संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शिवाख्यः चतुर्थाम्शः|
एकादशोऽध्यायः

शिवाख्यः चतुर्थाम्शः - एकादशोऽध्यायः

श्रीशिवरहस्यम्


स्कन्दः -
श्रृणु पुण्यं चरित्रं च उपमन्योर्महात्मनः । मुनौ कारुणिकः प्रोक्तो यत्र देवो महेश्वरः ॥१॥
तदद्य वर्तयिष्यामि चरितं पापनाशकम् । धौम्याग्रजस्यैव मुनेः श्रृण्वतामघनाशनम् ॥२॥
पुरा हुमन्युश्च मुनेर्भुमन्योश्च सुतो महान् । बह्वृचो नियतो मौनी श्विअध्यानपरायणः ॥३॥
अवर्तत मुदा युक्त उंछवृत्तिर्द्विजोत्तमः । तपसा शोषयन् गात्रं त्रिनेत्राराधनोद्यतः ॥४॥
तस्याभृद्गृहिणी साध्वी वसिष्ठस्यानुजा सती । हुमन्युं पूजयामास उंछसंस्थमपि द्विजम् ॥५॥
वाक्यैः शौचोपकरणैः पाकसन्नहनैस्तदा । तस्यैवं वर्तमानस्य तद्भार्या पतिदेवता ॥६॥
असूत तनयं काले कुमारमिव पार्वती । शुभर्क्षे सुमुहूर्ते सा सर्वसंपत्प्रदायके ॥७॥
तं दृष्ट्वा स सुतं विप्रो हुमन्युर्हर्षनिर्भरः । पुत्रजन्मप्रहृष्टात्मा धानामुष्टिं ददौ पिता ॥८॥
उपमन्युं ततोऽस्यैव चक्रे बालस्य नाम तैः । सोऽवर्धत दिनैस्तत्र तदा पितृगृहे सुखम् ॥९॥
स पञ्चवार्षिको जातो यतो मात्रा सहागमत् । तं माता न्यवसत् तत्र स्वगृहे नित्यमौरसम् ॥१०॥
जगौ च नियमेनैव पिष्टेनालोडितं पयः । क्षीरं पिबेति माता तं नित्यमेव मनोरमा ॥११॥
मन्वानः सोऽपिबत् क्षीरं मात्रा दत्तं दिने दिने । स मातुलगृहं मात्रा प्राप मासं तदोषितः ॥१२॥
मातुलान्याप्यरुन्धत्या होमशेषं पिबत् पयः । दत्तं तन्मातुलेनापि पीतं सुस्वादु तत्पयः ॥१३॥
तत्क्षीरवासनायोगात पुनः प्राप गृहं स्वकम् । स्वमातरं ययाचेऽथ स्वादु तत्सदृशं पयः ॥१४॥
देहीत्येव लुठन् भूमौ रुदन पुत्रः करौ शिरः । प्रहृत्य बाल्यान्मौर्ख्येन मातरं पितरं तदा ॥
सा माता दुःखिता तं वै प्राह शोकातुरं तदा ॥१५॥
माता -
त्वं बाल कुरुषे दुःखं मौर्ख्यादज्ञानतो मुनेः । भार्या दारिद्र्यविवशा नैव गौर्मे गृहे सुत ॥१६॥
अपूजितमहेशानां क्क धनानि गृहाणि च । गावो धान्यानि वासांसि दारिद्र्यार्णवमध्यगा ॥१७॥
पिबैतदधुना पुत्र क्षीरं पिष्टविनिर्मितम् । इत्युक्तोऽपि रुदन् मौर्ख्यात् ययाचे क्षीरमेव हि ॥१८॥
मातुलान्या पुरा दत्तं क्षीरं तत्सदृशं मुधा । सा पुनर्दुःखिता देवी पुत्रं वीक्ष्य तदातुरा ॥१९॥
क्कास्माकं वनसंस्थानां उञ्छवृत्त्युपजीविनाम् । अनर्चितमहेशानां क्काद्यान्नं क्षीरमिश्रितम् ॥२०॥
इत्युक्तमात्रो मात्रा स प्राहाथो मातरं तदा ।
उपमन्युः -
कोऽसौ महेशो जननि क्काद्य संप्रति वर्तते । तमाराध्याहममलं क्षीरान्नं च लभे सदा ॥२१॥
सा माता विस्मिता पुत्रं प्राह बालं तदा मुदा ॥२२॥
माता -
यं देवा ब्रह्मविष्ण्वाद्या नैव जानन्ति तं शिवम् । यस्य रूपपरिज्ञानं वेदान्तैरपि दुर्लभम् ॥२३॥
भक्त्यैव लभ्यो यो देवः पूजितः सर्वकामदः । तमाराध्यैव देवाश्च मुनयो‍ऽपि महेश्वरम् ॥२४॥
लेभिरे वांछितान्येव महादेवान्महेश्वरात् । तस्मिन् प्रसन्ने देवेशे किमलभ्यं शरीरिणाम् ॥२५॥
इत्युक्तः स तदा मात्रा पितरं प्राह बालकः ।
उपमन्युः -
अहमाराधयिष्यामि देवदेवमुपापतिम् । त्वत्तोऽनुज्ञातुमिच्छामि तपसेऽहं धृतव्रतः ॥२६॥
इति पुत्रवचः श्रुत्वा तं पिता प्राह बालकम् । दीक्षयित्वा विधानेन ददौ पञ्चाक्षरं मनुम् ॥२७॥
पूजाक्रममुपादिश्य तपसे प्रैषयद्वनम् । सोऽपि नत्वा पितुः पादौ मातरं च गतो वनम् ॥२८॥
आशासत तदा माता तस्यैवाशिषमुत्तमाम् ॥२९॥
माता -
पूर्वतः पातु ते शम्भुः दक्षिणे नीललोहितः । पश्चिमे वामदेवोऽव्यात् उत्तरस्यां पिनाकधृक् ॥३०॥
दिवि ईशानकृत् पातु भूम्यां भूभारधृक् स्वयम् । विष्णुर्ब्रह्मा च रुद्रश्च वसवो मरुतस्तथा ॥३१॥
आदित्या अश्विनौ रुद्रा यमसूर्यानलेन्दवः गन्धर्वा गरुडा यक्षाः विद्याधरवराप्सराः ॥३२॥
नागाः किंपुरुषा गावो मातरो मरुदीश्वरः । मृगाश्च पक्षिणो ये च हिंसका भूतजातयः ॥३३॥
व्याघ्रादयो हृष्टसत्वाः पान्तु त्वां वनमध्यगम् । तपस्यभिरतं शंभुः शंकरः पातु सर्वदा ॥३४॥
स्कन्दः -
इत्यालिङ्ग्य मुदा पुत्रं मूर्ध्नि जिघेऽभिनन्दिता । प्रम्नुतौ स्वस्तनौ माता तनयं पाययत् तदा ॥३५॥
आनन्दजाश्रु मुञ्चन्ती उपमन्योस्तदाननम् । पश्यन्ती चन्द्रसंकाशं चन्द्रचूडार्चकस्य च ॥३६॥
उपमन्युर्महावीरः क्षयद्वीरपदार्चकः । वनं जगाम मुदितो मुनीन् विस्मापयंस्तदा ॥३७॥
तं पिता प्राह हर्षेण हुमुन्युर्भूरिदक्षिणः । वक्ष्ये हितं तवात्यन्तं श्रृणु मद्वचनं सुत ॥३८॥
भावलभ्यो महादेवो ब्रह्मादीनां च दुर्लभः । सुलभो भक्तिभाजां च सर्वेषां सर्वदेहिनाम् ॥३९॥
तवाद्योपदिशाम्यद्य मन्त्रं पञ्चाक्षरं परम् । इत्युक्त्वाऽथ तदा पुत्रं उपनीतं तदा पिता ॥४०॥
भस्मरुद्राक्षसंपन्नं अग्निरित्यादिमन्त्रतः । लिङ्गार्चनमुपादिश्य स्तोत्रमेतदुपादिशत् ॥४१॥
हुमन्युः -
उपमन्यो श्रृणुष्वेदं स्तोत्रं सर्वेष्टदायकम् । स्तोत्रेणानेन देवेशं नित्यं स्तुहि  महेश्वरम् ॥४२॥
कुरङ्गसङ्गार्धधरं दृगञ्चलम्फुलिङ्गलेशैर्मदनोप्यनङ्गितः ।
सारङ्गमातङ्गहरं हर त्वां पतङ्गसंस्थं प्रणमाम्यसङ्गम् ॥४३॥
शिखिसखसुखभूनिदान शम्भो मखमुखशिक्ष सुरक्षदीक्षिताङ्ग ।
वरगङ्गाजटशोभितोत्तमाङ्ग धृतरुद्राक्ष महोक्षवाह पाहि ॥४४॥
मातङ्गतुङ्गोत्तमकृत्तिवासः भुजङ्गभस्माङ्गजनान्तरङ्ग ।
त्वल्लिङ्गसङ्गे विहितान्तरङ्गे हरौ रथाङ्गप्रद देव पाहि ॥४५॥
दग्धान्धक त्रिपुरसूदन कालकाल व्यालेन्द्रनीलगलधृक् गलहालहाल ।
शूलानलानिलधराव्यय व्योमकेश कोशातिगाशितभवैकसमूह पाहि ॥४६॥
जटनट तटिनीवटोरुमूलस्थितकायामृतलंपटैश्च देवैः ।
खपट स्रुतभूतगणौघसंघैः नटचूड कपटं विहाय पाहि ॥४७॥
स्कन्दः -
इत्युक्तः स तदा सुतो गुरुवराल्लब्ध्वा स्तुतिं तद्वनं
यातो बिल्वनवारुणैर्दलभरैः संफुल्लपुष्पैस्तदा ॥४८॥
स्नात्वा सुरुद्रवपुषा धृतमस्ममालो रुद्राक्षहारवलयः शिवलिङ्गदृष्टिः ।
बालस्तदा गिरिवरं प्रजगाम हर्षाद्रम्यं नवारुणदलैः विपिनैश्च बिल्वैः ॥४९॥
युक्तं त्रिकूटशिखरं तदतीव मोदप्रेमास्पदं मुनिजनप्रियमिष्टमीशम् ।
संपूजयन् गिरिशलिङ्गमनोज्ञमिष्टं रुद्राक्षभस्मनिरतो विषयेषु बालः ॥५०॥
इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे उपमन्युतपोवनप्रवेशवर्णनं नामैकादर्शोध्यायः ॥

N/A

References : N/A
Last Updated : April 06, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP