संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शिवाख्यः चतुर्थाम्शः|
अष्टमो‍ध्यायः

शिवाख्यः चतुर्थाम्शः - अष्टमो‍ध्यायः

श्रीशिवरहस्यम्


चण्डीशः -
जगज्जनक शङ्कर प्रमथनाथ विश्वाधिक प्रसीद सदयाधुना भयहराव्ययेश प्रभो ।
महीरथ गराशन त्रिनयनारविन्दानन तुरङ्गनिगमाधिकं मयि महाघमेतद्धर ॥१॥
द्विरदरदनिकाशदेह शम्भो उरगाधीशमहोरुहार पाहि ।
करिचर्माम्बर शूल एणहस्त शम्भो तटिनीचारुकलाधरोरुमौले ॥२॥
उक्षाधीश्वर चारुकेतन महाविश्वाधिकेशान ते पादद्वन्द्वपयोजपूजनपरं लोके पितृघ्नं हि माम् ।
वीक्ष्य त्र्यक्ष दयारसार्द्रसुदृशा पाहीन्दुमौले हर वामाङ्गाम्ब महेश्वर प्रथय मां प्य्ण्यैश्च पापैर्विना ॥३॥
कक्षाणां च पते रमापतिलसन्नेत्रांघ्रिपङ्केरुह त्वद्धयानामृतधारया जगदिदं संप्लावयामि द्रुतम् ।
स्वन्नामोच्चरणेन भर्जितभवः पापौघपातैर्विना त्वत्पादाम्बुरुहार्चनेन भगवन् मुक्तो भवेयं त्वघैः ॥४॥
रविशशिहुतभुक्त्रिधामनेत्रो ज्वलशूलानलदग्धकालकाल ।
कृतहालाहल नीलकण्ठ शम्भो परिपाहीश्वर देवसार्वभौम ॥५॥
भव भर्ग महेश भीम शङ्कर त्रिदशाधीश्वर सर्पजालमाल ।
अव भव दयया रसार्द्रलोकैः परिमुक्तोऽस्म्यघतः तवेश शम्भो ॥६॥
हर हर भगवन् पुरप्रहर्तः कुरु करुणां शशीधामचूढ शम्भो ।
गरधर हरिशर गिरिवाह परिपाहीश्व देवसार्वभौम ॥७॥
संक्रन्दन भुजखण्डन वरतर करुणारुणाक्ष देव प्रथितामोद पदाब्ज देव शम्भो ।
यमभटपटलीविदूरिताघ ज्वलधीरामरदेवसार्वभौम ॥८॥
मन्दारब्रुन्दमुनिवेदकदम्बगीत गोविन्दपूज्यपदपद्म सनन्दवद्य ।
मन्दारसुन्दरससदम्बुरुहोरुमाल देव त्वमेव निखीलेन्दुकलाललाम ॥९॥
अहीशमणिकुण्डलं रविजमण्डलान्तर्गतं गणेन्द्रकृतताण्डवप्रियमपारपिण्डोज्ज्वलम् ।
भजामि कनकाचलोल्लसितवामहस्ताम्बुजं मुरारिशरकाण्डतोज्वलसुदक्षपाणिं भजे ॥१०॥
उरगतुरगहेषहारप्रतुष्टं घनवाहामरबृन्दसार्वभौमम् ।
अजगजनिधनं प्रकृष्टनृत्तं भज फालस्फुरदुज्ज्वलत्रिपुण्ड्रम् ॥११॥
करुणावरुणालयं महेशं शरणं यामि शरण्यमीश्वरम् ।
अरुणाधिपकारणं महेशं धरणीधृग्वरहारमीशितारम् ॥१२॥
कुमुदकमलगन्धवाहमित्रनेत्रं दहराकाशगतं भजामि शम्भुम् ।
श्रुतिशतविनुतापदानमीशं हरिपद्मासनमार्गितोत्तमाङ्गमूलम् ॥१३॥
सूतः -
तत्स्तुत्या तोषिथ शम्भुः भगवानगजापतिः । वृषारूढोऽम्बिकायुक्तः श्वेताद्रिशिखरोपमः ॥१४॥
गणबृन्दैः परिवृतो ब्रह्मविष्ण्वादिभिः सुरैः । त्रिनेत्रो नीलकण्ठश्च जटाबद्धेन्दुखण्डधृक् ॥१५॥
कुण्डलीशमहाहारकुण्डलद्वयमण्डितः । चण्डताण्डव सन्नाह नटभृङ्गिरिटिः पुरः ॥१६॥
स्तुवतां देवसंघानां जयेशेति मुहुर्मुहुः । नारदोद्गीतसुभगवीणानिक्कणसंस्तवैः ॥१७॥
छत्रचामरङ्क्तीभिः पताकाभिरलंकृतः । चण्डिकेशमथाद्राक्षीत् तदा नेत्रेण शङ्करः ॥१८॥
लुठन्तं पितरं तस्य भग्नसक्थिमसृग्युतम् । असृगाक्तं तदा वीक्ष्य करुणाभिरतः शिवः ॥
तद्देव्यै दर्शयामास भक्तिं तां चण्डिकेशजाम् ॥१९॥
शिवः -
पश्य त्वं चण्डिकेशानं करुणारसलोचनैः । मद्भक्त्या पितरं चापि हतवानयमुत्तमः ॥२०॥
मद्भक्त्यैवायमधुना रक्षणीयस्त्वया शिवे । तवामृतालोकनेन समुज्जीवेत् पिता‍ऽस्य हि ॥२१॥
भग्नसक्थिश्च विप्रोऽसौ कणभद्रो महामुनिः । गाणपत्यं दिशाम्यस्मै चण्डिकेशाय सांप्रतम् ॥२२॥
इत्युक्तमात्रो ( त्रे ) देवेन प्राञ्जलिः परमेश्वरम् । त्वं पितास्यथवा माता बन्धुर्भ्राता त्वमेव हि ॥२३॥
नास्य भक्त्या समः कोऽपि न दृष्टो नैव विश्रुतः । कृपावलोकनाच्छम्भोः उत्थितस्तत्पिता मुनिः ॥२४॥
पश्पर्श चण्डिकेशानं शन्तमेनाथ पाणिना । प्रमथाधिपतेस्तस्य पाणिस्पर्शेन सत्तमः ॥२५॥
शिवसंस्पर्शनादेव स बभूव गणोत्तमः । गङ्गातरङ्गमालाढ्यः तज्जटामलमण्डनः ॥२६॥
त्रिणेत्रो नीलकण्ठोद्यद्वृत्तबाहुचतुष्टयः । महाहीन्द्रमहाहारः सोमखण्डैकभूषणः ॥२७॥
भस्मत्रिपुण्ट्रुद्राक्षापुण्डरीकाजिनोज्ज्वलः । सारूप्यं देवदेवस्य प्राप्यायं चण्डिकेश्वरः ॥२८॥
शिवं नत्वावतस्थे स पित्रा सविनयाञ्जलिः । पुरः स्थितं च पित्रा तं महादेव उवाच ह ॥२९॥
ईश्वरः -
चण्डक्रोधोऽसि चण्डीश पितरं हतवानसि । चण्डिकेशेति ते नाम भविष्यति गणोत्तम् ॥३०॥
अगण्यय्य पितृस्नेहं पितृत्वं श्रुतिसंमतम् । मद्भक्त्यैव हतो यस्मात् समुत्तीर्णोऽ‍सि पापतः ॥३१॥
मातापितृगुरुद्रोहैः पञ्चपापोपपातकैः । मद्भक्तिभावयुक्तश्चेत् मुच्यते नात्र संशयः ॥३२॥
भक्तानां मम पापैश्च न लेपो विद्यते गण । इत्युक्तं तत् शिवेनोक्तं श्रुत्वा तौ दम्पती तदा ॥३३॥
प्रणम्य परमेशानमनुज्ञाप्यान्यमुत्तमम् । ययाचेऽन्यं सुतं स्वस्य वंशकर्तारमीश्वरात् ॥३४॥
तमालिङ्ग्याथ चण्डीशं नतौ तत्राभिजग्मतुः । ततो देवेन तौ चापि प्रीत्या तत्रानुमोदितौ ॥३५॥
यावत्कालं विहृत्यैव यातं कैलासमेव मे । यत्र शैव पिता वास्य जननी वा तदुद्भवाः ॥३६॥
सर्वेषां मम कैलासे वास इष्टफलप्रदः । पुत्रोऽस्तु वां चण्डिकेशो गणपोऽस्तु सदा मम ॥३७॥
ब्रह्मविष्णुप्रभृतिभिः पूजितः सन्निधौ मम । यत्र कुत्रालये मे‍ऽद्य कैलासे नित्यमेव हि ॥३८॥
एतस्य दर्शनेनैव फलदं दर्शनं मम । इति देववचः श्रुत्वा तावूचतुरतन्द्रितौ ॥३९॥
मुनिमुनिपत्न्यावूचतुः -
देवदेव करुणा वरुणाब्धे पाहि पाहि दयया तव सूनुम् ।
पाहि नौ तव पदाम्बुजार्चकौ देहि वाऽन्यमपि मे कुमारकम् ॥४०॥
तथेति विनयानतावनुसुगृह्य देवोऽपि तौ तमाह विनयानतं निखिलदेवमौलिः शिवः ।
दयाघन दृशानया मुनिवरात्मजं सुस्थितं विलोक्य भजतामसौ भवदवार्तिनाशो हरः ॥४१॥
ईश्वरः -
धन्यश्चैव पिता पितामहपिता माता तथा भ्रातरः
तन्मातामहपङ्क्तिरप्यतुलिता तद्बान्धवास्तत्सुताः ।
एतन्मे क्षणमात्रमप्यगसुताकान्ताङ्घ्रिण्ङ्केरुहं
ध्यातं पूजितमन्वहं त्रिजगतां मुक्तिं ददाति ध्रुवम् ॥४२॥
गोघ्नो वापि कृतघ्नतस्करवरौ मातापितृघ्नोऽपि वा
नित्यं शङ्करलिङ्गपूजनमतिर्धन्यो मदन्यो न हि ।
तस्मै तां वितरामि मुक्तिमतुलां वेदान्तसंघस्तुतां
भुक्तिं चापि सुरेन्द्रवन्दिविनुतां भक्तिप्रभावान्मयि ॥४३॥
मद्भक्तः श्वपचोऽपि वा यतिवरो लिङ्गार्चकश्चद्वरो
रुद्राक्षामलभस्मपुण्ड्रनिलयो मान्यो द्विजानामसौ ।
विप्रोऽप्युज्झितभक्तिसारहृदयो ज्ञेयो भुवो भारवत्
विद्वान् वेदचतुष्टयोत्तममतिः पापी परं रासभः ॥४४॥
धन्यो मान्योऽसि भूमौ दिविवरगपैः स्वीशपादानुरक्तः
मत्पादाब्जं प्रपन्नो मम निजमहिमाधामसंस्थः सदा त्वम् ।
मल्लिंगोत्तमदर्शनेऽपि फलदः त्वं चण्डपापापहः
चण्डीशान भवाद्य सर्वजगतां मान्यः सदा त्वं नृणाम् ॥४५॥
इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे चण्डीशस्तुतिचण्डीशसारूप्य-गाणपत्यशिवदर्शनफलप्रदत्वादिवरदानं नामाष्टमोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 06, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP