संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शिवाख्यः चतुर्थाम्शः| पञ्चदशोऽध्यायः शिवाख्यः चतुर्थाम्शः अणुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः शिवाख्यः चतुर्थाम्शः - पञ्चदशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव पञ्चदशोऽध्यायः Translation - भाषांतर स्कन्दः - हरपादहते काले प्रार्थयन्ति महेश्वरम् । ततो ब्रह्मादयो देवाः विष्ण्वाद्याः सुरपुङ्गवाः ॥१॥प्रणम्य देवदेवेशं स्तुवन्तीशं सनातनम् । कालस्योज्जीवनार्थाय सदा प्राञ्जालयस्तदा ॥२॥कृतानलोज्ज्वलन्नेत्रं करालं शूलधारिणम् । कालन्तकं महादेवं घनघोषं सदाशिवम् ॥३॥तदग्रे चास्थितं बालं मार्कण्डेयं च प्राञ्जलिम् । मुकुटेनापविद्धेन पतितं महिषोपरि ॥४॥निर्यज्जिह्वं विवृत्ताहं मुक्तकेशं भयानकम् । शमनं शमितैः प्राणैः महिषेण निपातितम् ॥५॥नीलाद्रिशिखराकारं दृष्ट्वेशं तुष्टुवुः सुराः ॥६॥देवाः - मलमलिनजनान्तरङ्गसङ्गे तव सङ्गो नहि विश्ववन्दित ।तव शाङ्गमलहृत्पयोजगे पदपद्मे प्रकटप्रभावयुक्ते ॥७॥गरुडाशनमौलिरत्नमाल मदहस्तिप्रकटोरुचर्मशोभ ।मधुमारोत्तमनेत्र पूजितांघ्रे शरणं यामि भवन्तमेकवेव ॥८॥यामिनीरमणमौलिजालभृत्कामिनीकलितसामिविग्रह ।मेदिनीरमणतापि भाति सौदामिनीव तरला भुवि लक्ष्मीः ॥९॥सामस्तोमैंकभूमा तदुदितमनसां राशिभिः स्तोभसङ्घैः भूमानन्दस्त्वमात्मा हृदि सुधियजने भासि भानात्मकस्त्वम् ।सामास्यादिषडास्यपुत्रविनतस्त्वं सोमधामाननो मीमांस्योऽखिलवेदमौलिनिवहैः कस्ते समः शङ्कर ॥१०॥वेदान्ते विहितोरुभावकलनैः त्वां दान्तवर्याः द्विजाः त्वामेकं हृदि सर्वगं भुवनपं जानन्ति नान्यं जगत् ।यत्तत्वं तदिति प्रबोधवचनैरस्मीति वाक्याधिकं शब्दोब्दोधमयं भवन्तमगजाकान्तं नितान्तं सदा ॥११॥त्वत्फालानलकीलितो विनिहतो ज्वालावलीभस्मासात् तूलोत्थामलशैलवच्च निहतः कालः कुतः शूलभृत् ।हीने कालेऽनुलोके जगदिदमखिलं धर्मलेशैकहीनं का वार्ता कलितुं महेश्वर महादेवेश रक्षाधुना ॥१२॥सहमान सहस्व मन्तुमेनं तव भक्ते च कृतं हि कालजन्यम् ।जनिनाशप्रथनाय कालमेनं जगतो जीवय पाहि चन्द्रमौले ॥१३॥सूतः - इति वैधसवाक्यतोरुमन्योः प्रशशामैव तदाशुशुक्षणिः ।शतमन्युप्रभृतीनवेक्ष्य दृष्ट्या मुनिबालं च हतं तदान्तकं च ॥१४॥पुनरुज्जीवयदाशु देवदेवः करुणावारिनिधिः सुरादिवाक्यैः ॥१५॥ततोत्थितः प्रणम्येशं कालो देवस्य पश्यतः । मार्कण्डेयस्य हि पुरो व्रीलावनतकन्धरः ॥१६॥तुष्टाव देवमष्टामिः देवमष्टाभिः वाक्योत्कृष्टैश्च खिन्नधीः । कृताञ्जलिपुटो भूत्वा विश्वेशं शान्तमानसः ॥१७॥कालः - कालकाल सुरवन्द्य शङ्कर व्यालमाल गरनील महेश ।व्योमकेश शशिचूड रक्ष मां पक्षपातजदृशा परिपाहि ॥१८॥दक्षमन्युकृतशिक्ष वीक्ष्य मां कुक्षिगाखिलजगत् त्रिपुरारे ।पाहि मामतिदयावलोकनैः शाधि मामतिभयात् तव शम्भो ॥१९॥कुण्डलीशकृतकुण्डलशम्भो चण्डपापहरणं तव नाम ।सूकराण्डजगती मृगयन्तौ मौलिमूलमथ ते सुरनाथ ॥२०॥मथितमदनकाय भीम शम्भो मथुमथनाम्बुरुहाक्षिपूज्यपाद ।धृतगङ्गासुतरङ्गमौलिभागान्धकरात्रो परिपाहि मां दृशाद्य ॥२१॥उक्षाधीश्वरकेतनोरुरुचिरापाङ्गावलोकेन मां पाहीशान दयानिधान भगवन् कारुण्यवारांनिधे ।शाधीशान तवाज्ञयैव सहसा लोकं च रागात्मकं पुण्यैः पापवरैर्नियुक्तभवकं कुर्वे जगत् स्वस्तितः ॥२२॥देवाज्ञापय देवदेव भगवन् सर्वज्ञ सांब प्रभो के वा त्वत्पदपूजकाः प्रतिभवं क्षेत्राणि कान्येव ते ।के शैवास्तव संमताः शिवरतास्तेषां वद त्वं प्रभो त्वत्सेवां करवाणि शूलवरधृक्पाणे प्रियां शङ्कर ॥२३॥नातस्ते प्रपदांबुजार्चनरतान् स्व्पनेऽपि मन्ये सदा ॥२४॥सूतः - इति तस्य गिरं श्रुत्वा प्राह देवो महेश्वरः । पश्यतां देवसंघानां तं शासद्यमशासनः ॥२५॥ईश्वरः - ये पूजयन्ति शशिखण्डशिखण्डलिङ्गं बिल्वीदलैश्च नियमात् महिते प्रदोषे ।नित्यं त्रिकालमपि केवलमेककालं कालान्तकं तव तमान्वहमर्चनीयाः ॥२६॥भस्मात्रिपुण्ट्रनिटिलाः कुटीलापि पापैः रुद्राक्षवक्षसुगलाकरकर्णयुग्माः ।पञ्चाक्षरैकनिरताः शतरुद्रमन्त्रजप्यानुरक्तहृदयास्तव पूजनीयाः ॥२७॥ये तुङ्गलिङ्गदृगपाङ्गितपाणिसङ्गिशाङ्गाः कृतार्थतनवः तव लोकसङ्गाः ।नो यान्ति यान्ति सदनं मम राजताद्रिपापाद्रिभङ्गकुलिशाः कुशला नरेषु ॥२८॥मद्भक्तपूजनपरा मम सर्ववर्णैः वर्णाश्रमादिरहिता अपि ते सुपूज्याः ।वर्णाश्रमेषु निरता मम भक्तिहीना नैव भ्रमन्ति विविधा मम धर्मभासिअः ॥२९॥तेषा त्वमेव फलदोऽसि सुधर्मवर्त्मा पापेषु दुर्मुखतया परिशासकोऽसि ॥३०॥हे चन्द्रचूडशरणागतदीनबन्धो विश्वेश शङ्कर मृडाव्यय पाहि शम्भो ।ये कीर्तयन्ति सततं हिमधामचूडं ते शांकरास्तव यमान्वहमर्चनीयाः ॥३१॥हे दक्षशिक्ष गजकालहरान्तकारे श्रीव्योमकेश परमेश्वर पञ्चवक्त्र ।ये कीर्तयन्ति सततं हिमधामचूडं ते शांकरास्तव यमान्वहमर्चनीयाः ॥३२॥हे देवदेव जगतां जनकाव माम त्वं विश्वाधिक त्रिदशनायक कामवैरिन् ।ये कीर्तयन्ति ........ ........ मर्चनीयाः ॥३३॥हे खण्डपर्शु वरकुण्डलकुण्डलीश वेतण्डशुण्डजनकोत्तमवेदगीत ।ये कीर्तयन्ति ........ ........ मर्चनीयाः ॥३४॥हे शूलपाणिकमलान्धकदैत्यशत्रो भर्ग त्रियंबक सदाशिव कालकाल ।ये कीर्तयन्ति ........ ........ मर्चनीयाः ॥३५॥ये देवदेव हर दुर उमासहाय ब्रह्मोत्तमाङ्गकलितामलस्रग्धरेति ।ये कीर्तयन्ति ........ ........ मर्चनीयाः ॥३६॥हे मन्मथान्तक महेश पिनाकपाणे ज्वालावलीनयन वेदकुलावतंस ।ये कीर्तयन्ति ........ ........ मर्चनीयाः ॥३७॥हे विश्वसर्जनविधानविनाशकेश आशावसान परमेति शिवएति नित्यम् ।ये कीर्तयन्ति ........ ........ मर्चनीयाः ॥३८॥वैकुण्ठनेत्रसरसीरुहपूज्यपाद मातङ्गसङ्गकटिचर्मवसेश्वरेति ।ये कीर्तयन्ति ........ ........ मर्चनीयाः ॥३९॥लुम्पन्ति धातृविहितानि ललाटभागे यान्यक्षराणि सुकृतेतरपाकदानि ।तानि त्रिपुण्ट्रचनेन समूलजाललूनानि शङ्कर कृपावशतो भवन्ति ॥४०॥इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे यमानुशासनं नाम पञ्चदशोऽध्यायः ॥ N/A References : N/A Last Updated : April 06, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP