तृतीयस्थानम् - त्रयोदशोऽध्यायः
हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.
आत्रेय उवाच
भयश्रमाद्बलहीनाद्विदलरूक्षसेवनात्
आतपे वा ज्वरे जीर्णे क्षयाच्च क्षतजात्तथा ॥१॥
एतैः सङ्कुपिता दोषा वातपित्तकफास्त्रयः
चतुर्थीक्षतजा प्रोक्ता पञ्चमी क्षयजा स्मृता ॥२॥
अजीर्णात्षष्ठी सम्प्रोक्ता सप्तमी रूक्षसेवनात्
अष्टमी स्याज्ज्वरोत्पन्ना लक्षणानि शृणुष्व मे ॥३॥
क्षामः श्यावास्यता चाथ वैरस्यं वेपथुस्तथा
वातेन सा भवेत्तृष्णा विज्ञेया भिषजां वरैः ॥४॥
शीततोयाभिलाषश्च भ्रमदाहप्रलापतः
मूर्च्छा च लोहिते नेत्रे तृष्णा पित्तोद्भवा मता ॥५॥
निद्रा श्यावास्यतालस्यं बलासोष्णाभिलाषता
घन श्यावाङ्गशैत्यं च श्लेष्मणो जायते तृषा ॥६॥
दृक्शूलं वमते दाहो भ्रमो वा शिरसो व्यथा
वेपथुश्चाङ्गशैत्यञ्च त्रिदोषप्रभवा तृषा ॥७॥
वक्त्रशोषो भवेज्जृम्भा शिरोऽर्त्तिर्गुरुतोदरे
अजीर्णेनाथ मनुजे तृष्णा संलक्ष्यते गदः ॥८॥
रसक्षये यदा तृष्णा तथाक्षमक्षुधातुरः
ग्लानिः शोषो भ्रमः श्वासो दैन्यमाशु प्रवर्त्तते ॥९॥
क्षतक्षयेषु या तृष्णा तस्यां नान्नाभिनन्दनम्
अन्या ज्वरातुरे प्रोक्ता तृष्णा सा ज्वरवेगजा ॥१०॥
अन्यातिसारे शूले वा तृष्णा ज्ञेया भिषग्वरैः ॥११॥
तृष्णातिसारवमनदाहमूर्च्छाभ्रमशोषोद्भवा
तोयेन न यति तृप्तिमसाध्यां तां विजानीहि ॥१२॥
तृष्णां वातोद्भवां दृष्ट्वा शस्यते सगुडं दधि
सगुडं वामृताक्वाथं पीतं वाततृषापहम् ॥१३॥
शुण्ठी चाजाज्या सह शृङ्गवेरं जलेन सौवर्चलयुक्तकल्कः
पिबेत्कषायं च सुशीतलं वा वातोद्भवां चाशु निहन्ति तृष्णाम् ॥१४॥
काश्मर्यं पद्मकोशीरं द्राक्षा मधुकचन्दनम्
वालकं शर्करायुक्तं क्वाथं पित्ततृषापहम् ॥१५॥
वटद्रुमो रोध्रसिता च चन्दनं सदाडिमं तण्डुलधावनेन
पिष्टञ्च शीतेन जलेन वापि पीतं च पित्तोत्थतृषापहञ्च ॥१६॥
कुष्ठमुत्पललाजां च न्यग्रोधस्य प्ररोहवान्
संचूर्ण्य शर्करायुक्ता गुटिका तृष्णावारणी ॥१७॥
द्राक्षोत्पलं सयष्टीकं शस्तं चेक्षुरससेवनात्
पीतं पित्तोद्भवां तृष्णां हन्ति दाहञ्च पित्तजम् ॥१८॥
आकण्ठं शर्करायुक्तं क्षीरं तथा पिबेन्नरः
वमनञ्च तदा कुर्याद्धन्ति तृष्णां सपैत्तिकीम् ॥१९॥
लोष्टप्रतप्ततोयञ्च निर्याप्य शीतलं कृतम्
पिबेत्तृष्णाविनाशाय जलं वा चन्दनान्वितम् ॥२०॥
जम्ब्वाम्रकप्रवालानि तथा लाजा च चन्दनम्
धातकीकुसुमानि स्युः पिष्टवासारसंयुतः ॥२१॥
श्लेष्मतृष्णापहो लेहो दाहमूर्च्छाभ्रमापहः
पिबेच्चाढकीयूषञ्च लाजाशर्करयान्वितम् ॥२२॥
क्षीरपानं समरिचं जलं वा मरिचान्वितम्
श्लेष्मतृष्णाविनाशाय पिबेद्वा कोलकं पयः ॥२३॥
दुरालभा पर्पटकं प्रियंगु लोध्रद्रुमं त्र्यूषणकं सकुष्ठम्
क्वाथः सुशीतो मधुशर्करायास्तृष्णां त्रिदोषप्रभवां निहन्ति ॥२४॥
कालदाडिमवृक्षाम्लाः सारिवा समशर्करा
पथ्या दाडिमचूर्णं वा मातुलुङ्गरसान्वितम् ॥२५॥
काष्ठपात्रे शृतं सम्यक्छीतलं सलिलं तथा
मर्दितं बहुवेलां तु तत्पानीयं च पाययेत् ॥२६॥
तालुशोषे घृतं तच्च दापयेच्च भिषग्वरः
तृष्णादाहभ्रमच्छर्दिशोषमूर्च्छां व्यपोहति ॥२७॥
क्षतजां क्षयजां तृष्णां वारयत्याशु निश्चितम् ॥२८॥
दाडिमं कोलचुक्रीका वृक्षाम्लं चाम्लवेतसम्
रसं चैव तथा पथ्यायुक्तं तालुप्रलेपनम् ॥२९॥
वारयत्याशु शोषं च तृष्णां हन्ति च सज्वराम्
केसरं मातुलुङ्गस्य पिष्टं तण्डुलवारिणा ॥३०॥
प्रतप्तमधुना तालुलेपो मुखशोषापहः
मधुशर्करया तालुलेपो शोषनिवारणः ॥३१॥
पद्मकन्दशृतालेपः शीतः शीतलवारिणा
तालुशोषं निहन्त्याशु जम्ब्वाम्रपल्लवानि च ॥३२॥
निम्बान् वा मातुलुङ्गान् वा सौवीरं नागराणि च
तृषार्त्तः पुरतो भक्षेन्न देयं तस्य धीमता ॥३३॥
दर्शनात्तस्य चास्ये च लाला प्रस्रवते भृशम्
तेनास्य शोषं हरति तृष्णामपि नियच्छति ॥३४॥
रक्तशाल्योदनं शस्तं दधिशर्करयान्वितम्
भोजनञ्च प्रशस्तं च न क्षारं कटुकं पुनः ॥३५॥
शोषे च छर्दितृष्णायां श्रमे पानात्ययेऽपि च
अतीसारे च शोषे च दिवा निद्रा सुखावहा ॥३६॥
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने तृष्णातालुशोषचिकित्सा नाम त्रयोदशोऽध्यायः ॥१३॥
N/A
References : N/A
Last Updated : February 24, 2021
TOP