संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्| एकपञ्चाशत्तमोऽध्यायः तृतीयस्थानम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः ऊनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोऽविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुःपञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः तृतीयस्थानम् - एकपञ्चाशत्तमोऽध्यायः हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते. Tags : ayurvedharit samhitasamhitaआयुर्वेदसंहिताहारीत संहिता एकपञ्चाशत्तमोऽध्यायः Translation - भाषांतर आत्रेय उवाच शोषो हृल्लासच्छर्दिश्च शोफो ज्वरस्तथारुचिः अतीसारो विवर्णत्वमष्टौ गर्भस्योपद्रवाः ॥१॥ वक्ष्यामि भेषजं तस्य यथायोगेन साम्प्रतम् वटप्ररोहं मगधामुशीरं घनमेव च ॥२॥ युता खण्डगुटिकास्ये विहिता शोषवारिणी ॥३॥ वत्सकं मगधा शुण्ठी तथा चामलकीफलम् युक्तं कोमलबिल्वेन दध्ना पिष्टं तु दापयेत् ॥४॥ शर्करासंयुतं पानं स्त्रीणां गर्भे हितं सदा ॥५॥ पीतो भूनिम्बकल्कश्च शर्करासमभावितः छर्दिं हरेच्च हृत्क्लेदं मधुना वा समन्वितः ॥६॥ शृङ्गवेरं सकटुकं मातुलुङ्गस्य केशरम् मार्जनं दन्तजिह्वासु गन्डूषश्चोष्णवारिणा ॥७॥ गुर्विणीनाञ्च सर्वासामरुचिं च नियच्छति वत्सकं दाडिमं पाठा बिलबिल्वबलास्तथा ॥८॥ जम्ब्वाम्रपल्लवाश्चैव यथा लाभेन सत्तम शर्करादधिसंयुक्तं स्त्रीणाञ्चैवातिसारके ॥९॥ हरीतकी नागरकं गुडेन वा त्रिफलाकषायः शीतः स्त्रीणां विनिहन्ति पाने विबन्धविद्रधींश्च ॥१०॥ मूत्रविबन्धनस्य त्रपुसैर्वारिबीजानि मागधी च शिलाभेदं सिताढ्यञ्च पिबेत्तण्डुलवारिणा । मूत्ररोधं गुर्विणीनां वारयत्याशु निश्चितम् ॥११॥ मधुकविषमृणालं पद्मकिञ्जल्ककल्कं घनमतिविषमैन्द्रं बीजमौशीरनीरम् । समकृतमथ कल्कं देयमाशु प्रपाने हितमपि युवतीनां गर्भचाले सिताढ्यम् ॥१२॥ गर्भस्योपद्रवाः शोफाः स्वेदयेदुष्णवारिणा न दातव्यो मतिमता विरेको दारुणो महान् ॥१३॥ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने गर्भोपद्रवचिकित्सा नामैकपञ्चाशत्तमोऽध्यायः ॥५१॥ N/A References : N/A Last Updated : February 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP