संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शिवाख्यः चतुर्थाम्शः| पञ्चमोऽध्यायः शिवाख्यः चतुर्थाम्शः अणुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः शिवाख्यः चतुर्थाम्शः - पञ्चमोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव पञ्चमोऽध्यायः Translation - भाषांतर स्कन्दः - नन्दी रुद्रमना मौनी भस्मरुद्राक्षभूषणा । हेमन्तग्रीष्मवर्षासु स चाकाशतनुच्छदः ॥१॥फलमूलाशनस्तीव्रं तपश्चक्रे सुदारुणम् । भस्मच्छन्नो भस्मनिष्ठो रुद्रमावर्तयन् सदा ॥२॥दिवारात्रं प्रसन्नेन चेतसा पूजयन् हरम् । निद्रातन्द्रादिरहितः शिवे विन्यस्तमानसः ॥३॥शतवर्षाणि नियतं तपश्चक्रे सुदारुणम् । तपस्यभिरतं दृष्ट्वा सर्वे तत्र मुनीश्वराः ॥४॥विष्णुब्रह्मादयो देवाः व्यस्मयन्त तपस्यया । दृष्ट्वा तस्य तपो घोरं रुद्रविन्यस्तचेतसः ॥५॥सुरवित्रासजनकं देवानां भयमाविशत् । ततोन्तिमे गते वर्षे तस्मै प्रादुर्बभौ हरः ॥६॥वृषारूढो महादेवो देव्या तत्र त्रिलोचनः । ब्रह्मविष्ण्वादिभिर्देवैः सुरासुरगणान्वितः ॥७॥ नन्दिनं प्राह विश्वात्मा वत्सालं तपसा तव । कामप्रदोऽहं संप्राप्तः त्वत्कामान् पूरयाम्यहम् ॥८॥दृष्ट्वा देवं ततोन्मील्य नयने कोटिभास्करम् । उद्यन्तमिव चाद्राक्षीत् त्र्यक्षं देवं सहोमया ॥९॥नन्दी तदा प्रणम्येशं तुष्टावैवं कृताञ्जलिः ॥१०॥नन्दी - जयान्धकान्तक मखपुरस्मरगजान्तक । जय षण्मुख विघ्नेश सुन्दरस्मित संमुख ॥११॥ जय प्रणवनादादिवेदान्तवचनातिग । जय विश्वाधिकाशास्य धनवाहाघभेदक ॥१२॥ जय धीरतरामेयपन्नगाकल्पसच्छद । जय कल्याणशैलोद्यद्धरिबाण महाभुज ॥१३॥जय झङ्कारफूत्कारकृताहीश्वरसिञ्जित । जय विश्वजनाधार चन्द्रचूड चराचर ॥१४॥जय टङ्कमहाहस्तनृत्यद्रङ्गमहानट । जय नृत्यप्रभग्नोरुधराधोत्थितकामठ ॥१५॥जयाहीशमणीजालफणाविश्राणिताम्बर । जय मन्दरकैलासमौलिसञ्चारपावित ॥१६॥ जय त्रिदशकार्योद्यन्नेत्रोज्वलितमन्मथ । जय कामद कालरे भक्तशैवजनाधिप ॥१७॥जय दीनदयापर गणवीर धनाधिप । जय मन्दारसन्तान पारिजात सुचन्दन ॥१८॥जय भूतभरापार दिग्गजाधिप देवप । जय पावितलोकादे फणीश फणमौलिक ॥१९॥जय विश्वजनोद्वोध बन्धहृद्बन्धकारक । जय भद्रद भस्माङ्ग जगद्भरणतत्पर ॥२०॥जय मायामयातीत मातृमानविवर्जित । जय यन्त्रपराजय्य यजमानहराव्यय ॥२१॥जय रात्रिचराक्षय्य महेश शिवशङ्कर । जय विश्वविधानादिविनाशन महाबल ॥२२॥जय साममहानन्दस्तोभसंभवहर्षित । जय शम्भो शिवामेय शमxन्तकर प्रभो ॥२३॥जय दोषविषाकारदग्धदेवाभयप्रद । जय सर्वसुराधीश सर्वज्ञ परमेश्वर ॥२४॥जय हेतिधरापार हरहन्तहनाहन । जय ब्रह्म महाक्षेत्रसंमक्षाध्वरशिक्षक ॥२५॥मदनदमन शम्भो कालकाल प्रसीद मधुमथनकटाक्षोद्भूतपादाब्ज शंभो । वरधरगिरिकन्यानायकावद्यमुग्ध त्वयि सदय घनाब्धौ कामिता कामिताऽतः ॥२६॥द्विरदानन तात वीतशोक मुरजम्भान्तकमौलिवन्द्यपाद ।पुरवर्गानलनेत्रपालिकीलानलतूलायितकाम कामिताङ्ग ॥२७॥मदमुदितकरेणुयूथनाथोद्धृतचर्माम्बर साक्षिफाल शम्भो ।गलतरलगल प्रसीद विश्वाधिक कालान्तक पाहि मामनाथम् ॥२८॥सूतः - उपलशकलकणाशनात्मजो महेशं प्रणनामेन्दुकलाधरं महात्मा ।वचसा मनसा मुनिर्महेशं करणानन्यगतेन भक्तियुक्तः ॥२९॥सुरसायनवाक्यपुष्पमालासुरमालायितशम्भुपादपद्मे ।विरचय्य स चन्दनादि वन्द्ये जगदाद्ये भगवत्यथैव नन्दी ॥३०॥इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे नन्दिकेशतपः-शिवप्रादुर्भाव-शिवस्तुति वर्णन नाम पञ्चमोऽध्यायः ॥ N/A References : N/A Last Updated : April 06, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP