संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्|
षट्चत्वारिंशोऽध्यायः

तृतीयस्थानम् - षट्चत्वारिंशोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच ओष्ठौ च स्फुटितौ यस्य वातिवाहेन वातिकात् तस्य सर्पिर्भक्षणञ्च ओष्ठदारणवारणे ॥१॥
सदाहञ्च भवेत्सौष्यं पैत्तिकं तं विनिर्दिशेत् ॥२॥
मधुना नवनीतेन ओष्ठयोर्म्रक्षणं मतम् लेपनं चोष्ठरोगेषु शर्करासहितं दधि ॥३॥
सरक्तमोष्ठरोगञ्च दृष्ट्वा रक्तावसेचनम् धवार्जुनकदम्बानां प्रलेपः स्यात्सुखावहः ॥४॥
कृष्णा दन्तावलिर्यस्य दन्तमूलं च वातिकात् चलनं वा प्रदृश्येत वातिकञ्च विनिर्दिशेत् ॥५॥
पैत्तिकात्पित्तवाहञ्च दन्तमांसं विनिर्दिशेत् श्लैष्मिके दन्तपाके च शोफः स्याच्छ्वेतता भृशम् ॥६॥
रक्तजे जायते कण्डूरक्तस्रावश्च दृश्यते सूयते दन्तमांसञ्च सरक्ते दत्पुटे तथा ॥७॥
सच्छिद्रं दन्तमूलञ्च सबलं शूलमेव च दन्तमांसं विशीर्येत क्रिमिजा दन्तरुग्भवेत् ॥८॥
वचावयानीसहचित्रकेण सिन्धूत्थविश्वासहसिन्धुवारम् कल्कं तथोष्णञ्च सदन्तरोगे मुखे च गण्डूषशतानि पञ्च ॥९॥
सर्वेषु मुखरोगेषु हितमेतत्प्रशस्यते वचासैन्धवशुण्ठ्या च घर्षणं दन्तमूलके ॥१०॥
यवानीं च वचां रात्रौ दन्तमूले च धारयेत् पित्तजदत्तरोगेषु नवनीतं सशर्करम् ॥११॥
धात्रीफलेन संघृष्टं दन्तरोगनिवारणम् श्लेष्मिकदन्तरोगेषु हरीतक्या गुडेन वा ॥१२॥
घर्षणं च प्रशस्तं च त्रिफलाक्वाथसंयुतम् अहिमारकमूलस्य क्वाथो गण्डूषधारणात् ॥१३॥
खदिरस्य तथा क्वाथो यवानीक्वाथ एव च क्वाथश्च निम्बमूलस्य दन्तरोग निवारणः ॥१४॥
रक्तजे च विकारे च घर्षो लवणसर्षपैः रक्तञ्च स्रावयेत्तस्य इष्टमोष्ठपुटे च तत् ॥१५॥
विडङ्गं हिंगु सिन्धुञ्च वचाचूर्णेन घर्षयेत् क्रिमिजदन्तरोगेषु हितमेतत्प्रशस्यते ॥१६॥
जिह्वायां पिटिका यस्य जिह्वापाकं विनिर्दिशेत् वातिके सरुजा कृष्णा पित्तेन दाहसंयुता ॥१७॥
श्लेष्मणा सघना श्वेता सर्वे वै सान्निपातिके ॥१८॥
वचा भया विडङ्गानि शुण्ठी सौवर्चलं कणा घृतेन युक्तं जिह्वायां घर्षणं वातिके गदे ॥१९॥
काञ्जिकेन तु तक्रेण सोष्णगण्डूषधारणम् यष्टीकं चन्दनं मुस्ता मागधी मधुसयुतम् ॥२०॥
लेपनं पैत्तिके दोषे जिह्वास्फोटकवारणम् दुग्धेन च शीतेनापि हन्ति गण्डूषधारणम् ॥२१॥
दन्तरोगे तथा जिह्वापाके तच्च हितं विदुः रोध्रार्जुनकदम्बानां क्वाथश्चोष्णः सुखावहः ॥२२॥
श्लेष्मोद्भवे मुखपाके हितं गण्डूषधारणम् रक्तजेषु विकारेषु रक्तस्रावं च कारयेत् ॥२३॥
कण्टकेनापि जिह्वायाश्चीरयित्वा च लेपनम् मूर्वामुस्ताभयाशुण्ठीमागधीरजनीद्वयम् ॥२४॥
गुडेन मधुना युक्तं लेपनं रक्तजिह्वके मरिचञ्चवचा कुष्ठं हरीतक्याश्च चूर्णितम् घर्षणं श्लेष्मणि जाते जिह्वापाके हितं विदुः ॥२५॥ तिलपिच्छिलगौल्यादिसेवनातिद्रवादपि नवोदकेन कफजो जायते घण्टिकागदः ॥२६॥
जिह्वामूले कण्ठसन्धौ श्लेष्मरक्तसमुद्भवः तेनास्यशोषो जडता ज्वरो मन्दश्च जायते ॥२७॥
शिरोव्यथारुचिस्तन्द्रा तथास्य जडता भवेत् तर्जन्यां कण्ठमध्ये तु सम्पीड्य रक्तपन्थिका ॥२८॥
परिस्रुतं तथा रक्तं तदा विम्लापनं हितम् वचाञ्च मरिचं कृष्णाचूर्णं तत्र निधापयेत् ॥२९॥
मर्दनं स्यात्कण्ठदेशे तेन ग्रन्थिविलीयते धान्यनागरजीमूतवचाः ह्येताः समांशकाः ॥३०॥
क्वाथः स्वेदो घण्टिकाया मुखे गण्डूषधारणम् दिवारात्रौ वचाग्रन्थिं मुखे सन्धारयेद्भिषक् ॥३१॥
तेन सौख्यं भवेत्तस्य मुखरोगाद्विमुच्यते ॥३२॥
गले घण्टिकामार्गे च रक्तश्लेष्मविकारजा लम्बिका वर्धते नृणां विज्ञेया गलशुण्डिका ॥३३॥
रुन्धते चास्यमार्गञ्च नेत्रस्रावः प्रदृश्यते शिरोऽर्त्तिः श्वासकासञ्च ज्वरेणैव प्रपच्यते ॥३४॥
आशुकारी महाप्राज्ञः शीघ्रं कुर्यात्प्रतिक्रियाम् शस्त्रेण शुण्डिकां छित्त्वा कुर्याद्विम्लापनं हितम् ॥३५॥
मागधी मरिचं पथ्या वचाधान्ययवानिकाः क्वाथः सोष्णः स्वेदमायाद्गलशुण्डोपशान्तये ॥३६॥
दिवा रात्रौ यवान्याश्च मुखे सन्धारणं हितम् मर्दनं कण्ठदेशे तु तेन सम्पद्यते सुखम् ॥३७॥
सिद्धार्थकं वचा कुष्ठं रजनी पारिभद्रकम् ग्रहधूमं सलवणं कण्ठे वा लेपनं हितम् ॥३८॥
ज्वरे प्रोक्तानि पथ्यानि यानि तानि महामते न गौल्यं पिच्छिलं सेव्यं तैलं नैव गलामये ॥३९॥

इति गलशुण्डिकाचिकित्सा इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने मुखरोगचिकित्सा नाम षट्चत्वारिंशोऽध्यायः व ॥४६॥

N/A

References : N/A
Last Updated : February 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP