संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शिवाख्यः चतुर्थाम्शः| तृतीयोऽध्यायः शिवाख्यः चतुर्थाम्शः अणुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः शिवाख्यः चतुर्थाम्शः - तृतीयोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव तृतीयोऽध्यायः Translation - भाषांतर स्कन्दः - शिलादन तपश्चर्यां प्रसादं परमेष्ठिनः । श्रृणु त्वं मुनिशार्दूल कथ्यमानं गणैः सह ॥१॥यच्छ्रुत्वा लभते मुक्तिं शिवपादाम्बुजे मुने । अगजानायके यस्य भक्तिः किं तस्य कर्मभिः ॥२॥सर्वसंपत्प्रदा भक्तिः सवापद्धिनिवारिणी । सर्वभाग्यप्रदा नॄणां भक्तिः स्वर्गापवर्गदा ॥३॥माहेश्वरे पुराकल्पे मालवाख्ये महीधरे । नानावृक्षसमाकीर्णे नानापक्षिगणावृते ॥४॥पुष्पवल्लीगणभरैः मन्दमारुतसंयुते । नदत्सु देवतूर्येषु गन्धर्वेषु तपस्विषु ॥५॥सरोवरयुते रम्ये फुल्लाम्बुजसमन्विते । देवोद्यानोपमे तत्र गिरिकन्दरसुन्दरे ॥६॥पर्णांबुमोजी फलभुक् नित्यं वातसुxरणः । उवाच चोटजे विप्रः पत्न्या स तपसा मुनिः ॥७॥निनाय नियमेनायुः महर्षिः संशितव्रतः । जुह्वदग्निं सदा काले कुर्वन्नतिथिसत्क्रियाम् ॥८॥शिवार्पितेन जीवन् स रुद्रलिङ्गार्चनप्रियः । पत्रैः पुष्पैर्वन्यफलैः भस्मरुद्राक्षभूषणः ॥९॥वीतहव्यात्मजो योगी शिवयोगिजनार्चकः । तस्यैवं वर्तमानस्य वयः परिणतं बहु ॥१०॥तमाह भार्या विनयात् वीतहव्यं महामुनिम् । नाम्ना चित्रवती हृद्या विचित्रार्थविशारदा ॥११॥प्रणम्य रहसि स्वैरं प्रस्विन्नाननपङ्कजा ॥१२॥चित्रवती - कि~चिद्विज्ञप्तुमिच्छामि तदिहैकमना । श्रृणु x नावमान्यास्मि विप्रर्षे सारं मे वचनं हितम् ॥१३॥कुरु कर्णे मुनिश्रेष्ठु तपसैवाशु साधय । तपसा प्राप्यते भोगो भक्तिर्मुक्तिश्च शाश्वती ॥१४॥तप्सा मुनयः पूर्वं लेभिरे वांछितानि हि । तपसा परमेशानं शरणं व्रज शङ्करम् ॥१५॥भक्त्याऽऽराध्य महादेवं को न काममवाप्नुयात् । यस्य लिङ्गं समभ्यर्च्य मुनयस्तत्करे स्थिताह ॥१६॥ब्रह्मा ब्रह्मत्वमापन्नो महेशस्य प्रसादतः । विष्णुर्विष्णुत्वमापन्नो रुद्रो रुद्रत्वमाप्नुयात् ॥१७॥इन्द्रादयो देवसङ्घा विद्याधरवराप्सराः । किन्नराः ऋषयः सर्वा यक्षगन्धर्वकाः खगाः ॥१८॥मुनयो मनवो ये च भूतभव्यग्रहा गणाः । असुरा यक्षरक्षांसि दैत्यनाथाः सहस्रशः ॥१९॥प्रजानां पतयः सर्वे राजानो भूरिदक्षिणाः । समाराघ्यैव तपसा महेशं सर्वकामदम् ॥२०॥लेभिरे वांछीतान्येव तं समाराधयेश्वरम् । अनपत्यत्वमुभयोर्लोकयोर्गर्हितं खलुय ॥२१॥नापुत्रस्य हि लोकोऽस्ति इति संश्रूयते श्रुतिः । पुत्रेण लोकान् जयति पौत्रेणानन्त्यमश्नुते ॥२२॥जराशिथिलदेहौ च तपसा कर्शिताङ्गकौ । न दृश्यतेऽद्य सन्तानं कुलहेतुकरं तव ॥२३॥इत्थं स भार्यावचसा मुनिर्दुःखादुवाच ह । किं मे तपस्यभिरतिः नापुत्रः सुखमेधते ॥२४॥पुत्रहीनस्य हि गृहं धनधान्यसमृद्धिमत् । भवनं तद्वनं प्राहुः वनं पुत्र्यं गृहायते ॥२५॥पश्यैणबालकानन्ते मातृभिः सह शेरते । पश्य वानरनार्योऽपि कटिबद्धस्तनन्धयाः ॥२६॥पुत्रप्रेमान्विताः सर्वे पक्षिणो नीडमास्थिताः ।दिग्भ्यः कणान् समादाय पोषयन्ति सुतान् स्वकान् ॥२७॥किमप्राप्यं महेशार्चानियतानां शिवात्मनाम् । भुक्तिमुक्तिप्रदो देवो भक्तवश्यो महेश्वरः ॥२८॥सम्यगाराधितो भक्त्या कुलहेतुकरं मम । ददाति पुत्रमीशानं सर्वसौभाग्यवारिधिः ॥२९॥मा नो महान्तमुतमा इति रुद्रेषु गीयते ॥ स्तूयते परया भक्त्या स मे कामं विधास्यति ॥३०॥तदा पुनश्चित्रवत्या वीतहव्यो महामुनिः । गिरिमौलौ गिरीशस्य लिङ्गमाराधयंस्तदा ॥३१॥गृहीतनियमस्तत्र दश वर्षाणि सोऽचिरात् । भस्मस्थण्डिमध्यस्थः भस्मरुद्राक्षभूषणः ॥३२॥ रुद्रमावर्तयन् मौनी पञ्चाक्षरजपादरः । वर्षं शिलाशनो विप्रो फलमूलाम्बुभोजनः ॥३३॥निराहारस्ततो वर्षं वर्षं पवनभोजनः । तस्यैवं तपसा तुष्टो देवः कष्टनिवारकः ॥३४॥अष्टमूर्तिः पुरस्तस्थौ वृषारूढः सहोमया । गणगन्धर्वदेवैश्च सेवितोवाच तं प्रति ॥३५॥स्तुवन्ति परितो देवं रुद्रविष्णुपितामहाः ॥३६॥जयेतीशेति शर्वेति तदा प्राञ्जलयो मुदा । दृष्ट्वा देवं विरूपाक्षं अस्तौषीद्भक्तिभावतः ॥३७॥मुनिः - तमेकरुद्रमीश्वरं विजानतां तमेकधा न चैव भेदसन्ततिर्भयं न चैव तस्य हि ।तमेकमेव सन्तमप्यनेकधाऽवदच्छ्रुतिः सुरेन्द्रनायकादिनामभिस्तमेव तं भजे ॥३८॥न हि द्वितीयसंभवं महेश्वराज्जगद्गतं द्वितीयकल्पनावशाद्भयं भवेत तस्य हि ।द्विधैव देहभेदतो भजेऽद्य कृष्णपिङ्गलं सुमङ्गलं शिवायुतं दिवाकरान्तरं सदा ॥३९॥गुणत्रयातिदूरगं त्रिलोचनं त्रिमूर्तिगं त्रिधामभूमसामभिस्त्रिलोकवासमीश्वरम् ।भजे त्रिमात्रसङ्गतं तथोमिति श्रुतीरितं अहा वुहा वु इत्यथो सुसामवेदबोधदम् ॥४०॥चतुर्भुजाङ्गदेऽङ्गजप्रदग्धभस्मधारकं चतुःश्रुतीभिरीड्यमानपादुकं परं शिवम् ।चतुर्विधार्थभोगदायकं चतुर्दिशाम्बरं चतुर्मुखस्तुतं भजे चतुर्थमद्वयं सदा ॥४१॥भजामि कोशपञ्चकादिकाशमीश्वरं प्रभुं प्रपञ्च पञ्चभूतहृत्सुपञ्चबाणहृत्तमोनिवारकम् ।सुपञ्चवर्णमन्त्ररूपिणं महाघपंचवारणं नमःशिवायमन्त्रतः प्रसन्नमीश्वरं सदा ॥४२॥स्कन्दः - तत्स्तुत्या परमप्रीतो वरेणाच्छन्दयत् द्विजम् ॥४३॥शिवः - श्रृणु कामान् वीतहव्य तत्ते संपूरयाम्यहम् । महेशं तपसा प्राह विप्रो विप्रकुलेश्वरम् ॥४४॥मुनिः - त्वद्भक्तिमेव याचेऽहं सर्वकामप्रदायिनीम् । पुत्रं वंशकरं मेऽद्य दिश शम्भो चिरायुषम् ॥४५॥सूतः - देवो विप्रवचः श्रुत्वा तमाह प्रहसन्निव ॥४६॥ईश्वरः -वृद्धोऽसि सांप्रतं ब्रह्मन् यज्ञ यज्ञेन मां शिवम् यज्ञेश्वरं विरूपाक्षं सर्वदेवशरीरगम् ॥४७॥हलतः कर्षतो भूमिं सुपुत्रस्ते ह्ययोनिजः । भवेच्च मत्समो विप्र नम्ना त्वं च शिलादनः ॥४८॥गणेन्द्रश्च महायोगी इत्युक्त्वाऽदर्शनं गतः । अन्तर्हिते महादेवे दम्पती हर्षितो तदा ॥४९॥प्रणम्य स्वगृहं यातौ स्मरन्तौ शिवशासनम् । संभृत्य सर्वसंभारं यज्ञायैव मनो दधे ॥५०॥इत्थं शङ्करवाक्यतः प्रमुदितः पत्न्या मुनिः स्वं गृहं यातः पातकवर्जितोन्नतमतिः यज्ञाय दध्रे मनः ।पुण्यैर्विप्रवरैर्गिरीशतटिनीतीरे पवित्रे तदा शालां शीलयदग्निषु द्विजयुतो जुह्वन्ननैषीन्निशाः ॥५१॥इति श्रीशिवरहस्ये शिवाख्ये चतुर्यांशे शिलाशनतपश्चर्या शिवानुग्रहवर्णनं नाम तृतीयोऽध्यायः ॥ N/A References : N/A Last Updated : April 06, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP