शिवाख्यः चतुर्थाम्शः - द्वितीयोऽध्यायः
श्रीशिवरहस्यम्
स्कन्दः -
सम्यगुक्तं त्वया तात जैगीषव्य महामते । भवतापहरं शंभोः चरितं सर्वपापहृत् ॥१॥
शिवार्चकजनानां चरित्रं शिवतोषकृत । यथा शिवस्तथा शैवा भेदो नैतेषु दृश्यते ॥२॥
शांभवानां च माहात्म्यं शिवो वेत्ति न चेतरः । शांभवः शिव एवेति विज्ञेयो मुक्तिकांक्षिमिः ॥३॥
चरं शरीरं यच्छंभोः शांभवास्तन्मुनीशराः । स्थावरं जङ्गमं श्रेष्ठं शारीरं शिवसंमतम् ॥४॥
चरावरात्मा भगवानेक एव महेशरः । न शांभवात् परं स्थानं शंभोः प्रियतरं महत् ॥५॥
तत्र शांभववर्याणां समाजसत्र शङ्करः । लिङ्गे तुङ्गे बिल्ववने सदाशिवकथासु च ॥६॥
नृत्यत्यम्बिकया युक्तः स्कन्दहेरम्बपूर्वकxxx । तत् क्षेत्र पुण्यराशीनां स्थानं प्रीतं त्रिशूलिनः ॥७॥
शाङ्करा एव देवस्य सर्वदा प्रियविग्रहाः । न गौर्यां नैव विघ्नेशे न नन्दौ स्कन्दके न च ॥८॥
प्रीतिर्वै देवदेवस्य यादृशी हारसत्तमे । मनोहराः शिवस्यैव हारा रुद्राक्षधारिणः ॥९॥
तस्माच्छाङ्गार्चनेनैव शिवः प्रीतो भविष्यति । शांभवाः शम्बुवो विप्र मुक्तिकान्ता मनोहराः ॥१०॥
तेषु प्रीतेषु भगवान् प्रीत एव महेश्वरः । यथा भक्तजनार्चात् प्रीतो भद्राणि पश्यति ॥११॥
न तथा शिवलिङ्गेषु पूजितोऽपि महेश्वरः । तस्माच्छांभवपूजैव शिवपूजा न संशयः ॥१२॥
शिवभक्ताः शिवाचाराः शिवलिङ्गैकपूजकाः । भस्मत्रिपुंड्ररुद्राक्षधारिणोऽमलविग्रहाः ॥१३॥
रुद्राध्यायजपासक्ताः पञ्चाक्षरपरायणाः । शिवनामानुसन्धानकन्दलीकृतमानसाः ॥१४॥
शिवध्यानपराः शैवाः पावनाः पावयन्त्यपि । तेषु प्रीतेषु भगवान् प्रीत एव महेश्वरः ॥१५॥
नान्येन कर्मणा शम्भुः प्रीतो भवति सत्तम । स्वतः पूर्णो महादेवः तस्य किं तोषणेन हि ॥१६॥
शिवभक्तार्चनेनैव तोषमेति महेश्वरः । शम्भुः शांभवतोषेण तुष्टः कष्टविनाशकः ॥१७॥
अष्टमूर्तिः स्वयं तुष्टो मुक्तिं तस्य प्रयच्छति । शिवभक्तो यत्र तिष्ठेत् तत्र सन्निहितः शिवः ॥१८॥
तस्मिन् भुक्ते शिवो भुङ्क्ते तस्मिन् तुष्टे शिवः स्वयम् । तुष्टः पुष्टिं तथैवास्य तस्य नित्यं प्रयच्छति ॥१९॥
शिवार्चको यश्च भक्तः द्विजो वा श्वपचोऽपि वा । भवभक्तो विमुच्येत भस्मरुद्राक्षधारकः ॥२०॥
न वर्णाश्रमनिष्ठाऽत्र भक्तिनिष्ठान्न केवला । नास्याचारं परीक्षेत न कुलं न व्रतं तथा ॥२१॥
न शिवाश्रयविज्ञानं परीक्षेत द्विजोत्तम । स मुनिः स तपस्वी च स यतिः स च पण्डितः ॥२२॥
तेनाधीतं श्रुतं तेन तेन तीर्थे समाहितम् । स पात्रं तारयेत् सर्वान् हव्ये कव्ये सुरान् पितॄन् ॥२३॥
शिवभक्ते गृहं याते नृत्यन्ति पितरः सदा । तेषु श्राद्धं प्रदातव्यं तृप्ताः स्युः प्रपितामहाः ॥२४॥
शिवभक्तानतिक्रम्य अन्येषु निहितं हविः । दानं भोज्यं च यद्विप्र तद्भस्मनिहितं हविः ॥२५॥
रुष्ट एव हि गौरीशस्तस्य कष्टं ददाति हि । भ्रष्टमूर्तिकृपानिष्ठाः शैवा एव न संशयः ॥२६॥
वरिष्ठं पात्रमेते हि शैवाः पूज्याः शिवार्चकाः । गणाः सुरा मुनिगणाः किञ्चिच्छम्भोः प्रसादतः ॥२७॥
शिवभक्ताः शिवज्ञानयुक्ता एव द्विजोत्तमाः । तस्माद्भक्ताः सदा पूज्याः शांभवाः शिवसंमताः ॥२८॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्येपि संकराः । शिवभक्ताः शिवाकरा भस्मरुद्राक्षधारिणः ॥२९॥
पूज्या एव सदा सर्वे भक्तिश्चात्र गरीयसी । शिलाशनश्च शैलादिश्चण्डकेशोऽथ भृङ्गिकः ॥३०॥
रिटिस्तुण्डः सोमनन्दी मार्कण्डेयो घटोद्भवः । उपमन्युर्दधीचिश्च दुर्वासो गौतमो मुनिः ॥३१॥
कृष्णः शतार्चनो रंभ्यो भृगुर्बाणो भृगूद्वहः । अहं गजाननो गौरी विष्णुब्रह्मादयः सुराः ॥३२॥
इन्द्रो यक्षाधिपः सूर्यचन्द्राद्या ग्रहनायकाः । समभ्यर्च्य विरूपाक्षं लब्धवन्तः परं पदम् ॥३३॥
गणत्वं नन्दिकैशाद्याः विष्णुब्रह्मादयो द्विज । सृष्टिं सुदर्शनं देवनायकत्वं सुरा ग्रहाः ॥३४॥
ग्रहत्वं देवदेवस्य प्रसादेन मुनीश्वराः । लेभिरे वांछितां सिद्धिं शिवलिङ्गार्चनेन हि ॥३५॥
राज्यं भुक्तिं च मुक्तिं च लेभिरे नृपासत्तमाः । केचिद्गणा मुनीन्द्राश्च सुगन् बिल्वादिकानपि ॥३६॥
वक्ष्यामि भक्तान् शौर्येण तेषां च चरितं मुने । प्रसादाप्तिं महादेवात् तेषां भक्तिं च केवलाम् ॥३७॥
यां श्रुत्वा तु भवेद्भक्तो नरः शिवपदाब्जयोः ॥३८॥
त्वत्सङ्गादधुना शिवार्चकजनाचारैकभक्तिप्रभाः
शम्भोः पुण्यचरित्रकीर्तxमहामुक्तिप्रवीणाः कथाः ।
वक्तुं मे मतिरीशपादभजनप्रामाण्यतो निस्सर -
त्येषा वक्तसरोरुहैर्भगवतश्चाम्बापतेः संस्तवः ॥३९॥
जिह्वा जिह्मविवर्जितात्ममहिता त्वत्सङ्गमोदप्रदा
वक्तुं चाभिलषेत शङ्करकथां शाङ्गाङ्गसङ्गेन हि ।
एतेऽमी मुनयो गणाः सुरगणाः श्रृण्वन्तु तां शांभवीं
भक्तामीप्सितदानमोक्षपरमानन्दप्रदां भक्तितः ॥४०॥
इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे शिवभक्तिमहिमानुवर्णनं नाम द्वितीयोऽध्यायः ॥
N/A
References : N/A
Last Updated : April 06, 2017
TOP