संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शिवाख्यः चतुर्थाम्शः|
षड्विंशोऽध्यायः

शिवाख्यः चतुर्थाम्शः - षड्विंशोऽध्यायः

श्रीशिवरहस्यम्


स्कन्दः -
विधिर्विधिवशाद्विप्र कृत्वाऽऽगो दुष्करं पुरा । न निष्कृतिस्त्रिनेत्रस्य प्रसादेन विनास्य यत् ॥१॥
ब्रह्मघ्नो मद्यपः स्तेनो गुरुतल्पगतस्तथा । तत्संयोग्युपपापाश्च कलौ ते मुक्तपातकाः ॥२॥
भविष्यन्ति न निन्दन्तः शिवस्य परमात्मनः । नानिष्कृत्य विनाश्यं तदिति मत्वा प्रजापतिः ॥३॥
पञ्चभूतात्मिकां सृष्टिं पञ्चकोशसमुद्भवाम् स्वात्मजेषु निवेश्याथ स तदा विधिरुल्बणम् ।
निन्दनाच्छङ्करस्याप पापं दुःखं महत्तरम् ॥४॥
जैगीषव्यः -
कथं किमर्थं देवेशं वेदेड्यं परमेश्वरम् । निनिन्द निन्दितमनाः केन कार्येण सत्तण ॥५॥
वदैतत् सविशेषेण ( ? ) स्कन्दानन्दघनाव्यय ॥६॥
स्कन्दः -
पूर्वमेकार्णवे घोरे पञ्चवक्त्रः प्रजापतिः । वितत्य सृष्टिमखिलां तेन गर्वेण मोहितः ॥७॥
दृष्ट्वा साश्चर्यमत्युच्चैः जहासारुणलोचनः ।
ब्रह्मा -
मयेदं सृज्यते विश्वं कारणं जगतस्त्वहम् । प्रजापतिरहं साक्षात् कः समो मम सांप्रतम् ॥८॥
इति गर्वेण संयुक्तं रुद्रं वीक्ष्याऽऽह शङ्करः ॥९॥
ईश्वरः -
छिन्धि तस्य शिरो रुद्र ब्रह्मणः पञ्चमं महत् । कालाग्निरुद्रो निर्देशाद्भवस्य परमात्मनः ॥१०॥
ब्रह्मणश्च शिरस्तेन छिन्नं नियुतयोजनम् । तमाह पद्मजं खिन्नं प्रणष्टोरुशिरोधरम् ॥११॥
मन्निन्दनाच्च संप्राप्तं ब्रह्मंस्ते पश्य तत्फलम् । इत्युक्ते देवदेवेन प्रणम्यास्तुवदीश्वरम् ॥१२॥
ब्रह्मा -
शशिधामकलाललाम फालानल नीलामलकण्ठ देव शम्भो ।
कृतमालतमालपुष्पमालाकलिताजैककपालशूल पाहि ॥१३॥
यो देवः श्रुतिशेखरैर्मृगयते(?)जानन्ति यं वै हृदा
जातं येन समस्तवास्तुविषयं यस्मै च सर्वे नताः ।
यस्मान्नापरमस्ति यस्य सततं लिङ्गार्चकास्ते सुराः
यस्मिन् विश्वमिदं प्रयाति च लय वन्दे पशूनां पतिम् ॥१४॥
स ब्रह्मवचसा रुद्रं गतगर्वं प्रजापतिम् । उवाच वाचा प्रसभं महेशो भक्तवत्सलः ॥१५॥
ईश्वरः -
कपालपाणिर्हि भवानस्य ब्रह्महणो व्रतम् । द्वादशाब्दावधि सदा भस्मछन्नकलेबरः ॥१६॥
रुद्रमावर्तयन् रुद्र देवलोकेषु संचर । भिक्षाशी विगतैनस्को भविष्यसि विमुक्तये ॥१७॥
पतिष्यत्यवशेनैव कपालं त्वत्कारग्रतः । ब्रह्माऽ‍प्ययं मुक्तपापो भविष्यति मदर्चनात् ॥१८॥
तच्छ्रुत्वा शाङ्करं वाक्यं प्राह रुद्रो महेश्वरम् । तव द्रोहः किंप्रकारः का वा त्वद्द्रोहिणो गतिः ॥२०॥
सा केन नाशमायाति कृपया वद मे प्रभो । तदुद्रायावदच्छम्भुर्ब्रह्मणः श्रृण्वतस्तदा ॥२१॥
शिवः -
श्रृणु कालाग्निरुद्र त्वं ब्रह्मंस्त्वमपि सत्तम । अनिष्कृतिपरं(?)त्वेतन्मद्द्रोहाणां परम्परा ॥२२॥
ब्रह्मघ्नो मुच्यते कल्पे तथान्ये तारतम्यतः । महापापोपपापेभ्यो मद्द्रोहे नैवं निष्कृतिः ॥२३॥
शास्ताऽहं मोचकस्तेषां न यमो भैरवो न हि । श्रृणु द्रोहं मदीयं त्वं ब्रह्मणा दुरसत्तम ॥२४॥
मद्भक्तनिन्दनं रुद्र निन्दनं द्रोह एव मे । मद्भस्मनिन्दनं रुद्र मद्द्रोहः परमो मतः ॥२५॥
मदुद्राक्षमहानिन्दा मद्द्रोहः परमो मतः । त्रिपुण्ट्रधारिणां निन्दा मद्द्रोहः परमो मतः ॥२६॥
रुद्राध्यायजपे निन्दा मद्द्रोहः परमो मतः । पञ्चाक्षरस्य निन्दा च अन्यमन्त्रसमत्वधीः ॥२७॥
मन्नामजपनिन्दा च तथा मत्क्षेत्रवासिनाम् । अन्यक्षेत्रोपमानेन दर्शनं द्रोह एव मे ॥२८॥
शिवलिङ्गस्य निन्दा च मद्द्रोहः परमो मतः । शिवलिङ्गार्चनासाम्याद्विष्णुरूपादिपूजनम् ॥२९॥
मद्द्रोह एव परमः सुघोरो नरकावहः । तप्तचक्राङ्किनालापभोजनं सहभाषणम् ॥३०॥
ऊर्ध्वपुण्ट्राङ्कनं मोहात् मद्द्रोहः परमो मतः । अनुद्धूलितदेहेन अग्निरित्यादि भस्मना ॥३१॥
ऊर्ध्वलिङ्गेन लिङ्गार्चा मद्द्रोहः परमो मतः । रुद्राक्षमस्मपुण्ड्राङ्कविहीनेनार्चनं मम ॥३२॥
शिवालयानां तीर्थानां भेदनं द्रोह एव मे । गावो धान्यं धनं वस्त्रं घृतं तैलं तथा मधु ॥३३॥
शिवोपकरणं द्रव्यं हृत्वा भक्तस्य वा विधे । अन्यधर्मेऽपि संयोज्य मद्द्रोहायैव कल्पते ॥३४॥
स धर्मो धर्मनिर्मुक्तः पापायैवाशु कल्पते । मद्द्रोह एव परमः सुघोरनरकप्रदः ॥३५॥
ब्रह्मविष्ण्वादिसाम्येन मयि धीर्नरकावहा । मद्भक्तस्यान्यभक्तेन सादृश्येनाभिवीक्षणम् ॥३६॥
प्रदोषसोमवारेषु भूतकालाष्टमीषु च । वेदे गुरौ च वेदान्ते प्रद्वेषः शिवयोगिषु ॥३७॥
दिवैव भुक्तिर्मोहेन सुघोरनरकप्रदा ॥३८॥  
यथा मयोक्तं हृदि धार्यमेतत् न हि प्रकाश्यं भुवि मानुषेषु ।
मद्द्रोहनिष्ठालयमेव याम्यं घ्रों परं मोहददुःखदं सदा ॥३९॥
सन्तप्तचक्रक्रकचैर्विषोल्बणै
राशीविषैर्माxलसद्धृदाविलैः ।
पूयैः शोणितगन्धमेदुरमहाकाकोरुस ताडनैः
उत्कोशीकृतखण्डताडनमहाकुम्भादिण्ङ्कैरपि ॥४०॥
सन्तप्तायसवालुकादिलुठनैर्घोरैर्वणासेचनैः
क्षारैः सूचिमुखैर्विलूनमुखजापादाङ्गसन्धावपि ।
मद्द्रोहप्रवणाः सदैव नरके सन्तप्तदु खौघकाः
कल्पान्तेऽपि न मोचिता मम कृपालेशैः परं वर्जिताः ॥४१॥
यावद्ब्रह्मपरंपरा हरिहराश्चेन्द्रा मनूनां क्रमः संप्राप्यै महौघदुःखमगजाकान्तार्चनावर्जिताः ।
एवं ते निरसन्ति सन्ततमविश्रान्तैकदुःखाकुला जाने नाहमपि प्रदातुमथवा हस्तावलम्बं मम ॥४२॥
का वा तेषु गतिर्भवे भवति वा नो वा कथं ते कियत्
कालं वा परिवर्तितार्तरुदितैर्जानन्ति तान् नो यमाः ।
मद्द्रोहो न कदापि कार्य इति मे उक्ता च धीः स्वस्तये
तस्मान्मां शरणं प्रयाति यदि चेत् तद्द्रोहनाशो भवेत् ॥४३॥
इत्युक्त्वा स जगाम चारुवृषभारूढः सहांबो भवो
रुद्रो नन्दवनं जगाम रभसात् पापात् तदा मोचितः ।
ब्रह्मा ब्रह्मपुरे उवास नियतं ईशार्चनेनान्वितो
रुद्राक्षमलभस्मपुण्ड्रनिटिलो वक्त्रैः स्तुवन् शङ्करम् ॥४४॥
इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे ब्रह्मशिरश्छेदनशिवद्रोहनिरूपणं नाम षड्विंशो‍ऽध्यायः ॥

N/A

References : N/A
Last Updated : April 06, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP