शिवाख्यः चतुर्थाम्शः - चतुर्दशोऽध्यायः
श्रीशिवरहस्यम्
मार्कण्डेयः -
संस्थिते शङ्करे साम्बे का चिन्ता चान्तकान्मम । यस्य संस्मरणादेव जन्ममृत्युभयं नहि ॥१॥
तल्लिङ्गार्चाप्रभावेन मृत्योश्चाहं मृतिप्रदः । यस्यार्चनेन भगवान् विष्णुत्वं प्रप वै हरिः ॥२॥
पद्यासनोपि यस्यार्चापभावात् सर्गमाप्तवान् । रुद्रोऽपि चान्ते संहारं कुर्वंस्त्रिजगतीतले ॥३॥
इन्द्रोऽपीन्द्रत्वमापन्नस्तथान्ये देवदानवाः । त्रियम्बकं विरूपाक्षं सुगन्धिं पुष्टिवर्धनम् ॥४॥
अमृतत्वं प्रयाम्येव मृत्योर्मुच्येयमेव हिः । इत्युक्त्वा स प्रणम्याम्बां पितरं बाष्पविक्लबम् ॥५॥
माशुचस्त्वमिति प्रोच्य जगाम तपसे वनम् । कालञ्जरं ततः प्रपय त्रिकालं स्नानतत्परः ॥६॥
भस्मत्रिपुष्ट्ररुद्राक्षो मालाकवचिताङ्गकः । बिल्वपत्रैस्तदा शम्भुमहर्निशमतोषयत् ॥७॥
रुद्रसूक्तैः पञ्चवर्णैः पञ्चब्रह्मभिरीश्वरम् । तुष्टाव कष्टनाशाय शिपिविष्टमुमासखम् ॥८॥
मार्कण्डेयः -
कालकाल करुणालवाल हे नीललोहित दृशा जितकाल ।
व्यालमालगत हस्तशूलधृक् व्योमजाल अनलामलफाल ॥९॥
तस्यैवं वर्तमानस्य तदन्तिमदिने द्विजम् । समानेतुमथाभ्यागात् क्रूरः पाशकरोऽन्तकाः ॥१०॥
महालुलायमास्थाय घनवर्णदुरासदम् । मृत्युज्वरपरीवारो दंष्ट्राप्रकुटिलाननः ॥११॥
जिह्वया सृक्किणा चापि लेलिहानोऽन्तकस्तदा । कृष्णाङ्गैर्विकृतैर्घोरैः पाशमुद्गरपाणिभिः ॥१२॥
ऊर्ध्वकेशैः करालास्यैः विवृय्त्तनयनारुणैः । भयस्य चापि भयदैः स दूतैः संवृतो ययौ ॥१३॥
मार्कण्डेयं मीलिताक्षं शिवपूजैकतत्परम् । बालं धृतव्रतं धीरमाजुहाव यमस्तदा ॥१४॥
यमः -
किं मां भीषयसे बाल नाहं भीतः प्रतारणैः । मत्पाशपाशितानां च क्कचिन्नास्ति परायणम् ॥१५॥
किमनेन विचारेण निवर्तस्वाधुनाऽधम । तपस्विनां कोटयोऽत्र नृपाणामयुताष्टकम् ॥१६॥
चराचरं जगच्चात्र स्थितं मच्छासनेऽद्य हि । मद्दूतदर्शनेनपि भीतं सर्वं चराचरम् ॥१७॥
कस्ते कामो वृथा बालायाहि मत्सदनं ध्रुवम् । न मत्तः कश्चिदस्त्येव तव प्राणापहारकृत् ॥१८॥
कस्ते त्राताद्य पश्यामि इत्युक्त्वामोचयत् स्वकान् । पाशांस्तदा यमश्चोग्रानाशीविषसमुद्भवान् ॥१९॥
तमासन्नगतं वीक्ष्य अन्तकं गणसंवृतम् । विवृत्तनयनं क्रूरं लिङ्गमालिङ्ग्य तस्थिवान् ॥२०॥
तदा तुष्टाव भीतोऽथ मार्कण्डेयो महेश्वरम् ॥२१॥
मार्कण्डेयः -
रत्नसानुशरासनं रजताद्रिशृङ्गनिकेतनं शिञ्जिनीकृतपन्नेगेश्वरमच्युतानलसायकम् ।
क्षिप्रदग्धपुरत्रयं त्रिदशालयैरभिवन्दितं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥२२॥
चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहि मां । चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्ष माम् ॥२३॥
पञ्चपादपपुष्पगन्धिपदाम्बुजद्वयशोभितं फाललोचनजातपावकदग्धमन्मथविग्रहम् ।
भस्मदिग्धकलेबरं भवनाशनं भवमव्ययं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥२४॥
मत्तवारणमुख्यचर्मकृतोत्तरीयमनोहरं पङ्कजासनपद्मलोचनपूजितांघ्रिसरोरुहम् ।
देवसिन्धुतरङ्गशीकरसिक्तशीतजटाधरं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥२५॥
कुण्डलीकृतकुण्डलीश्वरकुण्डलं वृषवाहनं नारदादिमुनीश्वरस्तुतवैभवं भुवनेश्वरम् ।
अन्धकान्तकमाश्रितामरपादपं शमनान्तकं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥२६॥
यक्षराजसखं भगाक्षहरं भुजङ्गविभूषणं शैलराजसुतापरिष्कृतचारुवामकलेवरम् ।
क्ष्वेलनीलगलं परश्वथधारिणं मृगधारिणं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥२७॥
भेषजं भवरोगिणामखिलापदामपहारिणं दक्षयज्ञविनाशनं त्रिगुणात्मकं त्रिविलोचनम् ।
भुक्तिमुक्तिफलप्रदं सकलाघसंघनिबर्हणं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥२८॥
भक्तवत्सलमर्चितं निधिमक्षयं हरिदम्बरं सर्वभूतपतिं परात्परमप्रमेयमनामयम् ।
सोमवारिनभोहुताशनसोमपानिलखाकृतिं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥२९॥
विश्वसृष्टिविधायिनं पुनरेव पालनतत्परं संहरन्तमथ प्रपञ्चमशेषलोकनिवासिनम् ।
क्रीडयन्तमहर्निशं गणनाथयूथसमाकुलं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥३०॥
मार्कण्डेयस्तुतिं श्रुत्वा लिङ्गान्निर्गत्य शंकरः । नीलकण्ठो विरूपाक्षः कपर्दधृतचन्द्रकः ॥३१॥
शूलहस्तो महादेव उच्चैर्घोषेण वेगितः । शंपाकोटिमहारावैः भीषयंस्तं यमं तदा ॥३२॥
पदाम्बुजाग्रघातेन मकुटेऽताडयद्यमम् । शूलेन तीक्ष्णधारेण तं यमं व्यसुमातनोत् ॥३३॥
विसृज्य पाशं सुष्वाप महिषे पर्वतीपमः । विवृत्य नयने कालः कालकालेन पातितः ॥३४॥
पतितं तं समालोक्य तद्गणा कां दिशं गताः । विसंत्यक्तायुधा जातास्ते दिशं नावलोकयन् ॥३५॥
पतिते च तदा काले अभूत् कोलाहलध्वनिः । देवानां च सुरारीणां पुष्पवृष्टिं च मुञ्चताम् ॥३६॥
महेशमौलिमालाभां चापतन्तीं नमस्तलात् । संप्रति प्रसमं देवाः तुष्टुवुर्नीललोहितम् ॥३७॥
देवाः -
श्रीवामदेव जितकाम सहस्रधाम स्तोमैकसीम निखिलागमसंस्तुतांघ्रे ।
भूमा त्वमेव शशिधामकलाललाम हृव्द्योमभूम भगवन् सततं नमस्ते ॥३८॥
अन्तकान्तक सदैव दान्तहृत्पद्मसद्मग महेश कृपाब्धे ।
कान्त शान्त गिरिजावरकान्त वेदान्तवेद्य भवतान्तमवाद्य शम्भो ॥३९॥
तस्मिन्नुपरते शब्दे सलुलायेऽन्तके हते । मुनिबालं समालोक्य बालचन्द्रावतंसकः ॥४०॥
दण्डवत् प्रणतं भूमौ मामैरिति तदाऽवदत् ॥४०॥
ईश्वरः -
दत्तं गणाधिपत्यं ते मार्कण्डेय महामते । त्वं भक्तोऽतीव मत्पादयुग्मांबुजसमर्चकः ॥४१॥
नीरजो जीव वर्षाणां षोडशात्माऽजरामरः । भव त्वं विगतापायः सदा लिङ्गार्चको मम ॥४२॥
मल्लिङ्गार्चनतत्परे मुनिवरे को वान्तको वा सुराः
न ब्रह्मेन्द्रमरुद्गणाः हरिहराः पापाद्रिसंघेन किम् ।
सद्भीतिं जनिमृत्युरोगनिकरं चोन्मुच्य मुक्तिप्रभा -
कान्तं तं प्रकरामि तुष्टहदयः श्रृण्वन्तु देवाः सदा ॥४३॥
मार्कण्डेय तवास्तु नित्यममराधीशाश्च ब्रह्मादयो
विष्ण्वाद्याः प्रतिकल्पनाशवपुषः कल्पान्तमेतत् परम् ।
नाश्यास्त्वं त्वविनाशिदिव्यवपुषा नित्यो जरावर्जितो
यावन्तत्सदनं चिराय मम सद्भक्त्या प्रमोदस्व भोः ॥४४॥
देवाः -
इन्दुकुन्दधवलाङ्गमहोक्षापाङ्गसङ्गचरणाम्बुज पाहि ।
शाङ्गलिङ्गकृतसङ्ग महाङ्गाशास्यलोकन हराव्यय पाहि ॥४५॥
गङ्गातुङ्गतरङ्गरङ्गितजटाजूटेन्दुखण्डोज्वल ज्वालाजालविलोचनोत्तम महाकाकोदराकल्पक ।
लीलाचालितरञ्जितत्रिभुवनापारार्ण्वान्तःस्थित घोराशीविषनाथरञ्जितमहापादाम्बुजावाद्य माम् ॥४६॥
मुकुन्दनयनार्चितं पदयुगं प्रपन्नोऽस्मि ते सनन्दसनातनाकलितवन्दनं नन्दनम् ।
हृदम्बुधितरङ्गकैः निखिलवेदवेद्यं सदा पदाम्बुजमरन्दपो भवतु मानसः षट्पदः ॥४७॥
कुलाचलकुमारिकाकुचतटीविहारादरं त्वदीयमधुना प्रभो मयि महाघदुःखैर्युते ।
निधेहि यदि मानसं तदिह मुक्तिकान्तापतिर्भवामि भुवनेपि सन् कुरु दयां त्वदीये शिशौ ॥४८॥
विश्राणय श्रमहरामनवद्यदृष्टिं कष्टौघभेदनविधौ विधिविष्णुवन्द्य ।
आद्योत्तमोत्तम भिवग्वरचन्द्रचूड संसाररोगहर रुद्र रुजं विनाश्य ॥४९॥
इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे मार्कण्डेयतपः - कालनिग्रह - मार्कण्डेयवरप्रदानवर्णनं नाम चतुर्शोऽध्यायः ॥
N/A
References : N/A
Last Updated : April 06, 2017
TOP