तृतीयस्थानम् - षट्पञ्चाशत्तमोऽध्यायः
हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.
त्रेय उवाच द्विविधं विषमुद्दिष्टं स्थावरं जङ्गमं भिषक् शृङ्गिको वत्सनाभश्च तथा च शार्ङ्गवैरिकः ॥१॥
दारकः कालकूटश्च शङ्खस्ययात्सत्सुकन्दुकः हालाहलश्चाष्टभिश्च तथाष्टौ विषजातयः ॥२॥
शृङ्गिकः कृष्णवर्णश्च वत्सनाभश्च पीतकः शुण्ठीसमानवर्णश्च शार्ङ्गवेरः स उच्यते ॥३॥
दारको हरिवर्णश्च कालकूटो मधुप्रभः शङ्खश्चातिविषाभाषः पीताभः सत्सुकन्दुकः ॥४॥
हालाहलः कृष्णवर्णचाष्टौ च जातयस्तथा पीतं विषं नरं दृष्ट्वा सद्यो वमनमुत्तमम् ॥५॥
यावत्पीतातिविषञ्च तावत्तु वमयेत्सदा सिञ्चच्छीताम्भषा वक्रं मन्त्र पूतेन सत्वरम् ॥६॥
ॐ हर हर नीलकण्ठ अमृतं प्लावय हूङ्कारेण विषं ग्रस ग्रस क्लीङ्कारेण हर हर ह्रौकारेण अमृतं प्लावय प्लावय हर हर नास्ति विष उच्छिरे उच्छिरे ॥७॥
ॐ नमो हर हर नीलग्रीवश्वेताङ्गसङ्गजटाग्रमण्डितखण्डेन्दुस्फूर्त्तमन्त्ररूपाय विषमुपसंहर हर हर हर नास्ति विष विष विष उच्छिरे उच्छिरे उच्छिरे इति कर्णेजपमन्त्रेण वारंवारं तालुमुखं सिञ्चेछीतवारिणा ॥८॥
ताण्डुलीयकमूलानि पिष्ट्वा चोष्णेन वारिणा पीतं पीतविषं हन्ति वमने लाघवं भवेत् ॥९॥
काकजङ्घा सहचरीमूलं चैडगजस्य च कदरं कार्मुकञ्चापि त्वचं पीतोष्णवारिणा पीतं तच्च विषं घोरं नाशयत्याश्वसंशयः ॥१०॥
खदिरस्य च मूलञ्च तथा निम्बफलानि च उष्णोदकेन पीतानि विषं जयेयुस्तत्क्षणात् ॥११॥
वत्साह्वञ्चाश्वगन्धाञ्च पीत्वा चोष्णेन वारिणा प्रपीतञ्च विषं पाति चाशु नरस्य वेदवाक् ॥१२॥
अथ प्रधान रक्तस्य क्षते रक्तं विषस्य च तस्य वक्ष्यामि भैषज्यं येन सम्पद्यते सुखम् ॥१३॥
मर्मस्थाने मर्मगतं तदसाध्यं भवेन्मतम् साध्यञ्च तत्त्वग्रक्तस्थं मांसस्थं कष्टसाध्यकम् ॥१४॥
असाध्यं धातुसम्प्राप्तं सखे वक्ष्यामि भेषजम् विषलिप्तं नरं ज्ञात्वा ततः कुर्यात्प्रतिक्रियाम् ॥१५॥
रजनीयुग्माम्लकेन काञ्जिकेन तु पेषितम् लेपेन च विषं हन्ति प्रलिप्तं नात्र संशयः ॥१६॥
मातुलुङ्गरसेनापि धावनं काञ्जिकेन वा अतिशीतेन तोयेन प्रलिप्तं नात्र संशयः ॥१७॥
विषं जङ्गममित्युक्तमष्टधा भिषगुत्तम दर्वीकरा मण्डलिनो राजिमन्तश्च गुण्डसाः ॥१८॥
वृश्चिको गोरकश्चापि तथा च खण्डबिन्दुकः अलर्कमूषमार्जारविषं प्रोक्तमनेकधा ॥१९॥
दार्वीकराणां सर्वेषामुक्तं वातात्मकं विषम् मण्डलिनाञ्च सर्वेषां पैत्तिकं विषमुच्यते ॥२०॥
राजिमन्तश्च ये प्रोक्तास्तेऽपि कफात्मका विषाः विचित्रगमनं मूर्ध्नः पीडनं चातिदुर्भरम् ॥२१॥
हृदये व्यथनं यस्य तमसाध्यं वदन्ति च नासारक्तस्रुतिर्यस्य नेत्रे प्लावश्च दृश्यते ॥२२॥
जडा च जायते जिह्वा तमसाध्यं विदुर्बुधाः यस्य लोमानि शीर्यन्ते पीताभं शरीरं भवेत् ॥२३॥
न स्थिरं मस्तकं यस्य तमसाध्यं भिषग्वर एभिर्विरहितं दृष्ट्वा कुर्यात्तस्य प्रतिक्रियाम् ॥२४॥
ॐ नमो भगवते सुग्रीवाय सकलविषोपद्रवशमनाय उग्रकालकूटविषकवलिने विषं बन्ध बन्ध हर हर भगवतो नीलकण्ठस्याज्ञा ।
ॐ नमो हर हर विषं संहर संहर अमृतं प्लावय प्लावय नासि अरेरे विष नील पर्वतं गच्छ गच्छ नास्ति विषम् ॐ हाहा ऊचिरे ऊचिरे ऊचिरे ।
अनेन मन्त्रेण मुखमुदकेन त्रासयेत् । ॐ नमोऽरेरे हंस अमृतं पश्य पश्य ॥२५॥
जयकूटं वचाकुष्ठं सैन्धवं मगधा निशा लेपो दष्टव्रणे प्रोक्तो विषं हन्ति सुदारुणम् ॥२६॥
सुरसा रजनी व्योषं यवानी पारिभद्रकम् सर्पदष्टव्रणे प्रोक्तं लेपनं विषशान्तये ॥२७॥
कुष्ठं मुस्ता अजाजी च विडङ्गं मधुयष्टिका गुञ्जामूलं शीततोयैर्लेपो मण्डलिना हितः ॥२८॥
राजिमन्तो विषा यस्य गृहधूमं वचा घनम् सर्षपाश्च यवानी च पिचुमन्दफलत्रयम् लेपनं राजिमताञ्चैव व्रणतैलेन संयुतम् ॥२९॥
सठीकिरातं सकटुत्रयं च वचाविशालापिचुमन्दकञ्च पथ्यायवानीरजनीद्वयञ्च दष्टव्रणे लेपनमेव शस्तम् ॥३०॥
स्थावरं जङ्गमं वापि विषं जग्धं भिषग्वर शीघ्रं दद्याद्व्यथां गुर्वीं प्रोक्तञ्च नरसत्तमैः ॥३१॥
ॐ नमो भगवते शिरसिशिखराय अमृतधाराधौतसकलविग्रहाय अमृतकुम्भपरितोऽमृतं प्लावय प्लावय स्वाहा ॥३२॥
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने विषतन्त्रं नाम षट्पञ्चाशत्तमोऽध्यायः ॥५६॥
N/A
References : N/A
Last Updated : February 24, 2021
TOP