संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शिवाख्यः चतुर्थाम्शः|
विंशोऽध्यायः

शिवाख्यः चतुर्थाम्शः - विंशोऽध्यायः

श्रीशिवरहस्यम्


जैगीषव्यः -
स्कन्दानन्दितमन्दारमन्दरप्रियहर्षितः । घटोद्भवो महायोगी शिवभक्तवरो द्विजः ॥१॥
तरङ्गमालाकलितमपिबत् सागरं कथम् । कथं गर्भे वसन् योगी शिवज्ञानमवाप्तवान् ॥२॥
व्यासस्य पुत्रो भगवान् शुकः शुग्रहितो वद । तदद्य संप्रधार्याशु वद मे शूरसंहर ॥३॥
स्कन्दः -
अत्र ते वर्णयिष्यामि शांभवानां विचेष्टितम् । शम्भुभक्तः पुरा कुम्भसंभवोऽम्भोधिपानकृत् ॥४॥
मित्रावरुणसंभूतः तत्पितुर्मेनकाप्सराम् । दृष्ट्वा चस्कन्द कुम्भे वै ऋषेस्तस्य महात्मनः ॥५॥
घटोद्भवोऽ‍भवन्नाम्ना महर्षिः संशितव्रतः । वसिष्ठोऽपि महाविप्रो जातस्तस्मान्महामुने ॥६॥
कल्माषपादनिहतं स्वस्य शक्तितनूभवम् । तपसा शम्भुभक्त्या च व्यासः पौत्रात्मजोऽस्य हि ॥७॥
व्यासो जज्ञेऽमिमतप्रज्ञः तत्र विप्र पराशरात् । स बदर्यां तपस्तेपे वर्षायुतमनन्यधीः ॥८॥
भस्मरुद्राक्षसंपन्नः शिवलिङ्गार्चने रतः । पञ्चाक्षपरो नित्यं रुद्रविद्राविपातकः ॥९॥
संस्तुवन् परमेशानं शुकं पुत्रमवाप ह । गर्भेऽप्युपादिशत् शम्भुः ज्ञानं तत्पारमेश्वरम् ॥१०॥
व्यासः -
उर्वी मौर्वी रथाङ्गौ शिखिशशिहरयो बाणतूणस्तथाब्धिः
यन्ता धाता विधाता उरगतुरगका वेदसङ्घार्कचन्द्राः ।
लीलां तेऽद्यानुलोके ललितदृगुदये ज्वालकीलावलीढं
मुग्धं मुग्धेन्दुचूडत्रिपुरवरपुरं संभृतैः किं तवान्यैः ॥११॥
धराधरकुमारिकावर कपालपाणे हर प्रसीद परमेश्वर स्मरहराद्य गङ्गाधर ।
पयोधिशयबाणधृक् गरधृगुर्वीधर धराधरणधारण प्रणतहृत्पयोजान्तिक ॥१२॥
अनाथजननाथ ते दिवसनाथ नेत्रेण मां विलोकय सनाथय प्रमथनाथ लिङ्गार्चकम् ।
समन्मथशराहतिप्रमथितान्तरङ्गं हि मां अनाथमगजापते अव हि विश्वनाथाधुना ॥१३॥
तत्स्तुत्या तोषितः शम्भुस्तस्मै पुत्रं ददौ शुकम् । गर्भान्निसृष्टमात्रः स स्तुवन्नीशं वनं ययौ ॥१४॥
शुकः -
पतङ्गदृगपाङ्गतो भवभुजङ्गभङ्गो भवेत् समुल्लसितपल्लवैर्भजति मुक्तिवलीव माम् ।
कुरङ्गकिणसङ्गदृक्प्रसरतोऽद्य सांसारिकं रुजं हर दयाधनैर्वितर दृष्टिवर्षं मयि ॥१५॥
निशापतिकलाधरं कुलिशपाणिसंपूजितं सुशोभिजटजह्नुजामृडशिखण्डचूडाधुना ।
दृढं तव पदाम्बुजं शिव भजामि हृत्पद्मके शिवासख सुखं सदा शिखिसखाकृते पाहि माम् ॥१६॥
शान्तं दान्तहृदन्तरे सुविहितं यान्तं वृषेन्द्रेण तं
स्वान्तस्थं सकलेषु भान्तमखिलं तान्तं सदा पोषकम् ।
वान्तप्रायभवेषु तुच्छितधियं तं मुक्तिकान्ताप्रियं
देवं दान्तशमप्रशान्तमनसा यामीषणावर्जितः ॥१७॥
अम्बरकेशसुशम्बरवैरिन् त्रिपुरहराम्बरहृदि विहर ।
मुरहर शङ्कर द्विरजवरानन शरवणभवनुत परिपाहि ॥१८॥
एकैवास्मि न संशयस्त्रिभुवने नेहास्ति नाना जगत्
मिथ्यैवाहिभयं यथा मरुमरीच्यार्द्रीकृता भूर्भवेत् ।
शुक्तौ यत् कलधौतवन्मृदि महाकुम्भोपमानं तथा
वाचारम्भणमेव युक्तिजनकं कार्यं न वै कारणम् ॥१९॥
यद्भासा जगदद्य भाति नितरां सूर्यानलौ वायवो
भीत्या भान्ति स्वतेजसामपि परं जानन्ति नो मां स्थितम् ।
को मोहो मयि पश्यतां स्थिरचरं त्वेकत्वनानात्वधी -
र्भिद्यत्येव विभेदभावजनकं त्वज्ञानमेतत् स्फुटम् ॥२०॥
ईशावास्यमिदं जगत् श्रुतिशतैः प्रोक्तं च तद्भेदधीः
नो कश्चिद्विनिवर्तते च यतते मोक्षाश्रमे श्रान्तियुक् ।
त्वद्भक्त्या विमुखः सदैव हि वृथा बोधाद्भवे भ्रश्यते
बुद्ध्या वृद्धधियो भवन्ति च वृथा किञ्चायुषोऽ‍न्ते नराः ॥२१॥
विद्या सुद्योततेऽन्तर्हृदि जटिलतमो भिद्यते खिद्यतेऽन्तः
खद्योतद्युतिवत् सविद्युत इमा नो भान्ति चन्द्रानलाः ।
यूकाशूकसमो मयूखसमहामाली च लीला हि ते
घूकास्तर्कवितर्कजालजटिला विध्वंसितास्त्वद्दृशा ॥२२॥
सीमाभूमा त्वमीशो दृढतरमहिमा त्वत्पदाब्जे किलैको
यस्त्वां ध्यायति ध्यानहीनवपुषा स त्वं त्वमात्मा परः ।
नो तत्र त्रिपुटीकुटीरकुटिल चित्तं निटालेक्षण
लक्ष्यात्मा त्वपलक्षलक्षितहृदा त्वं वेत्सि तं त्वामनु ॥२३॥
शमितो मृगतृष्णिकेव भूमौ मृगदृष्टयैव स एव बन्धहेतुः ।
सुभवोद्भवपादसेविनां सुगमा वै निगमागमोरुशीर्षाः ॥२४॥
पदजातप्रकटप्रभावबोधैरहमेव त्वमसि क्क भेदहेतुः ॥२५॥
तन्त्रयन्त्रकृतमन्त्रविभक्तैर्मान्त्रिकोऽहमिति धीर्न विमुक्त्यै ।
भेदभानकलनाविचारतः त्वां न जानत इमे पशवः स्युः ॥२६॥
युक्तियुक्तमपि भुक्तमखेदं भक्तमेव विगुणं न तु भुक्त्यै ।
मुक्तिमार्गफलने श्रुतिसूक्ता वक्ति तत्वमसि वाक्यतोऽर्थवत् ॥२७॥
बहुत्वेऽप्येकत्वे भ्रमभवनतान्ताः किल नराः न चैकं द्वित्वं वा श्रुतिशिरसि वाक्यार्थकलने ।
न बन्धो मोक्षो वा न परमवरो नापि हि नरः चकास्ति ब्रह्मेदं परमशिव एको ध्रुवसुखः ॥२८॥
वित्तपित्तमपनीय चित्ततो हृत्तमो रसदृशा परिधूय ।
कर्तृतामपि निजात्मविद्यया भोक्तृतामपि सदात्मदर्शनात् ॥२९॥
दर्शनं च हृदि तत्र विलाप्य प्रपतकामकलनो दलिताशः ।
मूलकूलजनितामथ विद्यां हृद्यमेन परिधूय अविद्याम् ॥३०॥
उमाजाने जाने तव भव यदार्तं जगदिदं न जाने तद्भिन्नं शिव भजनबोधैर्गुरुजनैः ।
रमाजानेर्जानिं जनिमृतिनिदानादिविमुखं महीजानेः सौख्यं लवशतसुराणां मम कियत् ॥३१॥
तर्कैस्तर्कितुमप्यशक्तकरणैर्मीमांस्यमेतन्न वै शब्दैश्चापि जडैश्च तन्त्रनिवहैः दृश्यः किमात्मा भवान् ।
मनःक्लृप्तास्तर्का गुणगुणजबुद्धिप्रतिभुवो विचारं चेतो यत् तदपि शिव मीमांसकमतम् ॥३२॥
यतः शब्दो वाग्भूर्मनवचनदरे त्वमसि दृक् न वै जातं किञ्चिन्न च भवति संप्रत्यति भवत् ।
न वै कार्यं तस्य प्रभुरणुरपि स्थूलमपि न न रूपं त्वग्गन्धो न रसरसना वापि भगवन् ॥३३॥
त्वमात्मा स्वे धाम्नि स्थित इव विभासीदमखिलं न चोपाधिर्भूतान्यखिलतनवः कल्पितधिया ।
महाविद्यामोहाद्विविधतग्शास्त्रस्य विषयं अविद्यावत् सर्वं भवति त्वयि दृष्टे परतरे ॥३४॥
तदेतत् त्वं चापि त्वमहमिति दृश्यं च न हि दृक् अखण्डे पिण्डाण्डप्रभवविहिते बुद्धिकरणे ।
ततो जातं शास्त्रं तव शिवद बोधे कथमिदं जडं चेतोवाग्मिः प्रतिपदविमृश्यं भवशतैः ॥३५॥
कुxर्कैर्नानेव प्रभवसि च भक्त्यैव सुकरः ॥३६॥
श्रद्धां ते श्रुतिराह सौम्यपुरुषेत्येतत् परे निर्गुणे
सांबे रूपगुणैकवाग्विषयके नाम्न्यर्चने वा त्वयि ।
प्रारब्धान्तिमसंभवेन हि पथा योऽयं चकास्ते यथा
यावच्चाप्यधिकारसाधनपदं तस्य त्वमात्मा सदा ॥३७॥
कुटिलजटिलशब्दतर्कजालैः श्रुतिहरिणीं भषन्ति वाक्श्रमास्ते ।
गुणगणविहिताः शुनां गणास्ते तव भक्त्या रहिताऽप्याबुद्धबोधाः ॥३८॥
मिथ्या जगद्युगभवाः प्रतिकल्पमेवं मूढा गुणप्रभवतो मुनयोऽपि चान्धाः ।
शास्त्राणि तन्वत जगत्परिवंचकास्ते पूर्वापरोरुवचनैः स्वधियैव मुग्धाः ॥३९॥
तस्मात् तान् परिवञ्चसेऽद्य भगवन् नानार्थशास्त्रभ्रमैः
मिथ्यावर्णनिबन्धनाश्रमगणश्रान्तान् वितर्कें रतान् ।
तांस्तांस्तद्भवभावबोधसहितान् स्वर्गभ्रमे दुःखितान्
यातायातशतेषु दुःखभवने याम्ये च दुःखोत्कटान् ॥४०॥
स्वमतिमतकृतं वितत्य शास्त्रं परिनिन्दत्यनिशं विहाय वेदान् ।
तव मायामयपाशबद्धकीशाः फलजालेषु वृथैव वर्धिताशाः ॥४१॥
अशनवसनमात्रसाभिलाषाः भ्रमतोऽन्योन्यमुपासकाश्च भण्डाः ।
गुणखण्डहृदा वदन्ति युद्धे मधुमाद्यन्मधुपा यथैव भण्डाः ॥४२॥
केचिन्मुण्डाः कुटीलजटिलाश्चक्रतप्तास्तथान्ये नग्ना बौद्धाः श्रमणनिचयास्तुङ्गलिङ्गं वहन्तः ।
विप्रा वर्णाश्रमवरभरा हिंसवा स्वर्गकामाः कामारातौ विमुखहृदया ज्ञानहीना भ्रमन्ति ॥४३॥
कुरङ्गा मोहान्धा मरुजलधिबुद्धयातपतपाः यथा धावन्तीश प्रशिथिलधिया तर्षितजलाः ।
तथेमे मोहान्धाः हृदयदह्रे त्वामधिवप्तं भवन्तं हित्वैव प्रभवमरणैर्भ्रान्तिवशगाः ॥४४॥
अभेद्यं भेद्येषु प्रकटरहृत्पद्मसदनं अविद्यातं ज्ञातं निरवधिकसच्चित्सुखचपुः ।
भवन्मायामोहाद्भ्रमति परमानन्दविमुखं जलल्लोकालोकं सुसस्वरतिर्यग्गतधियम् ॥४५॥
नाहं न त्वं न चेमे भव भवभवं वै गतभयः ( ? )
सदानन्दं सान्द्रं विरलमपि भेदं नहि मनाक् ।
अखण्डं पिण्डाङ्गं न च भवति कार्यं च करणं
न मोक्षो नो बन्धो भवति भवदालोकनवशात् ॥४६॥
अनुभवमिदमेव वेदवेद्यं यदि हित्वानुभवे भवोद्भवाद्यम् ।
अनुभवशतकोत्थकर्मचित्रं न हि नाशाय भवोद्भवेषु तस्य ॥४७॥
शान्तं वेदवचोभिरीडितपरः स्वान्तं निशान्ते सदा
चिन्तशान्तनितान्तशान्तमनसा कोहं कथं वै जगत् ।
नानास्तीति विचार्य वेदनिवहैर्मुक्तः स युक्तो भवेत्
तद्ध्यानेऽपि च दुर्लभो यदि भवेत् रूपं तव प्रेमकृत् ॥४८॥
स्वान्तं शान्तमनन्तमव्ययमुमाकान्तं सदा चिन्तयेत्
तेनैवाशु विनाशिताघनिचयो भूयात् प्रमोदाधिकः ।
कामारातिपदाम्बुजार्चनरतो भस्माक्षधृड्मुक्तये ॥४९॥
यावत्कायमयाय दायकमिदं कामस्य यत् सायकैः
भेद्यं वेद्यशतैः चिकित्सितवयः पाके उपायैरपि ।
तस्मादेवमुमासाहयमधुना ध्याये विनाश्यं सदा
हायं जन्मविनाशभोगरहितो यावद् दृढाङ्गः सदा ॥५०॥
धनगणगणनाविनाशकाले विगुणैवेह सदा मदाय देहे ।
गणगणविनतं यदा प्रपद्ये त्रिगुणातीतगुणस्तदा मुदाऽहम् ॥५१॥
शर्वाणीरमणार्चनेन हि सदा वाताद्भयं सर्गतो
गर्वेणापि अखर्वपातकवरैः किं नो भयं संसृतेः ।
मय्यानन्दमयोनिधौ सुरसरित्कूलाः प्रयान्त्येव ते
शम्भोः शम्भुव एव पादकमलामोदैकमाद्यं मनः ॥५२॥
इति सन्ततमन्तकान्तकं विमृशन्तः स्वहृदा प्रकाशमानम् ।
शमितेतरसङ्गभङ्गतः स्वत एवात्र भवन्ति ते ह्यसङ्गाः ॥५३॥
सूतः -
गर्भे वसन्नपि शुकxxस तदा हि भर्गं स्वात्मानमेव कलयन् स जगाम् मुक्तः ॥
पित्रानुरक्तदहृयेन सहातिमात्रं व्यासाय सो‌ऽप्यखिलगः प्रददौ हि वाचम् ॥५४॥
इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे शुकमहिम्नं ( ? ) नाम विंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 06, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP