तृतीयस्थानम् - अष्टाविंशोऽध्यायः
हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.
आत्रेय उवाच
विंशत्येवं प्रमेहास्तु नराणामिह लक्षणम् ॥१॥
श्रमाद्व्यवायाच्च तथैव घर्मविरुद्धतीक्ष्णोष्णविभोजनेन
मद्येन वा क्षीरकटुप्रसेवनान्मेहप्रसूतिः कथिता मुनीन्द्रैः ॥२॥
जलप्रमेहो रुधिरप्रमेहः पूयप्रमेहो लवणप्रमेहः
तक्रप्रमेहः खटिकाप्रमेहः शुक्रप्रमेहः कथितःपुरस्तात् ॥३॥
स्याच्छर्करामेहोवसाप्रमेहो रसप्रमेहोऽन्यघृतप्रमेहः
पित्तप्रमेही कफमेहिनश्च मधुप्रमेहीति विभावयेच्च ॥४॥
यथा च नामानि तथैव लक्षणं बलक्षयं वापि नरस्य देहे
कुर्वन्ति शीघ्रं भिषजां वरिष्ठः कुर्यात्क्रियाञ्च शमनाय हेतुम् ॥५॥
धवार्जुनं चन्दनशालछल्लीक्वाथो हितः स्याच्च जलप्रमेहे
रक्तप्रमेहे शिशिरं पयश्च द्राक्षान्वितं यष्टिकचन्दनेन ॥६॥
स्त्रीसेवनं चाल्पतरञ्च पूयमेहे हितः क्वाथो धवार्जुनस्य
दूर्वाकसेरुकदलीनलिन्या लवणस्य मेहे कषाय उक्तः ॥७॥
कदम्बशालार्जुनदीप्यकानां विडङ्गदार्वीधवशल्लकीनाम्
सर्वे तथैते मधुना कषायाः कफप्रमेहेषु निषेवनीयाः ॥८॥
रोध्रार्जुनः क्षीरमरिष्टपत्रात्तत्रैव धात्रोफलचन्दनानि
तक्र प्रमेहे खटिकाप्रमेहे देयो हितः क्वाथगुडावटश्च ॥९॥
दूर्वा च मूर्वा कुशकाशमूलं दन्ती समङ्गा सह शाल्मली च
शुक्रप्रमेहे क्वथितं जलेन पानं हितं वा रुधिरप्रमेहे ॥१०॥
फलत्रिकारग्वधमूलमूर्वाशोभाञ्जनारिष्टदलानि मोचा
द्राक्षायुतो वा क्वथितः कषायः सर्पिःप्रमेहस्य निवारणाय ॥११॥
कुष्ठं तथा पर्पटकं च तिक्ता सिता प्रगाढं क्वथितः कषायः
मूर्वारिकापाटलिकानियुक्तो दुरालभाकिंशुकटुण्टुकानाम्
रसप्रमेहे च सदा हितः स्यात् ॥१२॥
नीलोत्पलार्जुन कलिङ्गधवाम्लिकानां धात्रीफलानि पिचुमन्ददलानि तोये
निष्क्वाथ्य शर्करयुते मनुजस्य पाने पित्तप्रमेहशमनाय वदन्ति धीराः ॥१३॥
विडङ्गसर्जार्जुन कफलानां कदम्बरोध्राशनवृक्षकाणाम्
जलेन क्वाथश्च हितो नराणां कफप्रमेहं विनिहन्ति तेषाम् ॥१४॥
मुस्ता फलत्रिकनिशा सुरदारु मूर्वा इन्द्रा च रोध्रसलिलेन कृतः कषायः
पाने हितः सकलमेहभवे गदे चमूत्रग्रहेषु सकलेषु वियोजनीयः ॥१५॥
यच्चाभयालोहरजोनिकुम्भचूर्णं हितं शर्करया समेतम्
फलत्रिकाया मधुना च लेहं सर्वप्रमेहेषु हितं वदन्ति ॥१६॥
मधुमेहे प्रयोक्तव्यं घृतपानं सुधीमता
क्षीरं वा शर्करायुक्तं क्वाथो वा गुटिकानि च ॥१७॥
न्यग्रोधोदुम्बराश्वत्थ प्लक्षारग्वधटुण्टुकम्
पियालं कुकुभं जम्बूकपित्थाम्रातकानि च ॥१८॥
मधुकं यष्टिमधुकं रोध्रं वै पारिभद्रकम्
पटोलं चारिणी चैव दन्ती मेषविषाणिका ॥१९॥
चित्रकं च करञ्जञ्च शक्राह्वं त्रिफलायुतम्
भल्लातकानाञ्च समं त्रिगन्धं कटुकत्रयम् ॥२०
सूक्ष्मचूर्णं प्रदातव्यं न्यग्रोधाद्यं गुणाधिकम्
मधुना संयुतं लेही हन्याच्च मधुमेहकम् ॥२१॥
क्वाथो वा तैलपाको वा घृतपाकोऽथवापि च
पानाभ्यङ्गे प्रशस्तः स्याद्धन्ति वै मूत्रजं गदम् ॥२२॥
न्यग्रोधाद्यमिदं चूर्णं पेयं वा क्षीरसंयुतम्
मधुमेहेतु नान्योऽस्ति यथालाभेन योजितः ॥२३॥
माक्षीकं धातुमाक्षीकं शिलोद्भेदं शिलाजतु
चन्दनं रक्तधातुञ्च तथा कपूरकं कणाः ॥२४॥
वंशरोचनकं चैव क्षीरेण सहितं पिबेत्
मधुप्रमेहं हरति मूत्ररोगाद्विमुच्यते ॥२५॥
प्रमेहपिटिकानाञ्च वक्ष्यामोऽथ चिकित्सितम्
धवार्जुनकदम्बानां बदरी खदिरशिंशपे
पारिभद्रकमेतेषां मेहनस्य प्रधावनम् ॥२६॥
अर्जुनस्य कदम्बस्य टिण्टुकी वान्तरत्वचा
पाके पूयविशोधार्थं मेहनस्य प्रशस्यते ॥२७॥
भृङ्गराजरसं गृह्य तथाच सुरसादलम्
निष्पावकपटोलानां पत्राणि काञ्जिकेन तु ॥२८॥
पिष्ट्वा वातपिटिकानां लेपनं मेहनस्य च ॥२९॥
यष्टीमधु तथा कुष्ठं चन्दनं रक्तचन्दनम्
उशीरं कत्तृणं चैव रक्तधातुमृणालकम् ॥३०॥
क्षीरमण्डकसंयुक्तं यथालाभं भिषग्वर
लेपनं पित्तरक्तानां मेहदाहः प्रशाम्यति ॥३१॥
धावनं शीतपयसा नवनीतेन मर्दनम्
कणं कदम्बार्जुनपिण्याकपत्राणि दाडिमस्य च ॥३२॥
खदिरस्य दलानां तु तथा चामलकीदलान्
उष्णेन वारिणा पिष्ट्वा सोमपाके च मेहने ॥३३॥
त्रिफलायाश्च वा चूर्णं शुष्कपूयनिवारणम्
धावनं काञ्जिकेनाथ तक्रेणाथ तुषाम्बुना ॥३४॥
अतिशीतेन तोयेन मेहपाके च धावनम्
रक्तशालिश्च षाष्टीकश्चाढकी वा कुलत्थकः ॥३५॥
घृतं च मधुरं किञ्चिद्भोजनार्थे विधीयते
क्षाराम्लकटुकं वापि दिवा स्वप्नं विशेषतः ॥३६॥
स्त्रीदर्शनं व्यवायञ्च तथाचात्यशनं तथा
चलनं धावनं चेति तथा मूत्रविरोधनम् ॥३७॥
वस्त्रवातं रक्तवस्त्रं वर्जयेद्भिषजां वरः
एकान्ते गृहमध्ये च गानस्त्रीबालकं रमः ॥३८॥
न चाभरणताम्बूलं कोपशोषं जहाति च
दूरे चैतानि वर्जेत्तु यदीच्छेत्सुखसम्पदः ॥३९॥
हरिद्राद्वितयं शुण्ठी विडङ्गानि हरीतकी
कफप्रमेहे विहितः क्वाथोऽयं मधुना सह ॥४०॥
नीलोत्पलमुशीरञ्च पथ्यामलकमुस्तकम्
पिबेत्पीतप्रमेहार्त्तः क्वाथं मधुविमिश्रितम् ॥४१॥
कमलञ्च तथा रोध्रमुशीरमर्जुनान्वितम्
पित्तप्रमेहेविहितः क्वाथोऽयं मधुना सह ॥४२॥
आमलकस्य स्वरसं मधुना च विमिश्रितम्
हरीतक्याश्च चूर्णं वा सर्वमेहनिवारणम् ॥४३॥
खदिरं शर्करा दारु हरिद्रा मुस्तमेव च
चूर्णितं तु पिबेत् सर्वप्रमेहगदशान्तये ॥४४॥
कुष्ठं हरिद्राद्वयदेवदारु पाठा गुडूची त्रिफला च मुस्तम्
एषां हि चूर्णं मधुना विमिश्रं मूत्रप्रमेहं हरते व्यथाञ्च ॥४५॥
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने प्रमेहचिकित्सा नाम अष्टाविंशोऽध्यायः ॥२८॥
N/A
References : N/A
Last Updated : February 24, 2021
TOP