शिवाख्यः चतुर्थाम्शः - चतुस्त्रिंशोऽध्यायः
श्रीशिवरहस्यम्
स्कन्दः -
वरुणोऽपि पुरा कण्वशप्तो जलरुजार्दितः औदरेण महादेवं भस्मरुद्राक्षधृक् पुरा ॥
श्रीशैलेशं समाराध्य स्तुत्वा मुक्तश्च रोगतः ॥१॥
अशेषसुरतामदप्रभवनाशनाशीविषा विशेषगरभूषणं उरगहारकण्ठद्युतिम् ।
उषःकरणकारणं वृषवराधिसंरोहणं विषाणवृषपूजितं वपुषि शोभिकान्तार्धकम् ॥२॥
एकोऽद्वितीयः शिव एव कर्ता देवस्तुरीयः परमश्चतुर्थः ।
सनातनोऽव्यक्तगतिः परत्परो ध्येयः परित्यज्य समस्तमन्यत् ॥३॥
यस्मान्महेशाद्धरिधातृरुद्रदेवेन्द्रदेवा मुनयः प्रसूताः ।
स व्योमकेशोऽखिललोकपूर्तिः शम्भुः सदानन्दघनो महेशः ॥४॥
अग्निश्च भृगुशापेन सर्वभक्षो बभूव ह । तत्पापपरिहाराय सोमं भूधरनायकम् ॥५॥
करुणातरणिं गत्वा शरणं मोचितस्त्वधैः ।
अग्निः -
अम्बामुखाम्भोजविकासिभानुं इभेन्द्रतारासुतहर्षनेत्रम् ।
अभोजजातोत्तममौलिपाणिxम्भोजनेत्रार्चितपादपद्मम् ॥६॥
श्रीशूलपानिचरणार्चनजातपुण्यैर्वाणीपतित्वमरविन्दगतासुजानेः ।
पदे पदे मे न भवेन्मनः पदे किञ्चात्भभोगेषु न सज्यते सदा ॥७॥
अर्वसप्तकमहार्णवगर्वापारहर्षहरणामलनेत्रम् ।
शम्बराम्बरवरे सुलाञ्छनोद्भासि नेत्रसुललाममुपासे ॥८॥
व्यालमालगलनीलगलं तं कालकालमबलार्धककायम् ।
फालमूलनिहितानलकूलज्वालया कृतपुरादिककामम् ॥९॥
वायुर्मतङ्गशापेन निर्वीर्यो ह्यभवत् पुरा । भस्मसप्तकxन्त्रेण समुद्धूल्याङ्गमादरात् ॥१०॥
स सप्तसामभिः सार्धं त्र्यंबके गौतमीतटे । स्तुवन्नुवास देवं तं तदा मुक्तोऽभवत्त्वघात् ॥११॥
वायुः -
परावरशरावरीकृतमहाब्धिगङ्गारयोज्ज्वलच्छशिजटाकुटीविधृतभस्मपुण्ड्राङ्कित ।
महोक्षवरवाहन विधृतरत्नरुद्राक्षज श्रुतीनयनहारधृक् वरकपालमालाधर ॥१२॥
अङ्गजभङ्ग तुरङ्गरथाङ्ग भुजङ्गमहाङ्गाम्बरचर्म ।
शताङ्ग विहङ्ग पतङ्गनिषङ्ग कुरङ्ग वहाङ्ग पुरस्फुलिङ्ग ॥१३॥
आगमचन्द्रार्ध विहगाधिप हारधरसागर
उरगोत्तम गिरिभूमिविधि ग्रहनायक संभृति संहृतगर्व ।
पुरत्रितय परिपाहि दयारसया सुदृशा
भवभरतारकयाशरणाय ( ? ) ॥१४॥
यमोऽपि माण्डुशापेन शूद्रो भूत्वापि योगवित् । गोकर्णेशं समाराध्य भस्मरुद्राक्षभूषणः ॥१५॥
तुष्टाव कष्टनिर्मुक्त्यै शिपिविष्टं समर्चयन् ॥१६॥
यमः - भव भर्ग भगाक्षिहराव्यय मधुमदसूदन पूजितपाद ।
दमितयम स्मरगजहर शङ्कर हर गङ्गाधर परिपाहि ॥१७॥
वर गिरिवरशय पुरहर भवहर प्रथितभवार्णव बुडबाग्ने ।
निटिलविलोचन कुटिलजटाधर तटिनीवरकलितेन्दुललाम ॥१८॥
उग्रमहोद्रसटापटलीयुत भीम मृगेन्द्राजिनवसन ।
करटिकटीतटपटभवचर्मजवसनान्तकहर परिपाहि ॥१९॥
भव भवदक्षसुराद्य भगाङ्गज विधिहरिनमितारुण पाद ।
शमितान्तक हर स्मरगरशोषण इन्दुकलाधर परिपाहि ॥२०॥
कुबेरोऽपि पुरा देवीं देवाङ्कस्थां विलोक्य च । दुष्कामो हृच्छयेनासीत् देव्या नेत्राणुकोटितः ॥२१॥
भव पापैकपिङ्गाक्ष इति शप्तोऽम्बया तदा । प्रणम्य देवं यक्षेशः त्र्यक्षं शिक्षितमन्मथम् ॥२२॥
केदारे सम्यगाराध्य सदारतनयः पुरा । देव्या दुर्वारशापार्तः स्तुवन् मुक्तो महेश्वरम् ॥२३॥
कुबेरः - भुवनजनावन दनुतनयाननवरपरिखेलन अनलविलोचन अव सदयम् ।
वरवरुणालयपीतमहामुनितोषण पन्नग परिपाहि ॥२४॥
अरुणानुजपतिपूजितपाद प्रकटसरोरुहभवविनुत ।
तरणिद्युतिशशिनयनामल हर उक्षककुद्नत परिपाहि ॥२५॥
उरगान्तकवहशिक्षणचणचरणाम्बुज शङ्कर उक्षवह ।
अध्वरशिक्षितदक्षसुपक्ष अधोक्षज भक्षितविष परिपाहि ॥२६॥
गन्धवहाङ्गपतङ्गभुजङ्ग धृताम्बुधिसङ्ग तमोमयाम्बर संहनन ।
परिपाहि विभो करुणारसया सरसीरुहसन्निभया सुदृशा ॥२७॥
भार्यां संज्ञां परित्यज्य यदा छायामनिन्दिताम् । स्वभार्या त्यागपापेन त्वष्ट्रा शप्तो रविः पुरा ॥२८॥
निर्वीर्यो हि तदा तृर्व्यां चचार प्राकृतो यथा । काञ्व्यामेकाम्रनाथं स समाराध्यैकवत्सरम् ॥२९॥
भस्मत्रिपुण्ट्ररुद्राक्षधरो रुद्रजपादरः । स्नात्वा चैकाम्रनिलयं चण्दवीर्योऽभवद्रविः ॥३०॥
रविः - खण्डसोमफणिकुण्डलगण्डं पाणिमण्डललसद्विधिमुण्डम् ।
आखण्डलस्तंभितबाहुदण्डं तं खण्डपर्शुं प्रणमाम्यखण्डम् ॥३१॥
गङ्गातुङ्गतरङ्गरञ्जितजटाभारं कृपासागरं
हाराधीश्वरशङ्करं शरहरिं मारारिणं भासुरम् ।
वीरं भूसुरपूजिताङ्घ्रिकमलं विस्तारिताराधिपो -
त्तुङ्गद्रम्यकलाधरं पुरहरं तारं भजे स्वान्तरम् ( रे ) ॥३२॥
चन्द्रोपि दक्षशापेन यक्ष्माणं सोऽप्यविन्दत । रोहिण्यां रागसंयुक्त अत्रिं नत्वा तदुक्तितः ॥३३॥
श्रीमद्दभ्रसमानाथं संपूज्योडुपतिस्तदा । भस्माभ्यक्तो रुद्रजापी यक्ष्ममुक्तोऽभवत् तदा ॥३४॥
देवेन मानितस्तत्र पूर्णपक्षेऽभवन् कलाः ।
चन्द्रः -
अण्डजाण्डजगतीशराय ते चण्डशीतकिरणौ तव चक्रम् ।
भूमिमण्डलमिदं रथ ईश वेदमण्डलमिदं हरयस्ते ॥३५॥
ज्याकुण्डलीशो भगवान् सुमेरुकोदण्डधृग्वरसुहारकपुण्डरीक ।
त्वं पुण्डरीकवरचर्मवसान शम्भो हृत्पुण्डरीकवसते कलितत्रिपुण्ड्र ॥३६॥
ईशानः कालहस्तीशं समाराध्येन्दुशेखरम् । रुद्राणामधिपो जातः स्तुवन् सांबं महेश्वरम् ॥३७॥
ईशानः -
दिशां पतिं पशुपतिं पत्तीनां पतिमीश्वरं
अन्नानां च पतिं परात्परतरं त्वां व्योमकेशं हरम् ।
पुष्टानां च पतिं रमापतिलसन्नेत्रारविन्दार्चितं
त्वां बभ्लुश हरिशरं हरिकेशमीशमाशामुखं शरणमाशु हरं प्रपद्ये ॥३८॥
स्कन्दः -
यस्त्वन्तकान्तकमहेश्वरपादपद्मसद्मायितेन मनसा निशितैन युक्तः ।
संशान्तसंसृतिचिरभ्रमितोऽपि मुक्तो युक्त्या भवाब्धिमपि सन्तरते सदा हि ॥३९॥
इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे वरुणादिदेवानुग्रहवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥
N/A
References : N/A
Last Updated : April 06, 2017
TOP