संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शिवाख्यः चतुर्थाम्शः| षष्ठोऽध्यायः शिवाख्यः चतुर्थाम्शः अणुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः शिवाख्यः चतुर्थाम्शः - षष्ठोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव षष्ठोऽध्यायः Translation - भाषांतर स्कन्दः - तत्स्तुत्या संप्रसन्नोऽसौ महादेव उवाच तम् ॥१॥ईश्वरः - वत्सालं परिखिन्नोऽसि तपसा वृणु यद्धृदि । तत्ते संपूरयाम्यद्य अलं खेदेन सत्तम ॥२॥पुनर्नन्दी प्रणम्येशमुवाच च कृताञ्जलिः ॥३॥नन्दी - देव देव महादेव शरणागतवत्सल । त्वत्पादाम्बुरुहद्वन्द्वे निश्चला भक्तिरस्तु मे ॥४॥रुद्रलिङ्गार्चने रुद्रजपे भस्मावधारणे । निश्चलैव भवेद्भक्तिः तेन किं दुर्लभं मम ॥५॥तथेति तं विश्वनेता अनुमान्य तिरोदधे । देवदेवो विरूपाक्षो देवैः सार्धं जगत्पतिः ॥६॥पुनस्तताप शरदां शतं वाय्वम्बुभोजनः । रुद्रं जपन् हृष्टमनाः शिवलिङ्गं समर्चयन् ॥७॥ततोऽन्तिमे पुनर्वर्षे देवदेव उमापतिः । प्रादुर्भूय महादेवः कृपया तमुवाच ह ॥८॥श्रीशिवः - वत्सालं तपसा तेऽद्य दत्ता तव गणेन्द्रता । प्रशाधि गणxन् मेऽद्य यथ हं सर्वशासकः ॥९॥नत्वा स्तुत्वा महादेवं नान्यत् किञ्चिदयाचत । लिङ्गार्चनाद्रुद्रजप द्भस्मरुद्राक्षधारणात् ॥१०॥तथेत्युक्त्वा ययौ साम्बो नन्दिनः पश्यतः सुरैः । पुनस्तताप शरदां शतमाहारवर्जितः ॥११॥रुद्रमाराधयंस्तीव्रं रुद्राध्यायजपादरः । तस्मै प्रादुर्बभौ सांबो वृषारूढः सुरैर्वृतः ॥१२॥संम्तुतो वेदसङ्घैश्च मरुद्भिर्यक्षकिन्नरैx । दृष्टोत्थाय तदा नन्दी प्राञ्जलिः स्तौति शङ्करम् ॥१३॥नन्दी - रमानाथनेत्राब्जपूज्यांघ्रिपद्मं महाकालकूटॊज्ज्वलन्नीलकण्ठम् ।सुधाधामखण्डोर्ध्वमौलिं त्रिनेत्रं भजे कामिनीदेहभागार्धमूर्तिम् ॥१४॥महाजह्नुकन्याजटाजूटके टिं तडित्कूटकर्पूरखण्डाभदेहम् ।सदाऽहीश्वरौघावलीविस्फुर तं नटन्तं भजेऽहं भवान्या समेतम् ॥१५॥सुहेरम्बतातं षडासयिकदृष्टि भवाम्भोधिपोतं कुरङ्गास्यहस्तम् ।सुधाधामखण्डोर्ध्वमौलिं त्रिनेत्रं भजे कामिनीदेहभागार्धमूर्तिम् ॥१६॥स्तम्बेरमाधीशचर्मैकवस्त्रं भजें देवदेवं महेशं चिदाद्यम् ।असङ्गं चिदङ्गं भुजङ्गं भवान्याः महादेवहृद्यं प्रसङ्गं जनानाम् ॥१७॥विनिर्धूतकामं सदा स्वात्मरामं महाxमदेवादिसामैकसीमम् ।घनानन्दभस्मैकधामानमीशं भजे विस्मृतापारसर्वेन्द्रियार्थम् ॥१८॥तत्स्तुत्या तोषितः शम्भुः चारुचन्द्रकलाधरः । उमादेहार्धललितः तमुवाच कृपानिधिः ॥१९॥ईश्वरः - नित्योऽसि सर्वदा सर्वैः सेव्यः स्तुत्योसि सांप्रतम् । गणेन्द्रोऽस्यमराधीशः समाहूय महेश्वरः ॥ ( ? ) ॥२०॥सारूप्यं च ददौ तस्मै देवदेवो महेश्वरः । कपर्दचन्द्रार्धधरं नीलकण्ठं त्रिलोचनम् ॥२१॥चतुर्भुजं चैणपाशखट्वाङ्गपरिशोमितम् । द्वीपिचर्मपरीधानं सर्वाभरणभूषितम् ॥२२॥भस्मरुद्राक्षसंपन्नं तं तदा काञ्चनैर्घटैः । भद्रासने चोपवेश्य गणेद्रमभिषेचयत् ॥२३॥गाणपत्ये गणेंन्द्राणां नन्दिनं बिश्वनन्दिनम् । विष्णुब्रह्ममहेशांश्च वीक्ष्य़ प्राह महेश्वरः ॥२४॥ईश्वरः - एष सर्वगणेन्द्राणामधिकः कल्पितो मया । गणेशस्कन्दतुल्योऽयं पूज्यः सर्वदिवौकसाम् ॥२५॥शैवाचार्योऽयमतुलः शिवज्ञानैकभाजनम् । अपर्णातनयो नित्यो मम सारूप्यभागयम् ॥२६॥ममापरा तनुर्नन्दी विश्वस्याज्ञाप्रवर्तकः । इत्युक्त्वा च महादेवो गणेन्द्रं तत्र भूधरे ॥२७॥मण्डपे रत्नसंकीर्णे देवपुष्पविराजिते । नदत्सु देवतुर्येषु नृत्यन्तीष्वप्सरस्सु च ॥२८॥पितॄणां मानसीं कन्यां सुयज्ञां नाम सुन्दरीम् । सर्वाभरणसंपन्नां तत्पाणिं ग्राहयच्छिवः ॥२९॥देवी स्नुषां समालिङ्गय चक्रे वैवाहिकं विधिम् । देवैः सह तदा देवो देव्या विघ्नेशनन्दिना ।स्कन्देन गणसङ्घेश्च ययु कैलासपर्वतम् ॥३०॥एवं शिलादतनयं शशिशेखरोऽसौ दत्वा गणेन्द्रपदवीं च विवाह्य देवैः ।रुद्रादिजाप्यपरितोषणतो मुनीन्द्र गौर्या विराजितवषुः प्रययौ गिरीन्द्रम् ॥३१॥इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे नन्दिकेशगाणपत्याभिषेको नाम षष्ठोऽध्यायः ॥ N/A References : N/A Last Updated : April 06, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP