तृतीयस्थानम् - एकविंशोऽध्यायः
हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.
आत्रेय उवाच
लक्षणं शृणु पुत्र त्वं समासेन वदाम्यहम्
गुर्वन्नाहारपुष्टेन मन्दाग्निना व्यवायिनः ॥१॥
तर्पितैः कन्दशाकैस्तु आमो वायुसमीरितः
श्लेष्मस्थाने प्रपच्यैव जायते बहुवेदनः ॥२॥
आमातिसारो वर्तेत सन्धौ शोफः प्रजायते
जरत्वञ्चैव गात्राणां बलासपतनं मुखे ॥३॥
पृष्ठमन्यात्रिके जाते वेदनार्त्तेऽपि सीदति
अङ्गं वैकल्यमायाति आमवाते भिषग्वर ॥४॥
तस्य नो स्नेहनं कार्यं पाचनञ्च विधीयते
आमं संक्षयते प्राज्ञश्चतुर्धा भेदलक्षणैः ॥५॥
विष्टम्भी गुल्मकृन्मेही आमः पक्वाम एव च
सर्वाङ्गगो भवेच्चान्यो वक्ष्ये तस्यापि लक्षणम् ॥६॥
विष्टम्भी गुरुचाध्मानं बस्तिशूलं च जायते
तस्यापि पाचनं कार्यं स्नेहनं चैव कारयेत् ॥७॥
जठरं गर्जते यस्य गुल्मवत्परिपीड्यते
कटिदेशे जडत्वञ्च आमगुल्माभिशङ्कितः ॥८॥
तस्यादौ लङ्घनानि स्युर्ज्ञात्वा देहबलाबलम्
पाचनं नैव कर्त्तव्यं गुल्मपाके विमूर्च्छति ॥९॥
पाचिते चापि गुल्मामे तदाशु मरणं ध्रुवम् ॥१०॥
यस्य च स्निग्धता गात्रे जाड्यं मन्दाग्निको बली
स्नेहामो विजलो यस्य स्नेहो वामः प्रकीर्त्तितः ॥११॥
तस्य नो स्नेहनं कार्यं चोपवासञ्च कारयेत्
पाचनं चैव कर्त्तव्यमामं चैवातिसारयेत् ॥१२॥
यस्य शोफाननं जाड्यं तथा चैव घनोदरम्
अरुच्यामातिसारश्च सचासाध्यो विजानता ॥१३॥
प्रत्याख्येया क्रिया कार्या जीवितस्यापि संशये
पाचनं पाचितं ज्ञात्वा तस्माच्चूर्णानि दापयेत् ॥१४॥
सपीतो विजलः श्यामाः पक्वामः पतते त्वधः
न बस्तिशूलो भवति आमवाते श्रमः क्लमः ॥१५॥
आमपाकीति विज्ञेयो न कुर्यात्तस्य पाचनम्
विरेचनं न कर्त्तव्यं स्तम्भनं तस्य कारयेत् ॥१६॥
कटिपृष्ठे वक्षोदेशे तोदनं बस्तिशूलवान्
गुल्मतो जठरं गर्जेत्तथातः शोफ एव च ॥१७॥
शिरोगुरुत्वं भवति आमश्च पतते भृशम्
सर्वाङ्गगो भवेत्सोऽपि विज्ञेयोऽसौ विजानता ॥१८॥
तस्य च पाचनं कुर्याद्विरेचनमनन्तरम्
विष्टम्भी गुल्मपाकी च अन्यः सर्वाङ्गगो मतः ॥१९॥
विज्ञेयाश्चात्र ये साध्याश्चान्यौ द्वौ कष्टसाध्यकौ
स्नेही आमश्च कथितः कृच्छ्रसाध्यं द्वयं मतम् ॥२०॥
पक्वामः सुखसाध्यस्तु ज्ञात्वा कर्म समाचरेत् ॥२१॥
रास्ना त्रिकण्टमेरण्डं शतपुष्पा पुनर्नवा
पानं पाचनके शस्तं वामे वाते भिषग्वर ॥२२॥
रास्ना श्योनाककाश्मीरं चिक्कणीकं च पुष्करम्
क्वाथं शृतं सुखोष्णं च पाचनं पाययेन्नरः
एतत्पाचनकं विद्धि प्रोक्तं चामे सवातिके ॥२३॥
आमवाते कणायुक्तं दशमूलीजलं पिबेत्
गुडूची नागरं पथ्या चूर्णमेतद्गुडान्वितम् ॥२४॥
धान्यनागरराजाम्लदेवदारुवचाभयाः
पाचनं चामवाते च श्रेष्ठमेतत्सुखावहम् ॥२५॥
तथा कोलकचूर्णं वा पिबेदुष्णेन वारिणा
आमवातञ्च मन्दाग्निं शूलं गुल्मञ्च नाशयेत् ॥२६॥
बलाक्वाथाढकं क्षिप्त्वा दधितक्राढकं क्षिपेत्
कुलत्थाढकयूषं तु सौवीरस्याढकं तथा ॥२७॥
एकत्र कृत्वा विपचेद्योजयेदौषधञ्च तत्
शतपुष्पा देवदारु पिप्पली गजपिप्पली ॥२८॥
त्रिसुगन्धि मुरामांसी कुष्ठं द्विपञ्चमूलकम्
चूर्णं विनिक्षिपेत्तत्र सिद्धं तदवतारयेत् ॥२९॥
पाने चाभ्यन्तरे योज्यं निरूहे बस्तिकर्मणि
हन्ति वातामयं सर्वं श्रेष्ठं गुणगणप्रदम् ॥३०॥
पिबेदेरण्डजं तैलं गुडक्षीरेण संयुतम्
सर्वाङ्गे चामवाते हि श्रेष्ठमेतद्विरेचनम् ॥३१॥
नागरस्य भागमेकं द्वौ भागौ क्रिमिजस्य तु
त्रिवृद्भागत्रयं क्षिप्त्वा चूर्णं गुडसमं वटम् ॥३२॥
भक्षेत्तथोष्णतोयेन पुनश्चोष्णं पयः पिबेत्
एतेन जायते वामे विरेकः सुखकारकः ॥३३॥
विडङ्गशुण्ठी रास्ना च पथ्या त्रिकटुकान्विता
क्वाथमष्टावशेषं च कारयेद्भिषजांवरः ॥३४॥
दुग्धं क्वाथार्द्धकं तैलं तथैवैरण्डजं क्षिपेत्
कर्षमात्रं सुपातव्यो विरेकश्चानुपानतः ॥३५॥
गुडूची त्रिफला पथ्या गुडेन सह भक्षयेत्
विरेको ह्यामवातेषु श्रेष्ठमेतत्सुखावहम् ॥३६॥
अभया मस्तुना पिष्टा मधुशर्करयान्विता
आमातिसारं स्तम्भेत्तु गुडामलकमेव च ॥३७॥
वत्सकं जीरके द्वे च दध्ना पिष्टं तु दापयेत्
आमातिसारशमनं बस्तिशूलं नियच्छति ॥३८॥
गुग्गुलं च रसोनं च हिंगु नागरसंयुतम्
क्वाथं वामविनाशाय शमनं मारुतस्य च ॥३९॥
अजमोदोग्रगन्धा च कुष्ठं त्रिकटुकं शठी
फलत्रिकं च भार्ङ्गी च पुष्करं लवणाष्टकम् ॥४०॥
जीरके द्वे विडङ्गानि तुम्बुरू द्वे च दारु च
तथा बिल्वा शिला भेदो रोध्रं वत्सकवासकम् ॥४१॥
धातकीकृसुमं चैव शाल्मली त्वक् च दाडिमम्
एतानि समभागानि सूक्ष्मचूर्णानि कारयेत् ॥४२॥
घृतेन संयुतं वातं नाशयत्याशु निश्चितम्
सहिंगु चारनालेन पीतं शूलार्त्तिनाशनम् ॥४३॥
तथा चोष्णजलेनापि वामवातं नियच्छति
गृध्रसीकटिशूले च दशमूल जलेन तु ॥४४॥
विबन्धैरण्डतैलेन शोफे वापि सुदारुणे
गुल्मगोमूत्रसंयुक्तं गुडेन पाण्डुरोगजित् ॥४५॥
प्रमेहे मधुसंयुक्तं यक्ष्मणि शर्करायुतम्
हन्ति सर्वामयान् घोरान् यथायोगेन योजितम् ॥४६॥
वर्जयेद्द्विदलं गौल्यं तैलं पिच्छलमेव च
शीतोदकेन न स्नानमामवाते भिषग्वर ॥४७॥
पाचिते चामदोषे च आमवातं न सेवयेत्
न सेवनीयं चोष्णं च द्रवं द्रावं विशेषतः ॥४८॥
ज्वरे प्रोक्तानि पथ्यानि तानि चात्र प्रयोजयेत् ॥४९॥
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने आमवातचिकित्सा नामैकविंशोऽध्यायः ॥२१॥
N/A
References : N/A
Last Updated : February 24, 2021
TOP