संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शिवाख्यः चतुर्थाम्शः|
चतुर्थोऽध्यायः

शिवाख्यः चतुर्थाम्शः - चतुर्थोऽध्यायः

श्रीशिवरहस्यम्


जैगीषव्यः -
कथं समभवत् तस्य पुत्रोऽनल्पपराक्रमः । वैतहव्यस्य यजतः परमेश्वरतुष्टये ॥१॥
मालवाद्रौ मुनिगणैस्तन्मे कथय विस्तरात् ॥२॥
सूतः -
इति तद्वचनं श्रुत्वा तमवोचत् षडाननः । वैतहव्यसुतावाप्तिं यज्ञं शिवप्रियम् ॥३॥
स्कन्दः -
वैखानसैर्वालखिल्यैर्मर्गगर्गकुलोद्भवैः । मुनिभिः स मुनिश्रेष्ठो ऋत्विग्भूतैंर्गिरौ तदा ॥४॥
चतुरात्रं पुरारातिप्रसादाय समारभत् । दीक्षयामास तं धौम्यो ब्रह्मा तस्याभवत् कुणिः ॥५॥
भार्गवश्वाभवत् होता उद्गाता तत्र तुम्बुरुः । सदस्यश्चानमित्रोऽभूत् प्रवर्ग्यैरुपसन्मुखैः ॥६॥
स तदा ववृधे यज्ञो विश्वेशेनानुमोदितः । लेखमोदैकजनकः स्वाद्वन्नो बहुदक्षिणः ॥७॥
तस्य तत्र महाविप्रैः कृषतो यज्ञभूतलम् । ऋत्विग्भिर्लाङ्गलेनैव ततः सीतामुखोत्थिताम् ॥८॥
मञ्जूषां पिहितां तत्र भूमिस्थां सन्ददर्श ह । हिरण्मयीं द्युतियुतां वैतहव्यो द्विजैः सह ॥९॥
तां गृहीत्वा सदोमध्यमाजगाम महामुनिः । उत्पाट्य दर्शयांचक्रे सर्वेषां शर्वतोषकृत् ॥१०॥
पत्न्या समन्वितस्तत्र बालमुत्तानशायिनम् । पूर्णचन्द्रप्रतीकाशं द्विभुजं भूषणान्वितम् ॥११॥
तं गृहीत्वाऽथ पर्यङ्के निवेश्याप्तमनोरथः । पत्न्या ऋत्विग्वरैस्तत्र शिवदत्तोऽयमित्युत ॥१२॥
तदा ब्रह्मादयो देवा इन्द्राद्याः समरुद्गणाः । विद्याधराश्च गन्धर्वा यक्षकिम्पुरुषादयः ॥१३॥
मुनयश्च तथैवान्ये नारदाद्या जगुः कलम् । ववर्ष वासवः पुष्पैः मेघगर्भसमुद्भवैः ॥१४॥
देवतूर्याण्यवाद्यन्त यज्ञवाटे मुनेस्तदा । चित्रवत्यपि सवस्तन्यं पाययत् प्रस्नुतं तदा ॥१५॥
जातेष्टिप्रमुखास्तत्र क्रियाश्चक्रुर्मुनीश्वराः । भ्रष्टमूर्तिमयान् देवान् यजन्नष्टाकपालतः ॥१६॥
गोधनानि च धान्यनि प्रादाद्विप्रेषु हर्वितः । ब्रह्मेन्द्रपमुखान् देवान् पूजयामास वै मुनिः ॥१७॥
तमाह विधिरेन्द्रेण शिलाशनमुनेः सुतम् ॥१८॥
ब्रह्मा -
सर्वानन्दमयो यस्मात् नन्दीशाख्यामवप्य ते । नाम चक्रुर्मुनिगणाः शैलादिरिति चापरे ॥१९॥
अनुज्ञाप्य सुरान् सर्वान् संपूज्य मुनिसत्तमान् । समाप्य यज्ञशेषं च विश्राण्य बहु दक्षिणाः ॥२०॥
गावश्चान्नं तथा वासो ययौ साग्निसुतो गृहान् । विप्रानुमोदितः पत्न्या वैतहव्यो निजाश्रमम् ॥२१॥
पुत्रं वीक्ष्येन्दुसंकाशं वर्धमानं दिने दिने । जातहर्षौं तदा नत्र दम्पती शिवभावितौ ॥२२॥
तं विद्या ग्राहयामास चतुःषष्टिकलात्मिकाः । कलाधरोरुचूडस्य प्रसादादेव सोऽग्रहीत् ॥२३॥
विश्वानन्दमये बाले तस्मिन्नेत्रं स्थिते सति । वर्धमाने पितुर्मातुः प्रीत्यै चन्द्रकलेव तम् ॥२४॥
उपनाय्य च तं काले शालङ्कायनगोत्रजम् । मुनिभिर्विनयोपेतं वेदानध्यापयत् क्रमात् ॥२५॥
सोऽगृह्णात् चतुरो वेदान् सषडङ्ग्पदक्रमात् । ईxदत्तान् पुरा वेधाः चतुर्वक्त्रैर्यथाग्रहीत् ॥२६॥
तथायं वेदसारज्ञो ह्यमवत् भवपूजकः । तमुपादिश्य सन्मन्त्रं पञ्चाक्षरमसौ पिता ॥२७॥
समुपादिश्य लिङ्गार्चां भस्मरुद्राक्षभूषितम् । अनुशस्याथ धम्रेषु गुरुवृत्तो भवेति तम् ॥२८॥
पितरौ परमानन्दहृत्सागरतरङ्गकैः । पूर्णौ पुत्राननेन्दूत्थदर्शनानन्दमेदुरौ ॥२९॥
सोऽपि विप्रसुतैः सार्धं सदा गुरुकुले वसन् । विद्या वेदानुगाः सर्वा जगृहे गुरुसेवया ॥३०॥
गुरुगेहे वसन् नन्दी द्वादशाब्दं शिवार्चकः । बभौ सर्वकलोपेतः पूर्णिमायां शशी यथा ॥३१॥
तस्यार्चतो महादेवं सहाध्यायकुमारकाः । फलानि पुष्पाण्याजह्रुः स्वादूनि वि।मलानि च ॥३२॥
बिल्वपत्राणि चाप्यन्ये भस्मरुद्राक्षभूषणाः । संपूज्य परमात्मनं स्तुवन्नित्थमवर्तत ॥३३॥
नन्दिकेशः -
विधितुङ्गकपालजालमालं सुरसालायितबाहुधृक्त्रिशूलम् ।
गरनीलगलं कलेशमौलिं भज कङ्कालशिवं कृपालवालम् ॥३४॥
भज कालानलशैलजातकन्याकलनालोकनविप्रबालपालम् ।
कलधौतामलशैलमूलवासं जितकालं कुमुदोत्पलोरुमालम् ॥३५॥
करीन्द्रपूज्य पूजितं करीन्द्रचर्मधारकं करीन्द्रमौलिनृत्तकं करीन्द्रदैत्यघातकम् ।
करीन्द्रवाहसंस्तुतं करीन्द्रपूज्यपादुकं भजे करीन्द्रकाननाधिपं महेश्वरं सदा ॥३६॥
एवं स्तुवन् विप्रसुतैर्वसन् गुरुकुले तदा । वेदवेदान्तेसर्वस्वं विद्यास्तत्र कलायुताः ॥३७॥
अध्यगीष्ट तदा नन्दी अष्टमूर्तिप्रसादतः । गुरवे दक्षिणां दत्वा पिरोराप गृहं तदा ॥३८॥
नत्वा स पितरौ तत्र तावानन्दपरिप्लुतौ । यथा कुमारसन्दशें जगतां पितरे तदा ॥३९॥
तं दृष्ट्वा पूर्णचन्द्राभं पितरौ तोषमापतुः । तमुल्लसिततारुण्यं नन्दिनं विश्वनन्दिनम् ॥४०॥
तस्योद्वादविधिप्राप्त्ये कृतकीमुकमङ्गलौ । तावुवाच प्रणम्यासौ नन्दी नन्दितसद्गुणाः ॥४१॥
नन्दीशः -
तपस्यभिरतं चेतो नियुक्तं मे शिवार्चने । प्रसाद्य देव भवताम पूरयिष्योमि हृद्गतम् ॥४२॥
स नन्दिनो वचः श्रुत्वा तं पिता प्राह खिन्नधीः ॥४३॥
शिलाशनः -
नन्दिन् कुसुमसङ्काशा तनुस्तपति ते‍द्य हि । न बाल्ये रमते चेतो युवाऽसि चलचित्तकः ॥४४॥
तपोविघ्नकरा देवा मा तेऽभूद्बुद्धिरिदृशी । वार्धके तपसि स्वैरं भवतो रमतां मनः ॥४५॥
चिरलब्धोऽसि पुत्र त्वं तपसेशप्रसादतः । पुत्र मा साहसं कार्षीः वत्सलां पश्य मातरम् ॥४६॥
वध्वा विहर जीवात्र ममानन्दप्रदायकः । इत्युक्तस्तौ प्रणम्यैव सान्त्वयामास वाग्रसैः ॥४७॥
नन्दिकेशः -
किमसाध्यं भगवति प्रीते शम्मौ सनातने । न देवपदमाकांक्षे त्र्यक्षभक्तुत्थिताशयः ॥४८॥
देवदेवे विरूपाक्षे तपाअ परितोषिते । किं ममालभ्यमस्तीह इति चित्तविनिश्चयम् ॥४९॥
हृदये परिमुञ्चन्तु ज्वरमेतं सुदारुणम् । इत्युक्त्वा तत्र हि गिरौ चकाराश्रममुत्तमम् ॥५०॥
तस्मिंस्तपस्यभिरते मुनिवर्यसङ्घाः विस्मायितोरुहृदयाः सदयास्तदातीम् ।
भस्मत्रिपुण्ड्रनिटिले वररुद्रनेत्रहारावलीकलितदेहवरे मनोज्ञे ॥५१॥
बिल्वीदलार्चनरते परमेशलिङ्गे पञ्चाक्षरावृत्तिपरे वररुद्रxप्ये ।
देवा अपि त्रिनयनार्चनजातहर्षं तर्षैर्विहीनमवलोक्य नमन्ति तं वै ॥५२॥
शिलादः - वितर पुरहराद्य शम्भो ( ? ) तव सारूप्यधरं कुमारतुल्यम् ।
इति शम्भुः प्रजगाद वाक्यजातं मुनये भक्तियुताम देवदेवः ॥५३॥
शिवः - मम सारूप्यधरस्त्वयोनिजातः कृष भूमिं मखकर्मणे द्विजाशु ।
तदुपश्रुत्य गते शिवं प्रणम्य द्रुतमेवाशु चकर्ष लाङ्गलैः ॥५४॥
सुखभूमौ निहितां विलोक्य पात्रीं शिवदत्तामवलोकयन् मुनीन्द्रः ।
तव गुणगणना गणाधिनाथं गुणवन्तं त्रिगुणाधिकं तनूजम् ॥५५॥
सिकताशनकामनां महेशो गणवर्यो भवितेति ते तनूजः ।
इति पूरयदञ्जसा मुनेः इममेव श्रृणुयान्नरः सुखाप्त्यै ॥५६॥
इति श्रीशिवहस्य शिवाख्ये चतुर्थांशे शिलाशनयागान्नन्दिकेशोत्पत्तिचरितवर्णनं नाम चतुर्थोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 06, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP