संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शिवाख्यः चतुर्थाम्शः|
त्रिंशोऽध्यायः

शिवाख्यः चतुर्थाम्शः - त्रिंशोऽध्यायः

श्रीशिवरहस्यम्


स्कन्दः -
विष्णुश्चापि पुरा देवैः पाद्मे कल्पे मुनीश्वर । प्रार्थितो विजयोद्युक्तः समासाद्य महेश्वरम् ॥१॥
दत्यानां निधनान्वेषी शस्त्रहीनबलो हरिः । दृष्ट्वा क्षेत्राणि बहुशो देवदेवस्य शूलिनः ॥२॥
परिबभ्राम लक्ष्म्या वै गरुडेन सहादरात् । तेजिनीविपिने लिङ्गमद्राक्षीन्नेत्रमङ्गलम् ॥३॥
तत्पुरूरवसा पूर्वं पूजितं दिव्यधामगम् । मुनिभिः पूजितं स्वेष्टं दृष्ट्वा सह्याद्रिजामपि ॥४॥
समाहूय तदा विष्णुः संपावयितुमादरात् । सागात्तत्र समाहूता हराराधनतर्षिणा ॥५॥
हरिणा हरिणाक्षी सा राजदुत्फुल्लपङ्कजा । तस्यां ससनु हरिर्भक्त्या भस्मरुद्राक्षपुण्ट्रधृक् ॥६॥
शान्तः स्वमनसा रुद्रमावर्तयदतन्द्रितः । लक्ष्मीः शिवाराधनानि ददौ तस्मै पदेपदे ॥७॥
पुष्पाणि सुरभीण्येव कमलन्यमलान्यपि । स्वयं जहार पक्षीन्द्रो हरपादाम्बुजार्चने ॥८॥
अन्येऽपि तद्गणास्तत्र तं सेवन्ते हरिं तदा । वर्षायुतं तपश्चर्के फलाहारोऽम्बुजेक्षणः ॥९॥
सहस्रपत्रकमलैः पूजयंस्तेजिनीश्वरम् । दिव्यं धावातनोच्छम्भोः सर्वरत्नमनोहरम् ॥१०॥
तस्मिन्नपचितिं शम्भोर्विस्तरेणाकरोद्धरिः । स्मृतिमात्रागतैः सर्वसंभारैः शर्वपूजकः ॥११॥
क्षीरसागरसंभूतैर्घटलक्षैर्महेश्वरम् । दधिखण्डकमण्डैश्च नवोद्धृतघटीधृतैः ॥१२॥
अक्षुद्रफलदैः क्षौद्रैः शर्करागिरिभिर्हरिः । नारिकेलाम्रसुरसैः रंभानिंबुभवै रसैः ॥१३॥
पनसोरुमहाकोशैर्द्राक्षेक्षुरसकुम्भकैः । गन्धकर्पूरसलिलैर्वासितैश्च घटीभरैः ॥१४॥
वासोभिः स्वर्णकूलैश्च परिवेष्ट्य महेश्वरम् । समभ्यषिञ्चद् द्रव्यैश्च गन्धैरामौलिपीठकम् ॥१५॥
स्वर्णरत्नपरीक्लृप्तभूषणैर्भूष्य शङ्करम् । तेजिनीशं जीवितेशं पार्वत्या वै तदा हरिः ॥१६॥
तगरू अगरूसारैरधूपयत शङ्करम् । दीपैः कर्पूरखण्डोत्थैः घृतोद्बुद्धैः सहस्रशः ॥१७॥
मृदङ्गमुरजापारकाहलीशङ्खमद्दलैः । वेणुवीणारवैरीशं दुन्दुभीनां महारवैः ॥१८॥
तर्जिताम्भोधिनिनदैरप्सरोगणनर्तनेः । छत्रचामरपङ्क्तीभिः पताकादर्शकैरपि ॥१९॥
प्रदक्षिणनमस्कारैर्बिल्वपङ्कजपूजनैः । नानाविधोद्यत्सुरभिपुष्पाणां राशिभिः शिवम् ॥२०॥
नैवेद्यैर्भक्ष्यभोज्यानां राशिभिश्चान्नकल्पितैः । एवं वर्षायुतं विष्णुः त्रिकालं शङ्करार्चकः ॥२१॥
तेजिनीविपिनेशानमालस्यपरिवर्जितः । संस्तुवन् परया भक्त्या लक्ष्म्या च गरुडेन च ॥२२॥
विष्वक्सेनादिगणपैरुवासामरपुङ्गवैः । तादृशस्तपसो राशिर्न दृष्टो न श्रुतो मया ॥२३॥
सहस्रनामभिः साम्बसम्बुजोत्फुल्ललोचनैः । अम्बुजैः पूजयामास आरक्तैः शिवहर्षदैः ॥२४॥
मुनयोऽपि हरिं वीक्ष्य तपस्यन्तं सुविस्मिताः । निमीलिताक्षं घ्यायन्तमिदमूचुस्तदा वचः ॥२५॥
मुनयः -
कस्ते कामोऽमरश्रेष्ठ सर्वपूज्यो भवान् यतः । किं तवापि महादेवः पूज्योऽस्ति परमेश्वरः ॥२६॥
इति विप्रवचः श्रुत्वा मुनीनाह हरिस्तदा ॥२७॥
विष्णुः -
एष ब्रह्मैष रुद्रो हरिविधिजनकः सूर्यवन्द्रानलानां
वेदैर्गीतो महेशः प्रतिपदनमसां राशिभिः सर्वरुद्रः ।
यद्वामाङ्गभवो हरिर्विधिरयं स्रष्टा तु दक्षाङ्गजः
तन्नेत्रांबुजसम्भवो हर इति श्रुत्याभिधत्ते द्विजाः ॥२८॥
तं वै कारणकारणं परशिवं लिङ्गे च तुङ्गे सदा ध्यायामि प्रतिवासरं सुविकचै रक्तांबुजैः पूजये ॥२९॥
न विज्ञेयो देवः श्रुतिशिखरवाचां सुमनसां यतो जातं विश्वं विविधकरणं स्थावरचरम् ।
न जानन्तीशानं मम सुपिहिता मायिकधिया यतो विश्वं मुक्त्यै प्रभवति किलेशस्य भजनैः ॥३०॥
अतो मोहान्धा मां विविधजगतां कारणतया वदन्तीशानं मां विधिपिहितबुद्धया गतधियः ।
भ्रमन्तीशं हित्वा जननमरणैर्भ्रान्तिविवशाः द्विजा मोहेनान्धाः पशुपतिपदाम्भोजविमुखाः ॥३१॥
स कर्ता सर्वेषां प्रभुरिह जगत्कारणतया विभुर्भास्वानान्मा वपुषि परमानन्दकुहरः ।
अजो जीर्यो नेता सुरवरनृतिर्यक्षु विहितो महादेवो विश्वं भुवनभवनान्तर्द्युतिकरः ॥३२॥
यमीशानं चित्ते यमितहृदयाः कारणमुमासनाथं मन्नाथं प्रथितविपयैर्विस्मितधियः ।
न जानन्तीशानं हृदयदहरे संस्थितमहो श्रुतिश्रद्धाहीनाः पशुरिव हि मुग्धा विधिहताः ॥३३॥
ये शङ्करार्चनरता धृतभस्मपुण्ड्रा रुद्राक्षवक्षस इमे मम पूज्यपादाः ।
रुद्रानुवृत्तिपरमा वरपञ्चमन्त्रपञ्चास्यलिङ्गपरिपूजनसक्तचित्ताः ॥३४॥
ते मन्मनस्यभिरताः हरपादपद्मसङ्गे रतोरुहृदया मम पूज्यशाङ्गाः ।
तत्सङ्गसङ्गतमहत्पवनाणुरेणुसंस्पर्शनाच्छुचितरं मम गात्रमेतत् ॥३५॥
पात्रं त्रिनेत्रपदपङ्कजपूजनाय मित्रानुरक्तहृदयाब्जविकासि पत्रम् ।
चित्रं विचित्रमिदमेव सुचित्रवाक्यं वेदान्तबोधितधियो‍ऽपि वदन्ति इत्थम् ॥३६॥
स्कन्दः -
इत्युक्ता हरिणा मुनीश्वरगणाः प्रोचुर्महाशांभवाः
त्वत्प्रेमप्रवणानुरक्तहृदया व्याचक्ष्महे त्वद्धितम् ॥३७॥
त्वं शर्वपादकमलोत्तमसङ्गचित्तो हृत्तापपापरहितो वरकर्मदेवः ।
त्वादृङ्मना न हि सुरेषु महेश्वरांघ्रिपद्मोत्थभृङ्गमनसा त्वमिहासि भक्तः ॥३८॥
इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे शिवप्रभाववर्णनं नाम त्रिंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 06, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP