शिवाख्यः चतुर्थाम्शः - पञ्चविंशोऽध्यायः
श्रीशिवरहस्यम्
स्कन्दः -
कण्वोऽपि पूजयामास महादेवं महेश्वरम् । चारुचन्द्रकलाभूषं शिवार्धाङ्गं शिवङ्करम् ॥१॥
ध्यानार्चनैर्वन्दनैश्च भस्मरुद्राक्षभूषणः । रुद्राध्यायजपासक्तो रुद्रलिंङ्गार्चने रतः ॥२॥
कुशाश्रमे पुरा विप्रः कुशकाशैः समर्चयन् । तुष्टावाष्टाकृतिं शम्भुं कण्वः कञ्जजपूजितम् ॥३॥
कण्वः -
उपमन्युवरप्रदोरुमन्यो शतमन्यो कृतदक्षशिक्ष शम्भो ।
सुरमूर्धसरिन्नगेन्द्रकन्यावर मन्येऽहमवैमि भक्तिधन्यम् ॥४॥
गिरिवरधनुश्शरमुरहर वरकाकोदरहारमौर्वीक । उर्वीरथ रथिकाग्रे प्रविजेतः पुरहन् भवाद्य पाहि ॥५॥
कुसुमशरारिपुरारिपादपद्मे प्रविश तरारिव शिव प्रकृष्टपार्थः ? ।
मनसिजमनसा जगत् प्रमुग्धं हर मुग्धेन्दुकिरीटकोटिजूट ॥६॥
विश्वामित्रोऽपि देवेशं समाराध्य पुरा युगे । भस्मरुद्राक्षसंपन्नो रुद्रलिङ्गार्चने रतः ॥७॥
त्रिशङ्कुं शङ्कुभूतं च देवानां स्वर्गिणं व्यधात् । स्वयं विधातृपदवीं ससर्ज भुवनं मुनिः ॥
शिवपूजा प्रभावेन तुष्टाव परमेश्वरम् ॥८॥
विश्वामित्रः -
हेमाम्बुजोद्भवषडाननवारणास्यसंसेवितांघ्रिकमलं तरुणेन्दुचूडम् ।
मन्दारवृन्दपरिवन्दिमुकुन्दनेत्रपादारविन्दमगजापतिमाश्रयामि ॥९॥
नागनागनगवासकृत्तिधृक् भूरिहारसुग्वीरकुमार ।
मारमारकरवीरसुमाद्य स्रग्धरामरवराव महेश ॥१०॥
कपिलोऽपि महायोगी शैवाचार्योऽभवन्मुने ॥११॥
भस्मरुद्राक्षसंपन्नः शिवलिङ्गार्चने रतः । संस्तुवन् साम्बमीशावं कपिलायतः ॥१२॥
कपिलः -
गङ्गोत्तमाङ्ग शशिसङ्ग भुजङ्गसङ्ग तुङ्गोत्थिताङ्ग वृषभाङ्ग महेश श्रृङ्ग ।
श्रीव्योमकेश भवभङ्गभुजाङ्ग शम्भो पाहीश मां तव दयाप्रसरैरपाङ्गैः ॥१३॥
यामिनीरमणखण्डधारिणं कामिनीविधृतसामिविग्रहम् ।
स्तौमि देवमगजामनोहरं नौमि कायमनसा सदैव तम् ॥१४॥
दुर्वासाऽपि महाशैवः शिवलिङ्गसमर्चकः । भस्मरुद्राक्षरुद्रादिपञ्चाक्षरपरायणः ॥
तुष्टाव देवमीशानं देवदेवमुमापतिम् ॥१५॥
दुर्वासाः -
अभेद्य वेद्योत्तम वेदवेद्य विद्युत्प्रभोद्यत्सुकपर्द शम्भो ।
विद्याऽप्यविद्याऽपि च ते कटाक्षतः सुद्योततेऽद्यैव विनाशमेति ॥१६॥
उडुगणपतिचूडं हृज्जडानां च दूरं मृडमजडमवेद्यं व्दवेदान्तसङ्घैः ।
दृढतरहृदयाब्जे गाढमालिङ्ग्य देवीं स्थितमनलशिखाग्रे शूलपाणे भजे त्वाम् ॥१७॥
भृगुश्चापि समाराध्य देवमीशं कपर्दिनम् । भस्मत्रिपुण्ट्ररुद्राक्षधारकः शिवपूजकः ॥१८॥
विष्णुं शशाप कोपेन स्वभार्यानिधने रतम् । दैत्यसाहाय्यकरणे तदा तुष्टाव शङ्करम् ॥१९॥
भृगुः -
अजगजपुरमारदक्षशिक्षं यमभगमुरवैरिगर्वनाशम् ।
जनवनपितरं ऋषिं महेशं मनसा यामि कलाधरोरुमौलिम् ॥२०॥
जनकं श्रुतिगीतमेनमेकं विधिविष्ण्विन्द्रयमानिलानलानाम् ।
मरुतां पितरं महेशमाद्यं श्रुतिवेद्यं परमं नतोस्मि पूज्यम् ॥२१॥
तथैव च सनन्दोपि शिवलिङ्गं समर्चयन् । भस्मरुद्राक्षसंपन्नः तुष्टाव जगदीश्वरम् ॥२२॥
सनन्दः -
अनीशं त्वामीशं वदति रुशतीभिः श्रुतितमा सनाथं त्वामाद्यं भवहरमभेद्यं हि करणैः ।
असङ्गं सङ्गेषु प्रथितपरमानन्दमधुरं धरानीरव्योम्नां पवनतपनैरेव जगति ॥२३॥
पशुपिशितहुताशतर्पिताशाः कथमधुना सुरा हि सप्रकाशाः ।
शरणाय भवन्ति नारकाणां करुणावारिनिधिं विहाय देवम् ॥२४॥
सानन्दोऽपि पुरा पूज्य गाणपत्यमवाप सः । भस्मत्रिपुण्ट्रनिटिलः सानन्दो नन्दितान्तरः ॥२५॥
सानन्दः -
अनशनमननैरुपायसङ्घैर्न हि मोदाय न वैनसां क्षयाय ।
अननीतलपालसन्निधौ प्रणामः तव भक्त्या सुकरो हि बन्धमुक्तयै ॥२६॥
रमारमणकारणं विधिहरीन्द्रसन्तोषणं गरारुणगलान्तरं कुसुमबाणसंशोषणम् ।
भजामि पवनाशितप्रथितहारबाणासनीकृतागपतिकन्यकापतिमपारवैदैषणम् ॥२७॥
इत्थं देवमुमापतिं पशुपतिं संपूज्य ते लेभिरे
कामान् कामाङ्गनाशप्रविहितदयया विप्रवर्या गणेन्द्राः ।
कण्वाद्या देवदेवं गिरिवरशिखरे कामदे वैद्यनाथे
श्रीशैले त्र्यम्बके च चिरिगिरिशिखरे गोनगे कृत्तिशैले ॥२८॥
आराध्यैव सदाशिव त्रिजगतामाधारभूतं हरं
विश्वातीतमजेन्द्रविष्णुजनकं सोमं मृडं कामदम् ।
सर्वेषामघनाशनं गिरिधरं शर्वं पशूनां पतिं
मुक्ता एव भवांघ्रिपङ्कजरता भावाः कृतार्थाः पुरा ॥२९॥
इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे कण्वविश्वामित्र-कपिल-दुर्वासो-भृगु-सनन्द-सानन्दादिमहर्षि-तपोवर्णनं नाम पञ्चविंशोऽध्यायः ॥
N/A
References : N/A
Last Updated : April 06, 2017
TOP