संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शिवाख्यः चतुर्थाम्शः|
एकविंशोऽध्यायः

शिवाख्यः चतुर्थाम्शः - एकविंशोऽध्यायः

श्रीशिवरहस्यम्


स्कन्दः -
अगस्त्योऽपि तदा जज्ञेऽङ्गुष्ष्ठमात्रो महामुनिः । अविमुक्तं समासाद्य लोपामुद्रापतिस्तदा ॥१॥
अगस्त्येश्वरसंज्ञं च प्रतिष्ठाप्य महेश्वरम् । समर्चयन् बिल्वपत्रैः फलं मूलं निवेदयन् ॥२॥
स्तोति देवं सदा काले तत्स्तुतिं श्रृणु सत्तम ।
अगस्त्यः -
पतिस्त्वं सर्वस्य श्रुतिशिरसि रुद्रस्य वचसा नमोवाक्यैर्वक्ति प्रमथपतिभक्ताश्च नभसाम् ।
वदत्येवं वेदो शिवहरभवाद्यैश्च वचनैः कथं त्वन्ये तुल्यां परमशिव शेषा हि विहिताः ॥३॥
यतो जाताः सर्वे विधिहरिहरेन्द्रार्कमरुतो दिशां नाथा रुद्रा गिरिनदिसमुद्रा ग्रहगणाः ।
यमध्यास्ते विश्वं सुरनरवरं कर्म विविधं महाभूतैश्चान्ते विलपति महेशे शिवतरे ॥४॥
भुवनगगनसंस्थं कोशकाशं महेशं सिततरमृदुकायं कल्पितं वेदसंघैः ।
दृढतरयमिचित्तच्छेदकोशैकगम्यं विलपनमधुराद्यैः सच्चिदानन्दशब्दैः ॥५॥
अहमहमिति सर्वप्रत्ययात्मानमाराद्विमृधत करुणानां अज्ञमाने हि साम्यम् ॥६॥
हिरण्यबाहुं सुहिरण्यसन्दृशं गूढं सदानन्दघनं महेशम् ।
प्रियं प्रियाणां च सबाह्यमान्तरं तं व्योमकेशं परमं च कञ्च खम् ॥७॥
देवमीशमगजामनोहरं कार्यकारणपरम्पराततम् ।
वृक्षबीजमिव वृक्षविस्तरैरेक एव भगवान् बहुत्वधृक् ॥८॥
अपारमीशानचरित्रमेतत् कथञ्च वर्णात्मकतामियान्मुने ।
रूपावलोकेऽपि स रूपभाग्मवेत् यथा स्वभक्तैर्लxणं यथाब्धौ ॥९॥
तस्मिंस्तदा तप्यमाने देवा दैत्यैः पराजिताः । जित्वा देवांस्ततो दैत्याः सागरं समुपाविशन् ॥१०॥
अदृष्ट्वा ते ततो देवाः पुरस्तस्थुरुदायुधाः । छिद्रेषु प्रहरन्त्येव देवान् दितिसमुद्भवाः ॥११॥
ते देवा गुरुणोद्बुद्वाः संस्तुवंस्ते महेश्वरम् ॥१२॥
देवाः -
भर्ग भीम भव गर्वविनाश गर्वपर्वतसुतर्जक शम्भो ।
शर्व खर्व हरिगर्वविनाश दूर्वयार्चित महार्णवसंस्थ ॥१३॥
उमारमण त्रिदशनाथ विश्वाधिक त्रियम्बक सदाशिव त्रिपुरभारसंशोषक ।
विलोकय भवाब्धिगं प्रमथनाथ पूतोभव ( ? ) प्रसीद करुणार्णव तरणिपुत्रनिर्मारण ॥१४॥
शिवेन प्रेषिता देवा घटजं प्राप्य चावदन् । दैत्यसंपीडनं तच्च सागरे तत्प्रवेशनम् ॥१५॥
दैत्यानां स मुनिः श्रुत्वा शिवध्यानार्चने रतः । देवानामुपकाराय दैत्यानां निधनाय च ॥१६॥
अपिबत् सागरं तत्र पुनः संप्रार्थितोऽसृजत् ।
रिङ्गत्तुङ्गतरङ्गसागरमहाकोलाहलोल्लासि यत्
संप्राप्य त्रिपुरारिपादभजनादङ्गुष्ठमात्रो मुनिः ।
दैत्यानां निधनाय श‘ग्करकृपापीयूषतो बिन्दुवत्
तं चैवाम्बुधिमाचमय्य स तदा चोत्सृष्टवान् शुक्लनः ॥१७॥
आनन्दकाननमवाप्य तताप हृष्टो विश्वेश्वरार्चनरतः परिपूर्णकामः ।
विन्ध्योन्नतिप्रशमनाय सुरासुरौघैः संप्रार्थितो हि जगतामुपकारहेतौ ॥१८॥
ईशाज्ञया हि स तु रुद्रगणौघसङ्घैः संस्तावितस्तु स ययौ गिरिवृद्धिनाशः ।
संनामयन् भुवि गतं शिखरैश्चकार विन्ध्यं मदोद्धतमहो दिवि चन्द्रसूर्यौ ॥१९॥
रुन्धन्तमम्बरमपारमहेन्द्रशैलमध्याससाद शिवपादयुगं स्मरन् सः ॥२०॥
इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशेऽगस्त्य ( कृत ) समुद्रयानविन्ध्योद्धतिनाशनवर्णनं नाम एकविंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 06, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP