शिवाख्यः चतुर्थाम्शः - अष्टाविंशोऽध्यायः
श्रीशिवरहस्यम्
स्कन्दः -
ब्रह्मापि शिवनिन्दायाः करणेनातिदुःखितः । श्रुत्वा शिवस्य वचनं प्रणम्याह महेश्वरम् ॥१॥
छिन्नशीर्षः स रुद्रेण व्रीडावनतकन्धरः । तुष्टाव परमेशानं कृतनिन्दापनुत्तये ॥२॥
ब्रह्मा -
मदमुदितमदनदमन सदनीकृत गिरिवदन ?
संक्रन्दनकृतवन्दन यमुनानुजभवनशमन ।
सिकताशनतनयरक्षण भुवनाधिपगगनान्तर
( गहनाकृतिमनन ) गिरिजानन कमलोद्भव परिगन्धितसंहनन ॥३॥
अरुणानुजकृतवाहन परिपूजन परितोषण
तरणिप्रभदितिजान्तकखरवक्त्रक शंभो ।
( अरशोभितचक्रवरप्रद ) वरुणालय कृतपारण मुनिपूजितचरण
अरुणाचलवसते शिव करुणां कुरु शंभो ॥४॥
सूत्रः -
ब्रह्मणः संस्तवं श्रुत्वा तमाह प्रसभं वचः । देवदेवो विरूपाक्षः प्राह पङ्कजसंभवम् ॥५॥
ईश्वरः -
माभैर्ब्रह्मंस्तवानेन स्तोत्रवर्येण पद्मज । मामेव तपसाऽऽराध्य प्रतिष्ठां लिङ्गसंभवाम् ॥६॥
मन्निन्दायाः फलं प्राप्तं कालरुद्रेण शिक्षितः । त्वत्कपालकरः सोऽपि नियुक्तो भिक्षणे सुरे ॥७॥
आदाय भिक्षांण देवेषु भीतेषु सुरसत्तम । गरुडध्वजमासाद्य तस्य वै रक्तधारया ॥८॥
अर्धपूर्णकपालेन शूलप्रोतं च तं गणम् । विष्वक्सेनं समादाय पश्य गच्छति शूलधृक् ॥९॥
शारदाभ्रघनप्रख्यो विमुञ्चन् भैरवस्वनम् । जटामौलिः सदा रुद्रो वेदसङ्घैर्वृतस्तदा ॥१०॥
अविमुक्तं प्रविष्टोऽसौ तत्कराग्रात् कपालकम् । सब्रह्मवध्यं पपति यत्र ते पतितं शिरः ॥११॥
कपालमोचनाख्यं तत् कपालेशसमीपतः । सरः पापैकशमनं स्नातानां संभविष्यति ॥१२॥
त्वमपि श्रद्धया ब्रह्मन् शिवनिन्दाघशान्तये । मुक्तये चापि मामीशमाराधय महेश्वरम् ॥१३॥
विरिञ्चिकाख्ये स्वपुरे लिङ्गाराधनकृत् सदा । भस्मरुद्राक्षसंपन्नो निरेनास्त्वं भविष्यसि ॥१४॥
मद्द्रोहनिन्दापापानामहमेवाशु मोचकः । अनिष्कृतिपरं ह्येतदद्य मोघं भविष्यति ॥१५॥
नैतत्पापविनाशाय न यमो न हरिः सुराः । भक्ता मामीशमाराध्य मुक्तपापो भविष्यसि ॥१६॥
नोचेत्प्रवर्धते नित्यं दुःखानन्तफलप्रदम् । मद्द्रोहपातकं घोरं यथा काश्यां कृतं स्वघम् ॥१७॥
तस्मान्मामेव शरणमुपयाहि विधेऽधुना ॥१८॥
सूतः -
स धाता शिववाक्येन त्यक्तमोहो महेश्वरम् । नत्वा गते देवदेवे स्वयं चक्रे तपोऽयुतम् ॥१९॥
वर्षाणां नियतात्मा सन् भस्मरुद्राक्षभूषणः । भारत्या च युतो वेधा रुद्रमावर्तयंस्तदा ॥२०॥
पञ्चाक्षरजपासक्तः पञ्चास्यध्यानतत्परः । विरिञ्चिपुरमासाद्य लिङ्गेऽपूजयदञ्जसा ॥२१॥
पञ्चामृतासेचनैश्च गन्धपुष्पानुलेपनैः । धूपैर्दीपैश्च नैवेद्यैः वाद्यनीराजनोत्सवैः ॥२२॥
त्रिकालं नियमाद्वेधा द्वादशाब्दव्रतं तदा । फलमूलाशनस्तत्र यतचित्तः समाचरत् ॥२३॥
वाय्वाहारो जलाहारः फलमूलाशनो विधिः । स्तुवन् सांबं हृदम्भोजे शिवलिङ्गं विलोकथन् ॥२४॥
निनाय कालं विनयात् कालकालार्चनाद्विधिः ॥२५॥
ब्रह्मा -
भवं हरं मृडं शिवं महेशमीशशङ्करं उमाधवं रमाधवाब्जनेत्रपूज्यपादकम् ।
गराशनं शरासने गिरीन्द्रमौलिधारिणं पुराशनं स्मराशनं भजे सदाऽघमोचकम् ॥२६॥
अजाद्यमुण्डवण्डधृङ्महाण्डकोटिमण्डलप्रचण्डताण्डवोल्लसत्सुगण्डकुण्डलीश्वरम् ।
शिखण्डखण्डसोमधृक्सुपुण्डरीकसंभवप्रकाशचर्मवासितं भजाम्यखण्डमीश्वरम् ॥२७॥
सूतः -
तस्तुत्या तुष्टहृदयो वृषारूढोऽभ्यगाच्छिवः । राजद्भुजङ्गवलयो जटाहीन्दुविभूषितः ॥२८॥
देव्यालिङ्गितवामाङ्गो गणबृन्दनिषेवितः । तमाह देवः प्रहसन् गिरिजां वीक्ष्य वै विधिम् ॥२९॥
देवानां गणबृन्दानां पश्यतां मुनिसत्तम ।
ईश्वरः -
निरेनास्त्वं मुक्तपापो मदर्चातो विधेऽधुना । गच्छ त्वं सृज भूतानि सत्यलोके वसन् मुदा ॥३०॥
मद्द्रोहघोरपापानां निष्कृतिर्मम पूजनम् । स वाण्या विधिरीशानं शर्वाणीपतिमीश्वरम् ॥३१॥
नत्वा ययौ गते शंभौ सत्यलोकाधिपः सुखम् । स सदस्यैः पूजितश्च पुत्रैर्देवैस्त्वसौ विधिः ॥३२॥
वितेने विविधां सृष्टिं ईशाज्ञासंप्रचोदितः ॥३३॥
स्कन्दः -
इत्थं वेधापि मोहाच्छिवमजरमहानिन्दनान्मुक्तपापो
भक्त्याऽराध्यैव शंभुं हरिहरविधिमिः पूजितं लिङ्गमैशम् ।
भक्त्या शङ्करपादपद्ममनघं संपूज्य भक्त्या वृतः
तल्लिङ्गेक्षणतोऽपि पातकवरैर्युक्तोल विमुक्तोऽभवत् ॥३४॥
पञ्चादिपातकवरैः परवञ्चनादि कुर्वन् गृहादिषु हविर्भुजमुञ्चिताशः (?) ।
भक्त्या कुलुञ्चपतिवञ्चनकृन्महेशं ख्यातो विरिञ्चिरपि किञ्चन नाप पापम् ॥३५॥
किं वर्णाश्रमतत्परश्रमभरैः विश्रामभूमिः परा
काशीनाशितपापसङ्घसुकृतां काश्येकनिःश्रेणिका ।
सा वेणी मणिकर्णिका सुकृतिनामीशार्चनाल्लभ्यते
लब्ध्वाऽप्यन्तिमकाललोलकरणे मोक्षैकविश्राणिका ॥३६॥
इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे ब्रह्मस्तुतिशिवप्रसादवर्णनं नामाष्टाविंशोऽध्यायः ॥
N/A
References : N/A
Last Updated : April 06, 2017
TOP