शिवाख्यः चतुर्थाम्शः - नवमोऽध्यायः
श्रीशिवरहस्यम्
स्कन्दाः -
पुरा मन्दरशैलेन्द्रशिखरे रम्यकन्दरे । नानाप्रस्रवणोपेते मृगपक्षिगणाकुले ॥१॥
रम्ये मन्दशैलाग्रे भृङ्गी नाम महामुनिः । यत् किञ्चित् काममालम्बय मनसि द्विजपुङ्गवः ॥२॥
दिव्यं वर्षसहस्रं तु तपस्तेपे सुदारुणम् । ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षास्वाकाशसंश्रयः ॥३॥
हेमन्ते जलमध्यस्थो जितक्रोधो जितेन्द्रियः । एवं स तपसा विप्रो ह्यनैषीवत्सगयुतम् ॥४॥
नैवासौ दृष्टवान् शम्भुं तेनातप्यत दुर्मनाः । तत्रान्तरेऽभवद्वाणी शुम्भेराकाशमध्यगा ॥५॥
वाणी -
वदाम्यहमुपायं ते शुद्धचित्तस्य सांप्रतम् । यथा शीघ्रं प्रसन्नः स्यात् देवदेवो महेश्वरः ॥६॥
भक्तोऽसि त्वं महेशाने पात्रभृतोऽसि चानघ । ब्रह्मचर्येण वा किं ते गुरुशुश्रषयाऽपि वा ॥७॥
समस्तदेवान् धर्मांश्च उत्सृज्य नियमादिकम् । भक्त्याराधय देवेशं करुणामृतवारिधिम् ॥८॥
भक्त्यैव परया देवस्तोषं याति महेश्वरः । रहस्य ते वदाम्यद्य तस्यैवाराधनक्रमम् ॥९॥
येन शीघ्रं स तुष्टः स्यात् महेशः पार्वतीपतिः । प्रदक्षिणं हि परमा पूजा शम्भोर्महात्मनः ॥१०॥
कुरु प्रदक्षिणं शम्भोर्नित्यं भक्त्या द्विजोत्तम । प्रसन्नस्त्वयि देवेशः सर्वान् कामान् प्रयच्छति ॥११॥
इत्युक्त्वा विररामाथ शम्भोराकाशवाक् तदा । तदा प्रभृति भृङ्गीशो भृङ्गवत् पुष्पलिप्सया ॥१२॥
बभ्राम लिङ्गागारे स भस्मरुद्राक्षधृक् सदा । अहोरात्रमविश्रान्तो यथा मेरुं हि भास्करः ॥१३॥
संस्तुवन् देवदेवेशं शिवमेव निरन्तरम् । रुद्रमावर्तयंस्तत्र चकारासौ प्रदक्षिणम् ॥१४॥
हित्वा च देवीं स्कन्दं च गणपं चण्डिकेश्वरम् । प्रदक्षिणैकपरमो भृङ्गी भृङ्गवदास ह ॥१५॥
संस्तुवन्नेवमीशानं तत्स्तुतिं श्रृणु सत्तम ॥१६॥
भृङ्गी - शम्भो सङ्गतकामिनी नवसुधाधृग्धुर्यमौर्वीघनो
धेनूनांपतिवाहन प्रमथपाधीशान विश्वार्चित ।
वैकुण्ठात्मजकुण्ठितोरुसुशरापारव्यथां संहर
शम्भो देव दयानिधे करुणया मां पाहि विश्वेश्वर ॥१७॥
पौलस्त्यात्मजबाहुतोलितमहाकैलासमूलस्थितापारोद्वाहपरिश्रमार्तभुजभग्नार्तिस्तवाम्रेडित ।
स्वर्गङ्गापतनोरुगर्वकुलिशाखर्वाकपर्दोल्लसल्लीक्षेवाशुधृताव्ययेश्वर महादेवाद्य मां पालय ॥१८॥
भूमिस्यन्दनवाहने सुनिहिता वेदाश्च ते वाजिनो
मौर्वीं ते धनुकुध्रकौ शरवरो भूमेः सुतानायकः ।
सूर्येन्दू रथकर्षणाङ्कगयुतौ यन्ता स्वयं ते विधिः
लक्ष्यं ते त्रिपुरं तथापि यमिनां चित्ते ह्यलक्ष्यो भवान् ॥१९॥
तव शङ्कर किङ्करार्हता हरिपद्मासननेत्रसंभवाः ।
वृषवाहाध्वरदक्षशिक्ष शम्भो करटींत्वग्धृगहीश्वरोरुमाल ॥२०॥
गिरिपरिवर्तितसागरोदरोद्यद्गरलीलानिहताः सुरासुराद्याः ।
भवता भवतापहारिणा गरभुक्त्या सुखिनः सुरासुराः ॥२१॥
एवं संस्तूयमानश्च भृङ्गिनः पुरतः शिवः । प्रादुरासीद्वृषारूढो नीलकण्ठस्त्रिलोचनः ॥२२॥
देव्यालिङ्गितवामाङ्गो गणबृन्दनिषेवितः । दृष्ट्वा प्रणम्य देवेशं सामिचन्द्रकलाधरम् ॥२३॥
दृष्ट्वा तत्पार्श्वगांस्तत्र गणेन्द्रान् वारणप्रभान् । त्रिनेत्रान् नीलकण्ठांश्च भस्मदिव्यत्रिपुण्ट्रकान् ॥२४॥
नन्दिकेशश्चण्डिकेशो महाकालोऽथ बाणकः । कालामुखः शङ्कुकर्णो वीरभद्रो मयूरकः ॥२५॥
गजकर्णस्ताम्रवक्त्रो वृद्धसेनो विदूरथः । सोमनन्दी महानन्दी तुहुण्डश्चैव डुण्डकः ॥२६॥
छत्रचामरकोटीभिर्व्यजनैश्च पताककैः । गणानां शतसाहस्रैः अयुतैर्नियुतैः पुनः ॥२७॥
कोटिकोटिभिरन्यैंश्च विविधायुधभूषणैः । वृतं महेशं तुष्टाव भृङ्गी चन्द्रकलाधरम् ॥२८॥
भृङ्गी - शम्भो स्फार तटीद्वयोरुतटिनीगर्वादिनिर्वापणो
वीर्योत्तेजिजटानिटालनयनस्त्वं धूर्जटिः पाटकः ।
घोराकृत्रिमगोसहायुतमहाकण्ठीरवोद्यत्प्रभा
कट्यां त्वत्करटीभवं वरशयः शूलानलेनाहितः ( ? ) ॥२९॥
त्वं खण्डपर्शो शशिखण्डचूड खट्वाङ्गखङ्गशरहेतिमहोरुबाहो ।
आखण्डलादिसुरवन्दित पुण्डरीकचर्माम्बराम्बुज अहीशवरोरुहार ॥३०॥
कुण्डलीशकृतकुण्डल गण्डस्फालनील नलिनामलमाल ।
शूलमूलवरहस्तकपाल द्योतितामलझलंझलपाद ॥३१॥
सूतः -
तत्स्तुतिं शङ्करः श्रुत्वा प्राह तं भृङ्गिनं मुनिम् । त्रैलोक्यजननीं दृष्ट्वा तामूचे भक्तवत्सलः ॥३२॥
ईश्वरः -
देवि त्वद्दर्शनेनायं गणपो भवतान्मम । मम सारूप्यभाङ् नित्यमेष भृङ्गी महामतिः ।
सदाशिववचः श्रुत्वा देवी प्राह महेश्वरम् ॥३३॥
देवी -
देवदेव महेशान सर्वज्ञ करुणानिधे । त्वया वरो न दातव्यो मुनये चन्द्रशेखर ॥३४॥
वदामि कारणं चास्य भृङ्गी नामैष दुर्मतिः । प्रदक्षिणं ते प्रचरन् मां चाद्य कुरुते बहिः ॥३५॥
श्रुत्वा देव्यास्तदा वाक्यं देवदेवो महेश्वरः । तां दृष्ट्वा कुपितां शम्भुः प्रत्यूचे हिमशैलजाम् ॥३६॥
ईश्वरः -
श्रृणु देवि ममैवायं कुरुतेऽद्य प्रदक्षिणम् । मामेव शरणं यातः तस्मान्नो मन्युमर्हति ॥३७॥
प्रसादं कुरु भक्तस्य शरणं च गतस्य माम् । इति प्रसादयन् देवीं प्रोवाच हिमशैलजाम् ।
दृष्ट्वा चापि मुनिं तत्र प्राञ्जलिं विनयानतम् ॥३८॥
ईश्वरः -
अहं विश्वाधीशो भुवनमखिलं शैलतनया अहं वह्निः सोमो गिरिशतनया भूतनिवहः ।
अहं पञ्चार्णस्थः श्रृणु द्विज नवार्णा भगवती नचावां वै भिन्नौ जगदखिलमाभ्यां सुविहितम् ॥३९॥
यश्चोदुम्बरडम्बरः फलभरैरैवं महेशाङ्गजाद्रोमाग्रेषु अनन्तकोटिगणनाहीनाङ्गकोट्यो मुने ।
भिन्ना लोकपरंपरा हरिहरब्रह्मादयो वै सुराः विश्वं भूतमिदं विचित्रजनकं विश्वेशमाह श्रुतिः ॥४०॥
प्रालेयाचलकन्यके तव मनः पद्मोत्पलाभं कथं
अस्मिन् भृङ्गिमुनौ ममान्तरतनौ कोपः कथं ते वद ।
संप्राप्नोतु पतन्नपि त्रिपदतां त्वद्दृक्पयोजांचितः
सर्वेषां गणमौलिरेष इति मे वांछा परं जायते ॥४१॥
इत्युक्तं गिरिजा शिवस्य वचनं श्रुत्वा प्रहृष्टा मुनिः
वत्सोत्तिष्ठ गिराऽधुना प्रपत मा भूमाविति प्राह तम् ।
त्वं मे पुत्रवरोऽसि मां च शिवतो भिन्नां न संपश्य भो
किञ्चित् द्रोणमरीचिकाविरहिता सूर्यप्रभा सूर्यतः ॥४२॥
मायाऽहं प्रकृतिः परः स भगवान् मायी महेशः शिवः
विद्याधीश्वर एव विश्वजनको लोकातिगः शङ्करः ।
मुक्ताः कालकलाविलासकलितैः ब्रह्मेन्द्रनारायणाः
श्रीमृत्युञ्जय एव कालकलनातीतो महेशः परः ॥
लोकानुग्रहरूपतो हि समया कैलासमौलौ स्थितः ॥४३॥
न वेद वेदोऽपि शिवप्रभावं स्वात्मानमेवाद्वयमीशितारम् ।
सर्वेन्द्रियाणां पुरुषं परायणं को वेद यो वेद शिवः सनातनः ॥४४॥
इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे भृङ्गिप्रसादार्थं देवीसांत्वनं नाम नवमोऽध्यायः ॥
N/A
References : N/A
Last Updated : April 06, 2017
TOP