेऽपि च ॥२८॥
एतेषां लङ्घनं नैव कारयेद्भिषगुत्तमः ॥२९॥
बालं वृद्धं कृशं क्षीणमतीसारव्रणातुरम्
गुर्विणीं सुकुमारञ्च लङ्घयेन्न कदाचन ॥३०॥
सामे मन्दज्वरे तीव्रे रुचिविड्बन्धकेऽपि च
अजीर्णे तु प्रशस्तञ्च लङ्घनं मात्रयान्वितम् ॥३१॥
स्निग्धत्वञ्चातिगात्राणामुदरं गर्जयेद्भृशम्
शिरोऽर्त्तिर्जठराध्मानः प्रतप्तं कण्ठकूजनम् ॥३२॥
अरुचिः पीतता मूत्रे निद्रातन्द्रातुरं नरम्
आमज्वरञ्च विज्ञाय लङ्घयेद्भिषगुत्तमः ॥३३॥
अनशनवमनविरेचनरक्तस्रुतितप्ततोयपानैः
स्वेदनकर्मसहितैः षड्विधं लङ्घनं गदितम् ॥३४॥
क्षुत्क्षामं श्रमशैथिल्यं भ्रमवेगज्वरातुरम्
अन्तर्दाहं रक्तमूत्रं विरामज्वरलक्षणम् ॥३५॥
वातिको लङ्घनैः षड्भिः पैत्तिकस्तु दिनत्रयम्
सप्तभिः पचते श्लेष्मा दृष्ट्वा लङ्घनमाचरेत् ॥३६॥
त्रिदोषो दशरात्राणि पचते लङ्घनैस्तु सः
दिने पञ्चदशे प्राप्ते पचते सान्निपातिकः ॥३७॥
मुञ्चेद्वा आतुरं हन्ति भवेद्वा विषमज्वरः
बाल्ये रक्तमया दोषाः कफपित्तादनन्तरम् ॥३८॥
षोडशे तु समे प्राप्ते त्रिदोषप्रभवा गदाः
पञ्चविंशतिमे प्राप्ते ज्वरो वै सान्निपातिकः ॥३९॥
वातपित्तकफैरेव रसरक्तसमुच्चयात्
जायते यो ज्वरः सम्यक् पक्के क्वाथं तु दापयेत् ॥४०॥
क्वाथः सप्तविधः प्रोक्तः पाचनः शमनस्तथा
दीपनः क्लेदनः शोषी सन्तर्पणो विशेषतः ॥४१॥
पाचनञ्च नरे देयं निशासु प्रविजानता
पूर्वाह्णे शमनो देयोऽपराह्णे दीपनः स्मृतः ॥४२॥
सन्तर्पणो भेदनश्च कल्ये पानाय दापयेत्
शोषणोपि प्रभाते च क्वाथः पाने प्रकीर्त्तितः ॥४३॥
रात्रौ यः प्रथमो यामो भूतवेला प्रकीर्त्तिता
द्वितीयं निशि इत्याहुर्निशीथञ्च ततः परम् ॥४४॥
गणरात्रं ततो ज्ञेयं कालमप्राप्तराशिनम्
पूर्वापराह्णमध्याह्नाः परार्द्धदिनशेषकाः ॥४५॥
पूर्वे दिनावसाने च भेषजानामुपक्रमः ॥४६॥
पाचनो दीपनीयश्च शोधनः शमनस्तथा
तर्पणः क्लेदनः शोषी क्वाथः सप्तविधः स्मृतः ॥४७॥
पाचनोऽर्द्धावशेषी स्याच्छोधनो द्वादशांशकः
क्लेदनश्चतुरङ्गश्च शमनोऽष्टावशेषितः ॥४८॥
दीपनीयो दशांशस्तु तर्पणश्च समांशकः
विशोषी षोडशांशश्च क्वाथभेदाः प्रकीर्त्तिताः ॥४९॥
पाचनः पचते दोषान्दीपनो दीप्यतेऽनलम्
शोधनो मलशोधी स्याच्छमनः शमते गदान् ॥५०॥
तर्पणस्तर्पते धातून्क्लेदी हृत्क्लेदकारकः
विशोषी शोषमाधत्ते तस्मात्क्वाथं परीक्षयेत् ॥५१॥
क्लेदी विशोषी विज्ञाय वामनं कारयेन्नरम्
न लङ्घयेत्क्वाथकृतं नान्तराणि च चालयेत् ॥५२॥
न शोषयेत्पुनः स्थाप्यो नाशुचौ च चकासते
स च क्वाथो न शस्तः स्याद्रोगसङ्करकारणम् ॥५३॥
न शोषयेत्पुनः क्वाथं न च भूमिगतं पुनः
दोषसंशमनेनैते प्रशस्ता गदकर्मणि ॥५४॥
विदीर्यते पततेऽपि स्फुटते क्वाथतो जनः
एतेऽनिष्टकराः क्वाथा न दोषशमनाय च ॥५५॥
एतैर्हिलक्षणैर्हीनं क्वाथं दृष्ट्वा परीक्षयेत् ॥५६॥
कृष्णं नीलं घनं रक्तं पिच्छिलं शिथिलञ्च यत्
दग्धं कुणपगन्धञ्च विस्रगन्धं विवर्जयेत् ॥५७॥
एतैरसाध्यं जानीयाद्रोगिणं नात्र संशयः
द्रव्यगुणानुवर्णेन द्रव्यगन्धं विनिर्दिशेत् ॥५८॥
तद्वद्विशुद्धं सच्छायं कषायममृतोपमम्
वातज्वरे लङ्घनान्ते दत्त्वा चान्नं तथोपरि
निशासु पाचनं देयं ज्ञात्वा दोषबलाबलम् ॥५९॥
त्रिरात्रे पैत्तिके देयं श्लैष्मिके प्रथमेऽहनि
अविज्ञाते च दोषे च पाचनं न प्रदापयेत् ॥६०॥
सप्तरात्राद्धि मर्यादा ज्वरेणैवोपलक्ष्यते
तस्मान्नवज्वरे पीतं दोषकृन्न च दोषहृत् ॥६१॥
तस्मादादौ प्रदेयन्तु पाचनञ्च दिनत्रयम्
शमनीयं प्रदेयन्तु पञ्चरात्रं ततः परम् ॥६२॥
शोधनं दीपनीयन्तु एकरात्रं प्रदापयेत् ॥६३॥
क्वाथपाने क्लमो मूर्च्छा वैक्लव्यञ्च प्रदृश्यते
वमनञ्च यदा प्रोक्तं शमनं पथ्यकेऽपि वा ॥६४॥
सदा पथ्यं प्रयोक्तव्यं नापथ्येन स सिध्यति
औषधेन विना पथ्यैः सिध्यते भिषगुत्तमैः ॥६५॥
विना पथ्यं न साध्यः स्यादौषधानां शतैरपि
ज्वरितो हितमश्नीयाद्यद्यप्यस्यारुचिर्भवेत् ॥६६॥
अन्नकालेष्वभुञ्जानो हीयते म्रियतेऽपि वा
स क्षीणः कृच्छ्रतां याति यात्यसाध्यत्वमेव च ॥६७॥
तस्माद्रक्षेद्बलं पुंसां बलशान्तिर्हिजीवितम्
लङ्घिते चैव दोषे च यवागूपानमाचरेत् ॥६८॥
शालिषष्टिकमुद्गञ्च यूषं शस्तं वदन्ति हि ॥६९॥
पञ्चकोलकसंसिद्धा यवागूर्मध्यलङ्घिते
भवेत्प्रशस्ता सततं तस्य सन्तर्पणं हितम् ॥७०॥
आजं दुग्धं गुडोपेतं पानाय ज्वरशान्तये
तेन क्लमविनाशः स्यात्सुखमाशु प्रपद्यते ॥७१॥
उदीच्यां वा पूर्वस्यां वाऽभिमुखञ्चोपवेशयेत्
पाययेत्क्वाथपानञ्च कृत्वा ब्राह्मणवाचनम् ॥७२॥
पानपात्रमधः कृत्वा शयीता ज्ञानमेव च
पीत्वा चैव तृषार्त्तोऽपि न जलं पाययेत्क्षणम् ॥७३॥
गतक्लमं नरं दृष्ट्वा तदा सम्पद्यते सुखम् ॥७४॥
इति आत्रेयभाषिते हारीतोत्तरे तृतीयस्थाने भेषजपरिज्ञानविधिर्नाम प्रथमोऽध्यायः ॥१॥
N/A
References : N/A
Last Updated : February 24, 2021
TOP