संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शिवाख्यः चतुर्थाम्शः| त्रयोविंशोऽध्यायः शिवाख्यः चतुर्थाम्शः अणुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः शिवाख्यः चतुर्थाम्शः - त्रयोविंशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव त्रयोविंशोऽध्यायः Translation - भाषांतर स्कन्दः - तत्स्तुन्या तुष्ट ईशानो ददौ तद्बुद्धिकांक्षितम् । वृषारूढो महादेव्यो गणौधैः पुरतः स्थितः ॥१॥तं प्रणम्य सुराधीशं स्तुत्वा विप्राध्वरेश्वरम् । जानुभ्यामवनिं गत्वा स्तोत्रमेतज्जगाद च ॥२॥गङ्गाचन्द्रकलाधर त्रिजगतां कामान्नपूर्णार्धधृक् तूर्णं मे हृदि चिन्तितं दिश विभो पाहीश मामर्भकम् ।ऊर्णाचक्रनिकाशसंसृतिमहाचक्रेऽथ बद्धाङ्गकं त्वामेवाभिमुखं प्रयामि शरणं मामद्य सांब प्रभो ॥३॥अगुणं भगणाधिपैकचूडं त्रिगुणातीतगुणं च निर्गुणं तम् ।अरुणाधिपकारणं सुराणं वरुणार्च्यं शरणं शरण्यमीड्यम् ॥४॥धृतभसितभुजङ्गं भक्तचित्तैकसङ्गं करधृतसुकुरङ्गं तुङ्गलिङ्गैकसङ्गम् ।मुनिजनभवभङ्गं कालकालं रथाङ्गप्रदमथ हरये तं संभजे शङ्गमीशम् ॥५॥समुत्थाप्य तमाशीर्भिरभिनन्द्य सदाशिवः । कामं कामान्तकस्यैव प्रसादश्चास्तु शाश्वतः ॥६॥स्वच्छन्दमरणं तेऽस्तु त्वं मे भक्तः सनातनम् । तत् प्रतिग्राह्य स मुनिरुवास निजकेतने ॥७॥गोभिर्धान्यगणैर्धनादिविभवै रम्यैर्गृहैर्भूषणैः स्वाद्वनैः शिवलिङ्गपूजनरतो विप्रोऽध्युवासाश्रमे ।तच्छ्रुत्वा नृपतिः शिवप्रभवजं भाग्यं स विष्ण्वर्चना - ल्लब्धां दर्शयितुं गजाश्वनिवहैरायान्मुनिं तं तदा ॥८॥तेनान्नं बुभुजे सुषड्रसवरं संपूजितोऽसौ नृपः द्रष्टुं तत्तपसः क्रियां तमाह विहसन् मौर्ख्यात् स विष्ण्वर्चनात् ।प्राप्तं दर्शयदस्त्रजालनिकरं सो ( ? ) दर्भमुष्टया बलात् निर्वीर्ये निजशस्त्रजालनिवहैर्मत्तेभसङ्गाश्वकैः ॥९॥सैन्ये नाशमुपागते स हि मुनिर्जिग्ये यदा तं नृपं विष्णुः शार्ङ्गसचक्रधारगदयाऽभ्यागान्मुनीन्द्रं च तम् ।भक्तं स्वं शिवभक्तवीर्यनिहतं दर्भाग्रमुष्ट्यैकया चुक्रोध प्रसभं तदा मुनिवरे शस्त्राणि चैवोत्सृजत् ॥१०॥चक्रं तं निहतारमीश्वरपरं नत्वाऽभितस्थेऽञ्जलिं दृष्ट्वाऽस्त्रेण विवर्जितः स तु मुनिर्याहीति चोक्त्वा हसन् भक्तस्याद्य तवाद्य घातकवरं किं धाष्टर्यमीशात्मके ॥११॥दधीचीवचसा हरिर्विधुतकेशपाशं नृपं समीक्ष्य भुवि पातितं कुशशरैर्मुनेर्मन्त्रजैः ।अदर्शयदथाञ्जसा मुनिवराय सxदर्शनं जगज्जठरकल्पितं स तु मुनिर्हरौ दर्शयत् ॥१२॥शिवाङ्घ्रिपदपूजनात् स्वयमपि प्रबोधं वचो जगाद हरये हृदा मदननाशपादार्चकः ॥१३॥दधीचिः - चक्रं शम्भुकृपावशात् तव महानेत्राम्बुजैः पूजनात् संप्राप्तं मयि शम्भुभक्तिसुमनाः पश्याञ्जलिं संस्थितम् ।एतद्दैत्यवधाय कल्पितमुमाकान्तेन शान्तात्मना एतद्योगवशाद्भवान् जयकलायुक्तो जगत् पासि च ॥१४॥मा धाष्टर्यं कुरु शाङ्करेषु तदितो गच्छाधुना स्वं पदं एषोज्जीवतु मे ( सखा ) स्वसैन्यनिवहैः स्वं राज्यमाप्तोचितम् ।चोद्बुद्ध्वायतगर्वपर्वतवशो माभूः सदा त्वं हरे इत्युक्ते मुनिना जगाद नृपतिः सुप्तोत्थितेवोत्थितः ॥१५॥सैन्येनात्तपराभवं मुनिवरं नत्वा सविष्णुस्तदा स व्रीडाविमुखो जगाम नगरं राजा तदा विष्णुना ॥१६॥विष्णुः - मा धाष्टर्यं कुरु शांभवेषु नृपते ये शङ्करार्चापराः देवादैरपि पूजनीयचरिताः मायाहि ( ? ) पूज्या मम ।मद्भक्तैश्च मयापि पूजितमहापादाम्बुजास्ते सदा शान्ताः शर्वपरायणा हरमहादेवेशपादार्चकाः ॥१७॥इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे दधीचिवरप्रसादवर्णनं क्षुपगर्वहरणवर्णनं च नाम त्रयोविंशोऽध्यायः ॥ N/A References : N/A Last Updated : April 06, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP