संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शिवाख्यः चतुर्थाम्शः| सप्तविंशोऽध्यायः शिवाख्यः चतुर्थाम्शः अणुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः शिवाख्यः चतुर्थाम्शः - सप्तविंशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव सप्तविंशोऽध्यायः Translation - भाषांतर जैगीषव्यः - कथं कालाग्निरुद्रो वाऽऽचरद्ब्रह्महणो व्रतम् । ईशाज्ञया वद स्कन्द नन्दितामरबृन्दक ॥१॥सूतः - इति तद्वचनं श्रुत्वा च चाह मुनिसत्तमम् । गजाननानुजः श्रीमान् भवस्य चरितं महत् ॥२॥स्कन्दः - ईश्वराज्ञावशाद्रुद्रः स्वीचक्रे तां द्विजाहतिम् । दिगम्बरो जटामौलिर्भस्मच्छन्नाङ्गमस्तकः ॥३॥ पादुकाविलसप्तादः कपालं ब्राह्ममुद्वहन् । दधत् सव्येन शूलं च चञ्चच्चन्द्रकलाधरः ॥४॥व्यालयज्ञोपवीतश्च धृतनागसुकुण्डलः । डमरु वादयन् घोरं देवलोकांश्च पीडयन् ॥५॥देवलोकांश्चचारासौ द्वादशाब्दं तदा द्विज । वेदांश्च श्वगणाकारान् कृत्वा कालाग्निरुद्रकः ॥६॥चचार भिक्षाव्याजेन मदविपगतिस्तदा । ब्राह्मे च वैष्णवे चैव कुबेरेन्द्रमरुत्सु सः ॥७॥वायव्ये वारुणे याम्ये नैरृताग्नि-पुरेषु च । शून्यालयेषु बभ्राम गजो नलवनेष्विव ॥८॥तत्रत्यं मधुमैरेयं पिबन् कलशजालकैः । भक्ष्यानुच्चावचान् जक्षन् गन्धानालेपयंस्तदा ॥९॥देवोद्यानस्रजा वर्ष्म शोभयन् भाति भूतपः । तं दृष्ट्वा भयवित्रस्ता देवा जग्मुर्यथागतम् ॥१०॥सा चान्वगात् तदा वध्या कृष्णाड्गी निर्णतोदरी । दंष्ट्राकरालवदना सृक्किणी लेलिहन् (?) मुहुः ॥११॥ऊर्ध्वोद्यद्विकृताताम्रकेशा रक्तारुणेक्षणा । दण्डहस्ताऽनुवव्राज रुद्रं कालाग्निसंभवम् ॥१२॥मुनिः - ईशानेक्षणतः स्कन्द न नष्टा किं तदा हि सा । यस्य स्मरणमात्रेण तन्नामोच्चारणेत हि ॥१३॥शिवेति कीर्तनादेव ब्रह्महत्या विनश्यति । तं रुद्रमनुवव्राज तद्वै विस्तरतो वद ॥१४॥स्कन्दः - लोकसङ्ग्रहणार्थाय ईशाज्ञावशतस्तदा । कालाग्निरुद्रस्तां वध्यां मानयामास विश्वपः ॥१५॥चचार देवलोकेषु तच्छृणुष्व मुनीश्वर । ऐन्द्रे व वारुणे याम्ये वैष्णवे ब्रह्मसद्मनि ॥१६॥कुबेरयक्षसदने गन्धर्वोरगसद्मनि । चचार भिक्षां रुद्रोऽसौ तैश्च संपूजितो मुदा ॥१७॥तं दृष्ट्वा कालदमनं शङ्करं कालभैरवम् । रूपलावण्यसंपन्नं नारीकुलमथाभ्यगात् ॥१८॥गायन्तं विविधं गीतं नृत्यन्तं ददृशुस्तदा । सस्मितं प्रेक्ष्य वदनं चलद्भ्रूभङ्गमेव च ॥१९॥स सेवदानवादीनां लोकानभ्येत्य शूलभृत् । जगाम विष्णोर्भवनं यत्रास्ते पुरुषोत्तमः ॥२०॥सहैव भूतप्रवरैः प्रवेष्टुमुपचक्रमे । अविज्ञाय परं भावं रुद्रस्य परमात्मनः ॥२१॥न्यवारयत् त्रिशूलाङ्कं द्वारपालो महाबलः । शङ्खचक्रगदापाणिर्विष्वक्सेनो गणोत्तमः ॥२२॥तं शूलमूलेनोद्भिद्य भ्रामयामास वेगतः । वमन् स रुधिरं वर्षं ववर्ष मुखतो द्विज ॥२३॥तत्याज जीवितं तत्र मृगो व्याघ्रहतो यथा । विवेश विष्णोर्भवनं तस्यादाय कलेबरम् ॥२४॥तं वीक्ष्य जगतो हेतुमीश्वरं जगतो हरिः । तुष्टाव प्रणतो भूत्वा तं रुद्रं हरिरव्ययः ॥२५॥विष्णुः - करकलितकपालं ब्रह्ममुण्डोरुमालं गललसदहिमालं शूलकीलाविशालम् ।मदगजवरलीलालोकनाटोकिसालं सुरकुवलयसोमं त्वां भजे कालकालम् ॥२६॥करधृतमृगबालं बालविप्रानुकूलं सुविहितगरनीलं शर्वपादाब्जलोलम् ।सुरवरदलनाद्यैर्मद्गणप्राणलीलं अनलकलितशूलं त्वां भजे कालकालम् ॥२७॥सूतः - तदा विष्णुस्तुतो रुद्रो हर्षवर्षेण भूयसा । देहि भिक्षामिहोवाच यावन्मे तुष्टिरद्य भो ॥२८॥ततो ध्यात्वा तदा विष्णू रुद्रमाह गतव्यथः । गृहाणेदं हि भगवन्नान्यैस्तृप्तिरिहाद्य ते ॥२९॥तदा त्रिशूलमूलेन तच्छिरोद्भिद्य वैष्णवम् । तद्रक्तमपिबद्रुद्रो घनघोषो हसन्मुहुः ॥३०॥नीरक्तं माधवं दृष्ट्वा तमुज्जीवयदञ्जसा । ब्राह्मं कपालमादाय तद्गणं प्रमुमोच ह ॥३१॥तेनानुज्ञापितस्तत्र ईशाज्ञावशतस्तदा । जगाम लीलया रुद्रो दिव्यां वाराणसीं पुरीम् ॥३२॥ततः सर्वाणि तीर्थानि पुण्यान्यायतनानि च ।स्कन्दः - एवं भिक्षानुशिक्षा विधिहरिसुरगट्यादसांनाथलोके याम्ये भीतैश्च देवैर्मुनिवरनिकरैर्धावितैर्वीक्ष्य रुद्रः ।उच्चैर्घोषो हसंश्च हरिगणप्रवरं शूलमूले च प्रोतं प्रेतं तद्रक्तधारां हरिशिरसिभवां ब्रह्ममुण्डेऽपिबात्ताम् ॥३३॥भीत्या रुद्रस्य धावन् भुजगशमनवत् देहयुक्तः सुरेशः तत्रापां पतिरप्यथाखुवरको ध्वांक्षोऽभवद्वै यमः ।यक्षो भिक्षणशिक्षणेन सरमापुत्रोऽभवद्भीतितः का वाऽन्यत्र कथा सुरेषु विहिता ते कान्दिशीकाभवन् ॥३४॥ विश्वेशस्य पुरीमियाय गणपै रुद्रोऽपि शर्वाज्ञया वध्या सापि तिरश्चकार सहसा रूपं स्वमापादरात् ।तच्छैलोपममण्डलप्रतिनिभं भुमौ कपालं पतत् स्नात्वाऽसौ मणिकर्णिकामलजले नत्वा च विश्वेश्वरं तत्तीर्थं समभूत कपालशमनं पुण्यं च काश्यां परम् ॥३५॥रुद्राः - निर्वाणार्णधार भगवन् त्वं शर्वरीशानन वामार्धाङ्गभुजङ्गसङ्गत महाभस्मैकसङ्ग प्रभो ।यत्काश्यां विशतां महौघनिवहं दूरेऽप्यदूरः सतां त्वं चान्नाधिपतिः सदैव मुदितो वेदेषु जेगीयसे ॥३६॥अंबाऽन्नप्रियदायिनी भगवतः पुत्रोऽप्यसौ ढुण्ढिxट् दण्ड्यान् दण्डयति प्रतिक्षणमसौ श्रोदण्डपाणिः सदा ।भीरूणां भयनाशनाय भवता श्रीभैरवः कल्पितः श्रीकर्णीं मणिकर्णिका विजयते लिङ्गालिसौधोत्तरा ॥३७॥विश्वेशान तव प्रभावमतुलं जानेत को दुर्जनो यस्मिन्नन्तकभीतिलेशरहिते त्वं चान्त्यभृषाप्रदः ।दिव्योंकारमहाध्वनिं ह्युपदिशन् मुक्त्यङ्गनाकामिनं कृत्वा भोगिफणालिहारसुगलं चन्द्रार्धगङ्गाधरम् ॥३८॥भस्माभ्यक्ततनुं करीन्द्रजमहाचर्माम्बरोद्यत्कटिं हस्ते शूलकपालमौलिविहितं नेत्रत्रयेनोज्वलम् ।उक्षाधीश्वरकेतनं गरगलं कृत्वा नरं पावनं इत्युक्त्वा प्रणतो विधीन्द्रसहितो रुद्रस्तदा निर्ययौ ॥३९॥हृष्टो हर्षपरंपरानुभवतो धाम स्वमत्यादराद्गच्छंस्तत्र जगाद सूक्तिपरमैरानन्दवर्षैर्युतः ।तच्चानन्दवनं सनन्दनमहायोगीन्द्रसेव्यं सदा यश्चात्र स्वतनुं जहाति स नरो धन्यो भवेन्नेतरः ॥४०॥रुद्रः - वाराणसि त्वयि सदैव सरोगभूमावारोग्यभूमिरित काममलीकवादः ।सन्तम्थुषां भवति यत्र वपुः सशूलं जन्मान्तरेऽपि जलभारवदुत्तमाङ्गम् ॥४१॥वाराणसीं प्राप्य बुधाः पितृभ्यो जलाञ्जलिं सादरमर्पयन्ति ।पाननि सर्वाणि ततः पितॄणां भवन्त्यहो दत्तजलाञ्जलीनि ॥४२॥ये मृष्टान्नभुजो गजोत्तमहयारोहाः स्वगेहान्तरे मत्ताभिर्महिलाभिरत्न विहरन्त्यामुक्तमुक्तास्रजः ।ते घोरास्थिधरा विराजदनडुद्वाहाः विषाहारिणो नर्तिष्यन्त्यवशात् श्मशाननिलये नीचैः पिशाचैः सह ॥४३॥दत्तं शाम्भवपुङ्गवे किमपि तत् क्षेत्रप्रभावाद्भवेत् दानं कोटिगुणान्वितं भवति तत् ख्यातं त्वयि त्वास्थया ।वासं प्रपय मुहुर्बहूनि ददतो वासांसि जन्मान्तरे लोका हन्त भजन्ति दिग्वसनतां हे काशि तुभ्यं नमः ॥४४॥इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे कालाग्निरुद्रकृतब्रह्महत्याव्रतपालन-विष्णुरक्तपान-वाराणसीगमन-कपालमोचनतीर्थवर्णन-वाराणसीस्तुतिवर्णनं नाम सप्तविंशोऽध्यायः ॥ N/A References : N/A Last Updated : April 06, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP