शिवाख्यः चतुर्थाम्शः - एकोनत्रिंशोऽध्यायः
श्रीशिवरहस्यम्
स्कन्दः -
इन्द्रोऽपि वृत्रवध्यातो ब्रह्मवध्यामवाप्तवान् । वृत्रे विश्वस्तघातेन देवानां कार्यहेतवे ॥१॥
इन्द्रस्य ब्रह्महत्यां तां ते देवा गुरुणा सह । भूमौ वनस्पतौ स्त्रीषु तां त्रेधा व्यभजंस्तदा ॥२॥
वरेण छन्दयंस्ते च देधान् सगुरुमिन्द्रकम् । यदि देयो वरोऽस्माकं तव वध्यां सुरोत्तम ॥३॥
गृह्णीमो न वयं शक्ताः कामन्नोऽद्य प्रपूरय । तानूचुः प्रसभं देवा वृणुतेति पृथक् पृथक् ॥४॥
खातप्रपूरणं भूमिः पुरा संवत्सरान्तरे । वृक्णानां पुनरुत्थानं वृक्षाणां मुनिसत्तम् ॥५॥
स्त्रीणां प्रसूतिर्यावद्वै तावत्कामप्रयोजनम् । संप्रपयैतद्वरं शक्रात् वध्याभागचतुष्टयम् ॥६॥
जगृहुस्ते त्रयोऽपीन्द्रमेकांशे व्यवस्थिताः । तेषां तल्लांछन न्याहुः निxxसे मलxxxxx ॥७॥
ऊषरस्तु तथा भूमेः वक्षाणाम स्त्रीगणस्य च । याजितो हयमेधेन गुरुणा सुरसत्तमैः ॥८॥
त्वष्टुः पुत्रवधोत्पन्ना साऽनुवव्राज तं हरिम् । तपस्विनं त्रिशिरसं शक्रं शत्रुं सुरैः सह ॥९॥
ब्रह्मदत्तवरोऽधावद्वज्रेणाथ तदाच्छिनत् । तद्वक्त्राण्यपतन्नुर्व्यां रोदसी कम्पयन्निव ॥१०॥
प्रथमं सोमपानाख्यं द्वितीयं तु सुरादनम् । अन्नदनं तृतीयं तु तेभ्यो वै पक्षिणोऽभवन् ॥११॥
तित्तिरिः कलविङ्कश्च क्रमेण कपिञ्जलः । सा वध्या शतमन्युञ्च अन्वगच्छच्च मन्युना ॥१२॥
दण्डहस्ता करालाक्षी ऊर्ध्वकेशा भयङ्करी । कृष्णाङ्गी कृष्णवदना मलपङ्कधरा तदा ॥१३॥
तां दृष्ट्वा भयदग्धाङ्गो हृतराज्योऽथ दैत्यपैः । बलिजम्मादिभिर्दैत्यैः नमुचिप्रमुखैस्तदा ॥१४॥
शोच्ये मनूनामधिपे देवैरिन्द्रोऽनुधावति । विश्वस्ततापसवधादुद्भूतब्रह्महत्यया ॥१५॥
शच्या सुरैश्च गुरुणा मानसान्तर्जलोत्थिते । पद्मकोशे निलिल्ये स युगमेकमतन्द्रितः ॥१६॥
पुनस्तद्राज्यमखिलं नहुषः प्रशशास ह । स प्रार्थयन् शचीं कामादगस्त्येनोद्धृतो नृपः ॥१७॥
नियोजितः स चोद्वाहे शांभवो मुनिसत्तमः । शशाप तं नृपं पापं पदसङ्गेन चुक्रुधे ॥१८॥
सर्पो भूत्वा पपातोर्व्यां सोऽपि निर्विण्णमानसः । इन्द्रोऽपि गुरुणा सार्धं गत्वा हालास्यशङ्करम् ॥१९॥
शफराक्षीयुतं साक्षात् तुष्टावाभ्यर्च्य भक्तितः । संवत्सरशतं साग्रं भस्मरुद्राक्षभूषणः ॥२०॥
सुपर्णपद्मिनीतीरे उवास नियताशनः । फलपर्णांबुनिरतः शक्रः साम्बं सनातनम् ॥२१॥
तुष्टावाष्टाकृतिं शम्भुं सुन्दरं भक्तवत्सलम् ।
शक्रः -
बलप्रमथनं हरं बहुदबाहुसंशोभितं बलारिबलिनन्दनैः प्रथितवन्दनं शङ्करम् ।
बलं धनवरप्रदं वकुलपुष्पमालोज्वलं बलं बिलशयाङ्घ्रिकं बडवपूज्यपादाम्बुजम् ॥२२॥
विनीतजलवत्सलं विगतमानहृत्तापहं विमानवरसंचरं प्रथितवेदगीताशयम् ।
विशेषणविवर्जितं विविधबन्धदुःखापहं भवाम्बुधिविशोषकं भवहरं प्रपद्ये शिवम् ॥२३॥
श्रुतिश्रवणभूषणे मदनबाणसंशोषणं त्रिपुण्ट्रपरितोषणे उडुगणेन्द्रसंभूषणम् ।
भजामि अघहारिणं सुकतराशिसंपूरणं स्वभक्तपरिपोषणं यमपुरादिसंहारिणम् ॥२४॥
उडुराजकलाधरं महेशं वरकाकोदरहारभूषितम् ।
सुरराजसमर्चिताङ्घ्रिपद्मं भजतां नास्ति पुनर्भवो भवेषु ॥२५॥
सूतः -
तत्स्तुत्या भववानुवावृषयुतो देवः पशूनां पतिः
प्रादुर्भूय पुरः स्थितस्त्रिनयनः सोमार्धचूडो हरः ।
इन्द्रं वृत्रवधार्दितं च सुमहत्तद्ब्रह्मवघ्यार्दितं
मा भैष्टेति गिराभ्युवाच सुदृढं तद्भक्तिदार्ढ्याद्धरः ॥२६॥
ईश्वरः -
त्वं वृत्रहत्याजनिताघमुक्तो भक्त्या ममाङ्घ्र्यम्बुजपूजनेन ।
युक्तोऽधुना शासय देवराज्यं देवैर्युतो भक्तियुतो मयीशे ॥२७॥
सभार्यो देवेषु प्रथितयशसा दैवतगणं महालिङ्गार्चातो मम गणवरः खादिषु चरः ।
सुरैर्युक्तो गच्छ त्वसुरजयाद्यद्वृतशिरा इतीशेनोद्दिष्टः सुरवरपुरं प्राप स तदा ॥२८॥
मुहुर्नत्वा शम्भुं शचिगुरुसुरओघैरभिययौ दिवं पापैर्मुक्तः पशुपतिकृपातोऽमरवरः ।
प्रसह्याजौ दैत्यान् व्यजयदथ राज्येन मुदितः
......... ......... ......... ......... ॥२९॥
इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे इन्द्रब्रह्महत्यानिवृत्तिवर्णनं नाम एकोनत्रिंशोऽध्यायः ॥
N/A
References : N/A
Last Updated : April 06, 2017
TOP