संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शिवाख्यः चतुर्थाम्शः| एकोनविंशोऽध्यायः शिवाख्यः चतुर्थाम्शः अणुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः शिवाख्यः चतुर्थाम्शः - एकोनविंशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव एकोनविंशोऽध्यायः Translation - भाषांतर स्कन्दः - तथा ते गौतममुनिं परिवार्य स्थिता द्विजाः । त्र्यम्बकार्चापरा नित्यं तदा ते द्विजसत्तमाः ॥१॥रुद्रपञ्चाक्षरासक्ताः भस्मरुद्राक्षभूषणाः । शिवनैवेद्यपुष्टाङ्गाः शिपिविष्टार्चने रताः ॥२॥क्षामकष्टानि संत्यज्य निष्ठावन्तः सदा द्विजाः । भूसुरा भासुराचारा दुराचारविवर्जिताः ॥३॥अक्षपादाक्षवीक्षातः कटाक्षेण महेशितुः । सदाराश्च सपुत्राश्च शालिकेदाररक्षकाः ॥४॥गौतमस्यान्नपाकार्थे शूलिनः कृपया मुदा । गोदावर्यास्तटकूटीनिकटे कष्टवर्जिताः ॥५॥करटीत्वक्परीधानपदपङ्कजपूजकाः । धूर्जटिप्रेमसदने गौतमान्नभुजः सदा ॥६॥क्षामक्षोमं विहायैव भक्ष्यभोज्यभुजोऽमलाः । द्वादशाब्दावघि तदा साग्नयोऽथ कुटुम्बिनः ॥७॥गौतमेनापि विनयैः परिप्रश्नान्नभोजनैः । पूजिता न्यवसन् विप्राः तत्र कष्टं विधूय च ॥८॥ कदाचित् तत्र देवस्य प्रसादेन महेशितुः । बभूव वृष्टिः कृपया पुरशासनशासनात् ॥९॥भुवं तृणौषधियुतामकरोत् पाकशासनः । तृणौषधियुतामुर्वीं दृष्ट्वा ते स्वाश्रमं ययुः ॥१०॥प्रयातुं गौतममुनिं अपृच्छन् विनयोज्ज्वलाः ।मुनयः - भवता भवपादार्चाप्रभावेनानुमोदिताः । स्वाद्वन्नैर्भक्ष्यभोज्यैश्च शम्भोर्नैवेद्यवत्तरैः ॥११॥धिक्कृतस्वामृतरसैः पावनैः पाविता वयम् । स्वान् देशान् गन्तुमिच्छामः त्वमनुज्ञातुमर्हसि ॥१२॥सूतः - तदा मुनीनां वचनं श्रुत्वा वै गौतमो मुनिः । तान् प्रणम्य तदा प्राह विश्लेषभयकातरः ॥१३॥ गौतमः - यात यूयं स्वदेशांश्च स्वाश्रमाणि मुनीश्वराः । किञ्चित कालं विहृत्यात्र सुखेन मुनिसत्तमाः ॥१४॥शाङ्गानां भवतां सङ्गो भवभङ्गाय मेऽधुना । शाङ्गाङ्गसङ्गवातोऽपि सुखसङ्गाय केवलम् ॥१५॥किञ्चित् कोपसमायुक्ताः गमने विघन्कारिणम् । गौतमं तेऽब्रुवन् विप्रा गन्तुमेव द्विजं तदा ॥१६॥द्विजाः - भवतान्नप्रसादेन रक्षिताः स्नेहभावतः । बहुकालं निवसतामस्माकं गृहदर्शने ॥१७॥पशूनां बान्धवानां च गृहक्षेत्रादिबुद्धयः । गन्तुमिच्छाम भद्रं ते शिवपादार्चने रताः ॥१८॥गौतमः - मासमेकं वसन्त्वद्य मयि स्नेहेन सत्तमाः । धनुःसंस्थो दिवानाथो ह्यत्र पूजा महेशितुः ॥१९॥अस्मिन् संपूजिते मासि उषःकाले महेश्वरः । सेवन्तिकाभिर्बिल्वैश्च मुद्गान्नं विनिवेद्य च ॥२०॥नैवेद्यं शांभवान् भोज्य यथासंभवमद्य मे । विभाज्य घृतमुद्गान्नं भुञ्जान्तु सगुडं द्विजाः ॥२१॥एकस्मिन् भोजिते चास्मिन् मासि शांभवपुङ्गवे । कोटिशो भोजिता विप्राः तस्मान्मयि वसन्तु च ॥२२॥इत्युक्तवन्तं तं तत्र गौतमं विनयेन हि । पाश्चात्यबुद्धयो विप्रास्तपसा गां कृशां तदा ॥२३॥गौतमस्य तदा शालिक्षेत्रे सृष्ट्वाप्यचारयन् । गौतमो गां तदा दृष्ट्वा शालिभक्षणतत्पराम् ॥२४॥उपरोधं प्रकुर्वन्तीं द्विजानां मुनिसत्तमः । तृणाग्रैर्वारयामास गच्छ गच्छेति गां तदा ॥२५॥सा तृणस्पर्शमात्रेण गौतमस्य कराग्रतः । पतिता शालिकेदारे गौः प्राणांश्च मुमोच ह ॥२६॥गौतमेन हतां दृष्ट्वा गां तदा मुनिसत्तमाः । गौर्हता गतमेनेति गर्हयन्तो द्विजास्तदा ॥२७॥अघ्न्येत्येव गवां नाम वेदेषु प्रथितं सदा । नास्यान्नं भक्षितुं योग्यं इति विप्रा ययुस्तदा ॥२८॥स्वदेशानाश्रयाण्येव निन्दन्तो मुनिसत्तमम् । गौतमोऽपि तदा ज्ञात्वा दौष्ट्यं द्विजैः कृतम् ॥२९॥कोपाच्छशाप तान् विप्रान् तच्छृणुष्व मुनीश्वर ॥३०॥गौतमः - दुर्बुद्धयः सदा यूयं विप्रासूयापरायणाः । अन्योन्यनिन्दका यूयं भवन्तु ब्राह्मणाधमाः ॥३१॥परान्नेषु सदा तृप्ताः अतृप्ताः स्वगृहे सदा । शूद्रप्रतिग्रहरता वर्णाश्रमविवर्जिताः ॥३२॥नष्टवेदा दुराचारा भवन्तु ब्राह्मणाधमाः । विष्णुभक्तिच्छलेनैव शिवसन्दूषणे रताः ॥३३॥तेनैव विष्णुर्विमुखो भवत्सु भवतात् द्विजाः । तप्तचक्राङ्किता यूयं भवन्तु ब्राह्मणाधमाः ॥३४॥गोपीचन्दनलिप्ताङ्गाः श्वेतमृद्धारिणः सदा । दुष्टा दुराचाररता भवन्तु ब्राह्मणाधमाः ॥३५॥त्रिपुण्ड्रनिन्दका यूयं वेदप्रोक्ते सनातने । रुद्राक्षनिन्दकाश्चैव तद्धारणविवर्जिताः ॥३६॥वेदनिन्दारताश्चैव भवन्तु ब्राह्मणाधमाः । रुद्र पञ्चाक्षरे चापि तज्जपे शिवपूजने ॥३७॥लिङ्गसंस्पर्शने वापि शिवक्षेत्रानुवर्णने । भवन्तु विमुखा यूयं सदैव ब्राह्मणाधमाः ॥३८॥ शिवनैवेद्यभुक्तौ च यूयं विप्राः पराड्मुखाः । प्रदोषसोमवारेषु भूतकालष्टमीषु च ॥३९॥सायं लिङ्गार्चने हीनाः दिवाभुक्तिरताः सदा । भवन्तु विमुखा यूयं द्विजाः पाषाण्डिनः सदा ॥४०॥शिवक्षेत्रे चाविमुक्ते शिवयोगिजनेषु च । शिवभक्तार्चने चापि भवन्तु विमुखाः सदा ॥४१॥शिवाद्वैते च वेदान्ते गुरावपि महेश्वरे । भवन्तु विमुखा यूयं सान्वयाः कलिपीडिताः ॥४२॥शिवप्रदक्षिणविधौ प्रणामस्तोत्रकर्मणि । भवन्तु विमुखा यूयं द्विजाः पाषाण्डिनस्तथा ॥४३॥शिवनाम्नि शिवध्याने शिवतीर्थनिषेवणे । भवन्तु विमुखा यूयं द्विजाः पाषण्डिनस्तथा ॥४४॥शिवलिङ्गाग्रविहितवर्तने च पराड्मुखाः । शिवलिङ्गसमं विष्णुं पूजयन्त्वतिपापिनः ॥४५॥भवन्तु विमुखा यूयं द्विजाः पाषण्डिनः सदा । भवभावाहृताः सर्वे नरकं यान्तु सान्वयाः ॥४६॥भवत्सङ्गे कुसङ्गापि नरकं यान्तु सान्वयाः ॥४७॥यूयं शिरोव्रतविधौ शिवभस्मपुण्ड्रवेदान्तवेदगुरुभक्तिविहिनवंश्याः ।काका इवातिचपलाः परितो भ्रमन्तु दारिद्र्यदुःखनिकरैः ससुताः सदाराः ॥४८॥उक्षाधीश्वरकेतनं पशुपतिं लीक्षासमं वै हरं मन्वानाः शिवमबिकासहचरं पुण्ड्रान्तरैः संयुताः ।ध्वस्ता यात दिवानिशं जडधियः पापेन दुःखाधिका - स्तेनैवाशु विनश्य वंशसहिता घोरं हि दुःखर्णवम् ॥४९॥दारिद्र्येण निपीडिताः प्रतिभवं रोगादिदग्धाङ्गकाः अन्ते यान्तु यमालयं सुनिशितैः शस्त्रैर्हताः पापिनः ॥५०॥ये भस्मरुद्राक्षविहीनगात्राः ते भूसुग अपि सुरासभसंभवाः स्युः ।शुद्रा अपि प्रमथनाथपदार्चका ये ते भासुरा भसितगात्रवराक्षपूताः ॥५१॥स्कन्दः - इत्थं गौतमवाक्यतो मुनिवराः शापान्विता लाञ्छनैः युक्ताश्चोञ्चपरायणाः प्रतिभवं दारासुतान्नार्थिनः ।भ्रान्ताः शान्तिविवर्जिताश्च नरकं यान्तद्य तप्ताङ्गका रोगाक्रान्तपशुप्रभावविहिता घोरा हरद्वेषिणः ॥५२॥इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे गौतमशापवर्णनं नाम एकोनविंशोऽध्यायः ॥ N/A References : N/A Last Updated : April 06, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP