संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शिवाख्यः चतुर्थाम्शः| त्रयोदशोऽध्यायः शिवाख्यः चतुर्थाम्शः अणुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः शिवाख्यः चतुर्थाम्शः - त्रयोदशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव त्रयोदशोऽध्यायः Translation - भाषांतर जैगीषव्यः - मृकण्डुतनयः स्कन्द कथं जिग्येऽन्तकं पुरा । महादेवप्रसादेन तन्मे कथय सांप्रतम् ॥१॥न तृप्तिर्भगवद्भक्तचरितं श्रृण्वतो मम । भावा एव महोदारा भवपादार्चने रताः ।अपारं सन्तरन्त्येव भवं भावेन शाङ्करे ॥२॥सूतः - जैगीषव्यवचः श्रुत्वा षण्मुखस्तारकान्तकः । संसारतारकं भक्तचरितं प्रावदत् तदा ॥३॥स्कन्दः - श्रृणु त्वं शांभवश्रेष्ठ शिपिविष्टार्चकस्य च । मृकण्डुतनयस्येदं चरितं पापनाशनम् ॥४॥आसीत् प्रजापतिसुतो मृकण्डुर्मानसो मुनिः । कालञ्जरे गिरौ तत्र नानामुनिजनाश्रये ॥५॥वनस्पतिमहावल्लीवेष्टितदुमसंकुले । वसन्तप्रमुखानेकऋतुभिः परिसेविते ॥६॥मयूरहंसचक्राह्वयुतकासारसंयुते । मृगेन्द्रैर्वारणेन्द्रैश्च सृमरैश्चमैर्रयुते ॥७॥उत्फुल्लहल्लकलसत्कुमुदोत्पलशोभिते । वनवृक्षैस्तथा सालतमालामलकावृते ॥८॥रसालकृतमालाद्यैः भल्लमल्लातकैर्युते । नीपकेतकसिन्दूरकदम्बवकुलावृते ॥९॥शाल्मलीश्रीफलोपेते नानावल्लीविराजिते । गोदावरीपरिसरे कृतोटजवरो मुनिः ॥१०॥विशालाक्ष्याख्यया पत्न्या सोऽध्युवास कृताश्रमः । स तपोऽतपदत्युग्रमुग्रपादार्चने रतः ॥११॥त्रिकालं भस्मरुद्राक्षत्रिपुण्ट्रपरिशोभितः । रुद्राध्यायजपासक्तः पञ्चाक्षरपरायणः ॥१२॥चन्द्रचूडमहालिङ्गपूजाचञ्चुरमानसः । एवं लिङ्गं समभ्यर्च्य नित्यं स्तौति महेश्वरम ॥१३॥मृकण्डुः - फालाक्षाध्वरशिक्ष कक्षवसते उक्षेन्द्रकेतो हर त्र्यक्षाक्षय्यफलप्रदाक्षविहृते मां वीक्ष्य रक्षां कुरु ।भक्ष्यप्रायगदादिपानसमदृग्लक्ष्येऽप्यलक्ष्यो भवान् वीक्षाशिक्षितमन्मथान्तकरिपो लीलायितास्ते सुराः ॥१४॥असुरसुरवरैर्विमथ्यमानात् गिरिवरघर्षणतो हि सागरान्तात् ।गरगुरुभीतिपराहतोर्जितोजोहरिविधिबलभित्प्रपन्न पाहि ॥१५॥मुरहर शरकर हेमनगोत्तमधारक शङ्कर परिपाहि ।तुरगायितनिगमान्तकभीतिद उरगोत्तमभूषण शंभो ॥१६॥मधुमथनाक्षिपदाम्बुजपूजित भगणाधिपभाकृतमौले ।सजलजलप्रदनिभगल पुरहर भवभयतारक परिपाहि ॥१७॥इन्दुकलाधर मन्दरवस हर कुन्दसुमोत्तमनिभदेह ।बिन्दुकलार्णवपरवरविहृते कर्णदृगन्तधराव्यय पाहि ॥१८॥सूतः - एवं संस्तुत्य देवेशं निनाय हायनं तदा । तस्यैवं वर्तमानस्य नारदोऽभ्यगमद्गृहान् ॥१९॥तं विष्टंरेणानुमान्य स्वागतेनाभ्यनन्दयत् । कृतातिथ्यं च विश्रान्तं विष्टरश्रवसः सुतम् ॥२०॥उपामन्त्र्येति होवाच मृकण्डुः प्रश्रयान्मुनिम् ।मृकण्डुः - कुतः समागतं ब्रह्मन् क्व वा गन्तुं मनस्तव । कौतुकेनाद्य पृच्छामि स्निग्धभावतया मुने ॥२१॥ त्वं सर्वदर्शी मुनिषु न तवाविदितं क्कचित् । इत्युक्तो मुनिना तत्र नारदो दिव्यदर्शनः ॥२२॥कथाश्चाकथयद्ब्रह्मन् वैष्णवीश्चेन्द्रसद्मगाः । मुनीनां च नृपाणां च दैत्यासुरसमुद्भवाः ॥२३॥नारदः - किन्त्वेकं तव वक्ष्यामि स्निग्धत्वेनामुना मुने । नैव शोके मनः कार्यं श्रोतव्यं मे हितं वचः ॥२४॥ तव भार्या विशालाक्षी जनयिष्यति सुत्सुतम् । मुनिश्रेष्ठं महाभागं शिवपादार्चने रतम् ॥२५॥अद्यादिनवमे मासे षोडशाब्दं च जीवति । तेन पूजय देवेशं महेशं भक्तिभावतः ॥२६॥ आयुर्दाता महादेवः सर्वश्रुतिषुय कीर्तितः । तमाराधयतात् पुत्रा तस्य मृत्युहरो हरः ॥२७॥नैतच्च कथनीयं ते विस्रंभेनापि कस्याचित् । इत्युक्त्वा स गतः स्वैरं नारदो ब्रह्मनन्दनः ॥२८॥ततश्च नवमे मासि तत्पत्न्यन्तर्वती तदा । सुषाव कालेन सुतं कुमारं कृत्तिका इव ॥२९॥सर्वलक्षणसंपन्नं पित्रोरानन्ददायकम् । श्रुत्वा दृष्ट्वा मुनिं पुत्रं दत्वा दानानि शक्तितः ॥३०॥तं पुत्रं भस्मनाऽऽलिप्य त्रिपुण्ट्राण्याचरत् तदा । ततश्च सूतिकागेहे तेनाराधयदीश्वरम् ॥३१॥लिङ्गे जलं विल्वपत्रं तेन संपातयत् तदा । नारदस्य वचः श्रुत्वा तेन पुत्रेण वै मुनिः ॥३२॥चक्रे नामास्य स तदा मार्कण्डेयेति सादरम् । तस्मिंस्तदा वर्धमाने बालचन्द्रमसीव हि ॥३३॥उपनिन्ये सुतं तस्मै पञ्चाक्षरमुपादिशत् । पञ्चास्यप्रीतये तस्मै पञ्चत्वविनिवारकम् ॥३४॥अग्निरित्यादिमन्त्रैश्च त्रिकालं धूलने रतम् । त्रियायुषैः त्रिपुण्ट्राङ्कं फाले बाह्वोश्च वक्षसि ॥३५॥रुद्राक्षधारिणं पुत्रं रुद्राध्यायजपादग्म् । चकार नियमेनासौ सपुत्रेण मुनिस्तदा ॥३६॥वेदानध्यजिगीष्टासौ वर्णी वर्णाश्रमोचिताः । क्रियाश्चाकारयत् तस्मात् स्वगृहे न्यवसन्मुनिः ॥३७॥मार्कण्डेयोऽपि नियतश्चकार गुरुशासनम् । त्रिकालमर्चयन् साम्बं शिवलिङ्गें मनोहरे ॥३८॥भस्मरुद्राक्षसंपन्नो बिल्वपत्रैः सदैव हि । संपूज्य लिङ्गं संस्तौति मार्कण्डेयः शिवं स्मरन् ॥३९॥मार्कण्डेयः - श्रीकालकालाय वृषध्वजाय स्कन्दार्चिताय करिचर्मधराय तुभ्यम् ।वेदान्तबोधितपदाय सनातनाय देवोत्तमाय सततं भगवन्नमस्ते ॥४०॥ईशाय कोशनिवहाकृतिदूरगाय भीमाय उग्रशरकार्मुकधारिणे ते ।भस्माङ्गरागतनवे नयनाग्निलेशदग्धान्धकत्रिपुरकाम हराय तुभ्यम् ॥४१॥उमासहायाय भवोद्भवाय मारोरुकायदहनामललोचनाय ।व्यालेन्द्रमालगरनीलगलाय तुभ्यं विश्वाधिकाय च शिवाय सदा नमस्ते ॥४२॥यमदलदलनाय विशालदेहजालाय भूधरशयाय पिनाकिने ते ।वालाग्रमात्रहृदयान्तरदीपकाय शुद्धाय ज्ञानतनवे भगवन् नमस्ते ॥४३॥एवं स संस्तुवन् देवं मार्कण्डेयो महेश्वरम् । कलाः सर्वाः स जग्राह नियतो मुनिशासनात् ॥४४॥ईशानार्चापरो नित्यं कुशलः सर्वकर्मणि । ऊनषोडशवर्षं तं पुत्रं वीक्ष्य सुदुःखितौ ॥४५॥पितरौ तस्य तच्चारु गुणं वीक्ष्य दिने दिने । साश्रुपातं तदेकान्ते पश्यतस्तस्य तन्मुखम् ॥४६॥त्रिपुण्ट्रविलसत्फालं रुद्राक्षकृतकङ्कणम् । युवानं चारुसर्वाङ्गं दण्डाषाढविराजितम् ॥४७॥आषाढार्चनसंसक्तं तुषाराट्पदभीतिदम् । तौ प्रणम्य तदा प्राह खेदकारणमेतयोः ॥४८॥मार्कण्डेयः - विद्यमाने मयि ब्रह्मन् माता चेयं तपस्विनी । साश्रुपातं च मां वीक्ष्य किमर्थं दुःखितौ युवाम् ॥४९॥ब्रूत तत्कारणं मेऽद्य अपनेष्यामि तद् ध्रुवम् ॥५०॥सूतः - इत्युक्तं तद्वचः श्रुत्वा नारदोक्तं तदा मुनिः । पुत्रायाकथयत् सर्वं तस्य तन्मृत्युकारणम् ॥५१॥मृकण्डुः - कदाचिन्नारदोऽभ्यागात् गृहं मे दिव्यदर्शनः । ऊनषोडशवर्षे तु पुत्रे ते चान्तकाद्भयम् ॥५२॥इत्युक्त्वा निर्जगामाथ देवलोकं यथागतम् । यातः पञ्चदशो वर्षः तेन खिन्नोऽस्मि मा शुचः ॥५३॥सूतः - इत्युक्तं पितृवचनं निशाम्य हृष्टः पद्मोत्थामलसंभवस्य सूनुसूनुः ।तौ प्राहेत्थमपारशङ्करार्चाप्रभवोत्थामलहर्षतो महात्मा ॥५४॥इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे मार्कण्डेयचरिते मार्कण्डेयोत्पत्ति - नारदवाक्यवर्णनं नाम त्रयोदशोऽध्यायः ॥ N/A References : N/A Last Updated : April 06, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP