संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री शिवरहस्यम्|शिवाख्यः चतुर्थाम्शः| एकादशोऽध्यायः शिवाख्यः चतुर्थाम्शः अणुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः शिवाख्यः चतुर्थाम्शः - एकादशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव एकादशोऽध्यायः Translation - भाषांतर स्कन्दः - श्रृणु पुण्यं चरित्रं च उपमन्योर्महात्मनः । मुनौ कारुणिकः प्रोक्तो यत्र देवो महेश्वरः ॥१॥तदद्य वर्तयिष्यामि चरितं पापनाशकम् । धौम्याग्रजस्यैव मुनेः श्रृण्वतामघनाशनम् ॥२॥पुरा हुमन्युश्च मुनेर्भुमन्योश्च सुतो महान् । बह्वृचो नियतो मौनी श्विअध्यानपरायणः ॥३॥अवर्तत मुदा युक्त उंछवृत्तिर्द्विजोत्तमः । तपसा शोषयन् गात्रं त्रिनेत्राराधनोद्यतः ॥४॥तस्याभृद्गृहिणी साध्वी वसिष्ठस्यानुजा सती । हुमन्युं पूजयामास उंछसंस्थमपि द्विजम् ॥५॥वाक्यैः शौचोपकरणैः पाकसन्नहनैस्तदा । तस्यैवं वर्तमानस्य तद्भार्या पतिदेवता ॥६॥असूत तनयं काले कुमारमिव पार्वती । शुभर्क्षे सुमुहूर्ते सा सर्वसंपत्प्रदायके ॥७॥तं दृष्ट्वा स सुतं विप्रो हुमन्युर्हर्षनिर्भरः । पुत्रजन्मप्रहृष्टात्मा धानामुष्टिं ददौ पिता ॥८॥उपमन्युं ततोऽस्यैव चक्रे बालस्य नाम तैः । सोऽवर्धत दिनैस्तत्र तदा पितृगृहे सुखम् ॥९॥स पञ्चवार्षिको जातो यतो मात्रा सहागमत् । तं माता न्यवसत् तत्र स्वगृहे नित्यमौरसम् ॥१०॥जगौ च नियमेनैव पिष्टेनालोडितं पयः । क्षीरं पिबेति माता तं नित्यमेव मनोरमा ॥११॥मन्वानः सोऽपिबत् क्षीरं मात्रा दत्तं दिने दिने । स मातुलगृहं मात्रा प्राप मासं तदोषितः ॥१२॥मातुलान्याप्यरुन्धत्या होमशेषं पिबत् पयः । दत्तं तन्मातुलेनापि पीतं सुस्वादु तत्पयः ॥१३॥तत्क्षीरवासनायोगात पुनः प्राप गृहं स्वकम् । स्वमातरं ययाचेऽथ स्वादु तत्सदृशं पयः ॥१४॥देहीत्येव लुठन् भूमौ रुदन पुत्रः करौ शिरः । प्रहृत्य बाल्यान्मौर्ख्येन मातरं पितरं तदा ॥सा माता दुःखिता तं वै प्राह शोकातुरं तदा ॥१५॥माता - त्वं बाल कुरुषे दुःखं मौर्ख्यादज्ञानतो मुनेः । भार्या दारिद्र्यविवशा नैव गौर्मे गृहे सुत ॥१६॥अपूजितमहेशानां क्क धनानि गृहाणि च । गावो धान्यानि वासांसि दारिद्र्यार्णवमध्यगा ॥१७॥पिबैतदधुना पुत्र क्षीरं पिष्टविनिर्मितम् । इत्युक्तोऽपि रुदन् मौर्ख्यात् ययाचे क्षीरमेव हि ॥१८॥मातुलान्या पुरा दत्तं क्षीरं तत्सदृशं मुधा । सा पुनर्दुःखिता देवी पुत्रं वीक्ष्य तदातुरा ॥१९॥क्कास्माकं वनसंस्थानां उञ्छवृत्त्युपजीविनाम् । अनर्चितमहेशानां क्काद्यान्नं क्षीरमिश्रितम् ॥२०॥ इत्युक्तमात्रो मात्रा स प्राहाथो मातरं तदा ।उपमन्युः - कोऽसौ महेशो जननि क्काद्य संप्रति वर्तते । तमाराध्याहममलं क्षीरान्नं च लभे सदा ॥२१॥सा माता विस्मिता पुत्रं प्राह बालं तदा मुदा ॥२२॥माता - यं देवा ब्रह्मविष्ण्वाद्या नैव जानन्ति तं शिवम् । यस्य रूपपरिज्ञानं वेदान्तैरपि दुर्लभम् ॥२३॥ भक्त्यैव लभ्यो यो देवः पूजितः सर्वकामदः । तमाराध्यैव देवाश्च मुनयोऽपि महेश्वरम् ॥२४॥लेभिरे वांछितान्येव महादेवान्महेश्वरात् । तस्मिन् प्रसन्ने देवेशे किमलभ्यं शरीरिणाम् ॥२५॥ इत्युक्तः स तदा मात्रा पितरं प्राह बालकः ।उपमन्युः - अहमाराधयिष्यामि देवदेवमुपापतिम् । त्वत्तोऽनुज्ञातुमिच्छामि तपसेऽहं धृतव्रतः ॥२६॥इति पुत्रवचः श्रुत्वा तं पिता प्राह बालकम् । दीक्षयित्वा विधानेन ददौ पञ्चाक्षरं मनुम् ॥२७॥पूजाक्रममुपादिश्य तपसे प्रैषयद्वनम् । सोऽपि नत्वा पितुः पादौ मातरं च गतो वनम् ॥२८॥आशासत तदा माता तस्यैवाशिषमुत्तमाम् ॥२९॥माता - पूर्वतः पातु ते शम्भुः दक्षिणे नीललोहितः । पश्चिमे वामदेवोऽव्यात् उत्तरस्यां पिनाकधृक् ॥३०॥दिवि ईशानकृत् पातु भूम्यां भूभारधृक् स्वयम् । विष्णुर्ब्रह्मा च रुद्रश्च वसवो मरुतस्तथा ॥३१॥आदित्या अश्विनौ रुद्रा यमसूर्यानलेन्दवः गन्धर्वा गरुडा यक्षाः विद्याधरवराप्सराः ॥३२॥नागाः किंपुरुषा गावो मातरो मरुदीश्वरः । मृगाश्च पक्षिणो ये च हिंसका भूतजातयः ॥३३॥व्याघ्रादयो हृष्टसत्वाः पान्तु त्वां वनमध्यगम् । तपस्यभिरतं शंभुः शंकरः पातु सर्वदा ॥३४॥स्कन्दः - इत्यालिङ्ग्य मुदा पुत्रं मूर्ध्नि जिघेऽभिनन्दिता । प्रम्नुतौ स्वस्तनौ माता तनयं पाययत् तदा ॥३५॥आनन्दजाश्रु मुञ्चन्ती उपमन्योस्तदाननम् । पश्यन्ती चन्द्रसंकाशं चन्द्रचूडार्चकस्य च ॥३६॥ उपमन्युर्महावीरः क्षयद्वीरपदार्चकः । वनं जगाम मुदितो मुनीन् विस्मापयंस्तदा ॥३७॥तं पिता प्राह हर्षेण हुमुन्युर्भूरिदक्षिणः । वक्ष्ये हितं तवात्यन्तं श्रृणु मद्वचनं सुत ॥३८॥भावलभ्यो महादेवो ब्रह्मादीनां च दुर्लभः । सुलभो भक्तिभाजां च सर्वेषां सर्वदेहिनाम् ॥३९॥तवाद्योपदिशाम्यद्य मन्त्रं पञ्चाक्षरं परम् । इत्युक्त्वाऽथ तदा पुत्रं उपनीतं तदा पिता ॥४०॥भस्मरुद्राक्षसंपन्नं अग्निरित्यादिमन्त्रतः । लिङ्गार्चनमुपादिश्य स्तोत्रमेतदुपादिशत् ॥४१॥हुमन्युः - उपमन्यो श्रृणुष्वेदं स्तोत्रं सर्वेष्टदायकम् । स्तोत्रेणानेन देवेशं नित्यं स्तुहि महेश्वरम् ॥४२॥ कुरङ्गसङ्गार्धधरं दृगञ्चलम्फुलिङ्गलेशैर्मदनोप्यनङ्गितः ।सारङ्गमातङ्गहरं हर त्वां पतङ्गसंस्थं प्रणमाम्यसङ्गम् ॥४३॥शिखिसखसुखभूनिदान शम्भो मखमुखशिक्ष सुरक्षदीक्षिताङ्ग ।वरगङ्गाजटशोभितोत्तमाङ्ग धृतरुद्राक्ष महोक्षवाह पाहि ॥४४॥मातङ्गतुङ्गोत्तमकृत्तिवासः भुजङ्गभस्माङ्गजनान्तरङ्ग ।त्वल्लिङ्गसङ्गे विहितान्तरङ्गे हरौ रथाङ्गप्रद देव पाहि ॥४५॥दग्धान्धक त्रिपुरसूदन कालकाल व्यालेन्द्रनीलगलधृक् गलहालहाल । शूलानलानिलधराव्यय व्योमकेश कोशातिगाशितभवैकसमूह पाहि ॥४६॥जटनट तटिनीवटोरुमूलस्थितकायामृतलंपटैश्च देवैः ।खपट स्रुतभूतगणौघसंघैः नटचूड कपटं विहाय पाहि ॥४७॥स्कन्दः - इत्युक्तः स तदा सुतो गुरुवराल्लब्ध्वा स्तुतिं तद्वनं यातो बिल्वनवारुणैर्दलभरैः संफुल्लपुष्पैस्तदा ॥४८॥स्नात्वा सुरुद्रवपुषा धृतमस्ममालो रुद्राक्षहारवलयः शिवलिङ्गदृष्टिः ।बालस्तदा गिरिवरं प्रजगाम हर्षाद्रम्यं नवारुणदलैः विपिनैश्च बिल्वैः ॥४९॥युक्तं त्रिकूटशिखरं तदतीव मोदप्रेमास्पदं मुनिजनप्रियमिष्टमीशम् ।संपूजयन् गिरिशलिङ्गमनोज्ञमिष्टं रुद्राक्षभस्मनिरतो विषयेषु बालः ॥५०॥इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे उपमन्युतपोवनप्रवेशवर्णनं नामैकादर्शोध्यायः ॥ N/A References : N/A Last Updated : April 06, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP