संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शिवाख्यः चतुर्थाम्शः| द्वादशोऽध्यायः शिवाख्यः चतुर्थाम्शः अणुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः शिवाख्यः चतुर्थाम्शः - द्वादशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव द्वादशोऽध्यायः Translation - भाषांतर स्कन्दः - पञ्चवर्षाणि बालोऽसावुपमन्युर्महाद्युतिः । चकार नियमं घोरं शोणाकूले जपन् तदा ॥१॥भस्मत्रिपुण्ट्रुद्राक्षधारको मुनिसत्तमः । वर्षं पर्णाशनो बाल उपमन्य्वीश्वराभिधम् ॥२॥प्रतिष्ठाप्यार्चयत् तत्र त्रिकालं बिल्वपल्लवैः । निवेद्य फलमूलानि वन्यपुष्पैर्महेश्वरम् ॥३॥वर्षं फलाशनस्तस्थौ वर्षं वाताशनोऽभवत् । रुद्रमावर्तयंस्तत्र मुनिर्निश्चलमानसः ॥४॥तताप परमं घोरं तपः परमदुश्चरम् । सुरवित्रासनकरं त्रिनेत्रपदपूजकः ॥५॥ततो वर्षान्तिमे तत्र बालं दृष्ट्वा मुनीश्वराः । यतयश्च तदा सर्वे विस्मितास्तत्तपःक्रियाम् ॥६॥बालं च बालासंकाशं तपन्तमनलं यथा । देवा ब्रह्मादयश्चैव नारदाद्या महर्षयः ॥७॥धन्योऽयमित्यवोचंस्ते महामन्युपदार्चकः । नान्यत्रास्य चलं चेतो महेशपदपूजनात् ॥८॥ भक्तिरस्य विरूपाक्षे ब्रह्मजन्मतपःफलम् । शिवभक्तोऽयमधुना सर्वदेवाधिकस्त्वयम् ॥९॥मुनीनामपि मान्योऽयं बालभानुप्रभोऽर्भकः । अर्भकोऽपि सदास्माकं मान्यो भर्गपदार्चकः ॥१०॥संसारभर्जकोऽत्यन्तं पापसङ्घैकतर्जकः । एकस्य दर्शनेनापि महापातकराशयः ॥११॥विनाशमुपगच्छन्ति शाङ्गसङ्गावलोकनैः । इत्यमन्यन्त देवास्ते उपमन्युं महाद्युतिम् ॥१२॥मुनयो मुनिपत्न्यश्च सर्वे विस्मयितान्तराः । तस्मिंस्तदा तप्यमाने उपमन्यौ मुनेः सुते ॥१३॥तद्ध्यनधारासंक्रान्तो महादेवो महेश्वरः । जगाम दर्शनं तस्य उमायुक्तो वृषाधिपः ॥१४॥त्रिनेत्रो नीलकण्ठश्च सर्वाभरणभूषितः । पूर्णेन्दुद्युतिसर्वाङ्गो गणवृन्दनिषेवितः ॥१५॥संस्तुतो देवसङ्घैश्च मुनिभिस्तत्र शंकरः । आलोक्य स महादेवं ववन्दे बालको मुनिः ॥१६॥उत्थाप्य तं मुनिवरं बालं शीतांशुभूषणः । पस्पर्श पाणिना वक्त्रं शन्तमेन महेश्वरः ॥१७॥उपमन्युः करस्पर्शात् महेशस्यामितात्मनः । प्रणम्य देवं तुष्टाव भक्त्या नम्रशिरोधरः ॥प्रबद्धाज्जलिहस्ताग्र उग्रदेवं कपर्दिनम् ॥१८॥उपमन्युः - जय शङ्कर पार्वतीपते मृड शंभो शशिखण्डमण्डन ।मदनान्तक भक्तवत्सल प्रियकैलास दयासुधाम्बुधे ॥१९॥ सदुपायकथास्वपण्डितो हृदये दुःखशरेण खण्डितः ।शशिखण्डशिखण्डमण्डनं शरणं यामि शरण्यमीश्वरम् ॥२०॥ महतः परितः प्रसर्पतः तमसो दर्शनभेदिनो भिदे ।दिननाथ इव स्वतेजसा हृदयव्योम्नि मनागुदेहि नः ॥२१॥न वयं तव चर्मचक्षुषा पदवीमप्यभिवीक्षितुं क्षमाः ।कृपयाऽभयदेन चक्षुषा सकलेनेश विलोकयाशु माम् ॥२२॥त्वदनुस्मृतिरेव पावनी स्तुतियुक्ता नहि वक्तुमीश सा ।मधुरं हि पयः स्वभावतो ननु कीदृक् सितशर्करान्वितम् ॥२३॥सविषोऽप्यमृतायते भवान् शवमुण्डाभरणोऽपि पावनः ।भव एव भवान्तकः सतां समदृष्टिर्विषमेक्षणोऽपि सन् ॥२४॥अपि शूलधरो निरामयो दृढवैराग्यरतोऽपि रागवान् ।अपि भैक्षचरो महेश्वरः चरितं चित्रमिदं हि ते प्रभो ॥२५॥वितरत्यभिवांछितं नृणां परिपृष्टः किल कल्पपादपः ।हृदये स्वत एव धीमते नमतेऽभीष्टफलप्रदो भवान् ॥२६॥सहसैव भुजङ्गपाशवान् विनिगृह्णाति न यावदन्तकः ।अभयं कुरु तावदाशु मे गतजीवस्य पुनः किमौषधैः ॥२७॥सविषैरिव भीमपन्नगैः विषयैरेभिरलं परीक्षितुम् ।अमृतैरिव संभ्रमेण मामभिषिञ्चाशु दयावलोकनैः ॥२८॥मुनयो बहवोऽथ धन्यतां गमिताः स्वाभिमतार्थलाभतः ।करुणाकर येन तेन मां अवसन्नं ननु पश्य चक्षुषा ॥२९॥ प्रणमाम्यथ यामि चापरं शरणं कं कृपणाभयप्रदम् ।विरहीव विभो प्रियामयं परिपश्यामि भवन्मयं जगत् ॥३०॥बहवो भवताऽकम्पिताः किमितीशान न माऽनुकम्पसे ।दधता किमु मन्दराचलं परमाणुः कमठेन दुर्धरः ॥३१॥ अशुचिं यदि मां नु मन्यसे किमिदं मूर्ध्नि कपालदाम ते ।अथ शाठ्यमसाधुसङ्गमं विषलक्ष्मासि न किं द्विजिह्वभृत् ॥३२॥विलुठाम्यवनौ किमाकुलः किमुरो हन्मि शिरो भिनद्मि वा ।कुमु रोदिमि रारटीमि वा कृपणं मां न यदीक्षसे प्रभो ॥३३॥शिव सर्वग शर्व सर्वतः प्रणतो देव दयां कुरुष्व मे ।नम ईश्वर नाथ दिक्पते पुनरेवेश नमो नमोस्तु ते ॥३४॥ क्क दृशं विदधामि किं करोम्यधितिष्ठामि कथं भयाकुलः ।क्कनु तिष्ठसि रक्ष रक्ष मां मयि शम्भो शरणागतोऽस्मि ते ॥३५॥शरणं तरुणेन्दुशेखरः शरणं मे गिरिराजकन्यका । शरणं पुनरेव तावुभौ शरणं नान्यदुपैमि दैवतः ॥३६॥परलोकभयात् प्रतिक्षणं मे हृदयं मुह्यति मुग्धचन्द्रमौले ।सदयं परिगृह्य साधु बन्धो कुरु मां निर्भयमर्भकं त्वदीयम् ॥३७॥हर हर भव भीम भर्ग शंभो त्रिनयन रुद्र महेश विश्व शंभो ।हर हर दुरितं त्रिशूलपाणे शिव शिव शङ्कर किंकरस्तवाहम् ॥३८॥यथा मृकण्डोस्तनयं यमारे यथैव पाण्डोस्तनयं मखारे ।यथा शिलादस्य सुतं कृपाब्धे तथैव मां पाहि पिनाकपाणे ॥३९॥ सूतः - उपमन्युकृतं स्तोत्रं यः पठेत् शिवसन्निधौ । शिवलोकमवाप्नोति शिवेन सह मोदते ॥४०॥तत्स्तुत्या मोदितः शंभुः तं प्राह विनयानतम् ।देव्याः पश्यन् मुखाम्भोजं गणानां पश्यतां तदा ॥४१॥शिवः - वत्सोपमन्यो कामं ते वृणु तं पूरयाम्यहम् । गाणपत्यं प्रदत्तं ते विद्यास्तत्र चतुर्दश ॥४२॥ प्रतिमान्त्वद्य ते वेदाः साङ्गोपाङ्गाः शिवागमाः । शैवाचार्यो भवानस्तु पार्वत्यास्तनयो ह्यसि ॥४३॥इत्युक्ते शम्भुना तत्र विप्रोवाच महेश्वरम् ॥४४॥उपमन्युः - मात्रा पित्रा महादेव सह भोक्तुं सदाशिव । क्षीरान्नं परमं मेऽद्य भक्तिं त्वत्पादयोर्दृढाम् ॥४५॥ याचेऽहं देवदेवेश इत्युक्तं तस्य शङ्करः । देवीं वीक्ष्य तथेत्याह महादेवोऽम्बिकायुतः ॥४६॥ तं प्राह पश्यतां तत्र मुनीनां भावितात्मनाम् ॥४७॥ ईश्वरः - क्षीरोदार्णव एष ते सुविहितः त्वं शैववर्याग्रणीः त्वं विष्ण्वादिगुरुर्मवस्यमिहितो मल्लिङ्गपूजादरः ।त्वं नित्योसि सदा ममात्मजवरोऽपर्णाप्रियः स्कन्दवत् त्वत्स्तुत्या नितरामभीष्टफलदो यः स्तौति मां लिङ्गम् ॥४८॥तस्मै तां वितरामि मुक्तिमखिलां भुक्तिं सदा मानुषा - नन्दामोदपरंपराभिरिह ते ( ? ) वर्धेत मत्पूजकः ॥४९॥प्रालेयाचलसन्निभान्नगिरयो भक्ष्यैश्च भोज्यैर्युताः प्राज्याज्यादिपरिप्लुताः सुमधुरं क्षीरोदधिं त्वं पिब ।पश्यान्नाधिपपूजनेन विहिता वाञ्छाधिकास्त्वत्परो भक्तिर्मेऽस्तु सजग्धिरप्यनुदिनं नैवेद्यशेषेण मे ॥५०॥इत्युक्त्वा पुरसूदनः प्रमथपस्तत्रागमच्चाम्बया कैलासं मुनिनन्दनोऽपि सहसा दैर्वस्तदा पूजितः ।पित्रा मात्रनुमोदितः स च गिरिं देवप्रसादोद्भवं ज्ञानं सर्वसुपूजितान्नकलितं क्षीराम्बुधिं चापिबत् ॥५१॥इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे उपमन्युतपःस्तोत्रगाणपत्य क्षीरसमुद्रप्रदानादिवर्णनं नाम द्वादशोऽध्यायः ॥ N/A References : N/A Last Updated : April 06, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP